विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
DevanagariHindipublished1,001 पृष्ठ
पृष्ठ 612, कुल 1001 में से
संदर्भ में पढ़ेंपृष्ठ 612
वि० ध०
॥२८२॥
द्वि०खं०
अ० १६१
मुच्यते ॥ बलार्धेन प्रमाणं तु द्वैधीभावं तदुच्यते ॥ ४॥ उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः ॥ समेन सन्धिमन्विच्छेद्धीनेन च बलीयसः ॥
॥ ५॥ हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ॥ तत्रापि तस्य पार्ष्णिस्तु बलीयान्न समाश्रयेत् ॥ ६ ॥ आसीनः कर्मविच्छेदं शक्तः कर्तुं
रिपुंयदा ॥ अशुद्धपार्ष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ॥ ७॥ बलिना निगृहीतस्तु यो मन्येथेन पार्थिवः ॥ संश्रयस्तेन कर्तव्यो गुणानामचषो
गुणः ॥८॥ बहुलक्ष्यव्ययायासं तेषां यानं प्रकीर्तितम् ॥ बहुलभ्रक्रमः स्यात्तदा राम समाश्रयेत् ॥ ९ ॥ सर्वशक्तिविहीनस्तु तदा कुर्यात् संश्र-
यम् ॥१०॥ एवं च बुद्ध्वा नृपतिर्गुणानां काले च देशे च तथा विभागे ॥ समाश्रयेद्भागवमर्द्दवाशुमूर्य चैतावदुक्तं नृपतेस्तु कार्यम् ॥ ११ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पाड्गुण्यवर्णनो नाम पश्चाशदुत्तरशततमोऽध्यायः ॥ १६०॥
॥ राम उवाच ॥ ॥ अज्ञाने कर्म मे ब्रूहि राज्ञो राजीवलोचन ॥ यच्च कार्यं नरेन्द्राणां तथा च प्रतिवत्सरम् ॥ १ ॥ ॥ पुष्कर उवाच ॥
द्विसूर्हतार्वशपायां रात्रौ निद्रां त्यजेन्नृपः ॥ वेणुवीणामृदङ्गानां पदज्ञानां च निःस्वनैः ॥ २॥ वन्दिनां निःस्वनैश्चैव तथा मङ्गलवादिनाम् ॥
ततः पश्येन्महीपालो गूढांश्च पुरुषांन्निशि ॥ ३ ॥ विश्वापन्ते न ये लोके तदीया इति केनचित् ॥ आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ॥
॥ ४ ॥ देवोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत्तादृशात्तुभ्यः प्रदोपे तु कल्पसूत्सादिनास्ततः ॥५॥ स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम् ॥
सौषधैर्मन्त्रपूतैस्तु पानीयैर्विधिवैः शुभैः ॥ ६॥ सन्ध्योपास्य प्रयतः कृतजप्यः समाहितः ॥ अनन्यागारं प्रविश्याथ वह्निं पश्येन्नृपो
थसा ॥ ७ ॥ हुतान् सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् ॥ दुःस्वप्नशमनं कर्म तत्र कुर्यात्पुरोहितः ॥८॥ स्वयं चोमस्महे वह्नो पवित्रां जुहुया
न्नृपः ॥ तर्पयेदुदकैर्देवान्पितॄंश्च यथाविधि॥ ९॥ दद्याद्विजांतये धेनुं सवत्सां च सकांचनामू॥ शक्त्या घनैः पूजयित्वा दताशीः सततं द्विजैः॥ १०॥
अङ्गुलिस्तस्तः स्रग्वी सुवासाश्चाप्यलंकृतः ॥ दर्पणे च सुखं पश्येत्सुसुवर्णं च सर्पिषि ॥ ११ ॥ आज्यं प्रसन्नं सुरभि यदि स्याद्विज्यो भवेत् ॥
दीयमाने च दुर्बन्धे पतिते च भयं भवेत्॥ १२॥ विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ॥ सुभगे च यदा पश्येत्तदा तस्य शुभं भवेत् ॥१३॥
ततस्तु शृणुयाद्राजा सांवत्सरसुखोद्गतम् ॥ दिवसे तिथिनक्षत्रे सर्वाशुभनिवारनम् ॥१४॥ भिषजां च वचः कुर्यात्तत्सव्वारोग्यवर्धनम् ॥ मङ्गला
लम्भनं कृत्वा ततः पश्येद्रुरुन्नृपः ॥१५॥ कृत्याशीर्भिः पञ्चाद्राजा गच्छेत्सभन्ततः ॥ तत्रस्थान्ब्राह्मणान्पश्येदमात्यान्मन्त्रिणस्तथा ॥ १६॥
ततश्चैव महाभाग प्रतीहारनिबोधतः ॥ तत्रेतिहासश्रवणं कुर्यात्किञ्चिद्विचक्षणैः ॥ १७ ॥ ततः कार्यार्थिनां कुर्याद्धर्माधीः कार्यनिर्णयम् ॥ १८॥
॥२८२॥