भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 617, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 617

च ॥ मातङ्गायास्तथा भङ्गे परचक्रे भयं द्विज ॥ २ ॥ दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा ॥ तेषां तीव्रतमं ज्ञेयं फलमप्यन्तदारु- णम् ॥ ३ ॥ निलीयेते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ ४ ॥ इंद्रध्वजोपकरणं यत्किंचि- द्द्विजसत्तम ॥ विनश्यति तदा ज्ञेया पीडा नगरवासिनाम् ॥ ५ ॥ इंद्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् ॥ इन्द्रयागं पुनः कुर्यात्सौवर्णे- नेन्द्रकेतुना ॥ ६ ॥ राज्यं दत्त्वा च गुरवे बन्धनानि प्रमोचयेत् ॥ सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥ ७ ॥ शान्तिश्चैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः ॥ महाभोज्यानि कार्याणि ब्राह्मणानां दिनेदिने ॥ ८ ॥ गावश्च देया द्विजमुख्येभ्यो हिरण्यवाससांर्जतः सम्भृताः ॥ एवं कृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्नृपतेर्द्विपस्य ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे इन्द्रध्वज- निमित्तशमनवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १६६॥ राम उवाच ॥ शक्रोच्छ्रये तु यान्मन्त्रान्सोपवासो नृपः पठेत् ॥ तानहं श्रोतुमि- च्छामि सर्वधर्मभृतां वर ॥१॥ पुष्कर उवाच ॥ शृणु मन्त्रानिमान्सम्यक्सर्वकल्मषनाशनान् ॥ प्रति शक्रध्वजोच्छ्राये यः पठन्जयते नृपः ॥२॥ त्वामिन्द्र जितामित्र बुद्ध्यान्धाप्यवकाशास्तन ॥ देवैश्च महाभाग त्वं हि वर्धिष्णुतां गतः॥३॥त्वं प्रभुः शाश्वतोऽक्षय्य सर्वभूतहिते रतः॥ अनन्तरतेजो विरजो यशोविजयवर्धनः ॥ अप्रधृष्यस्त्वं प्रभुर्नित्यंस्तुतस्त्वं सुरपूजित ॥ ४॥ ब्रह्मा स्वयंभगवाञ्छर्वलोकेपितामहः ॥ रुद्रः पिनाकधृक्हन्ताश्वतस्त्वदर्थं यत्नमास्थि- तः ॥ ५ ॥ योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः ॥ तेजस्ते वर्धयन्त्येते नित्यमेव महाबलाः ॥ ६ ॥ अनादिनिधनो देवो ब्रह्मा सदा सनातनः ॥ अग्निरस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ॥ ७ ॥ कार्त्तिकेयः शक्तिधरः पङ्कजश्च गदाधरः ॥ शतं वरेण्यो वरदस्तत्स्तेजो वर्धयन्तां विभुः ॥ ८ ॥ देवः सेनापतिः स्कन्दः सुरवरपूजितः ॥ आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ॥ ९ ॥ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ॥ लोकपालास्तथैव चन्द्रः सूर्योऽनलोऽनिलः ॥ १० ॥ देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ॥ समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥ ११ ॥ तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिरेव च ॥ प्रवर्धयन्तु ततोऽद्य जय शक्र शचीपते॥ १२॥ तव चापि जयन्नित्यं त्विह संवर्धते शुभम् ॥ प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ १३ ॥ तव प्रसादात्पृथिवी नित्यं सस्यवती भवत् ॥ शिवं भवतु निर्विघ्नं शम्यतामतिरीतयो भृशम् ॥१४ ॥ नमस्ते देवदेवेश नमस्ते बलसूदन ॥ नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ १५ ॥ सर्वेशामेव लोकानां त्वमेका परमा गतिः ॥ त्वमेव परमः प्राणः सर्वस्यास्य जगत्पते ॥ १६ ॥ पाशो ह्यसि पयः सङ्घ त्वमनलं पुरन्दर ॥ त्वमेव मेवस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे ॥ १७॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 617, कुल 1001 में से · BharatKosha