भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

च ॥ मातङ्गायास्तथा भङ्गे परचक्रे भयं द्विज ॥ २ ॥ दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा ॥ तेषां तीव्रतमं ज्ञेयं फलमप्यन्तदारु- णम् ॥ ३ ॥ निलीयेते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ ४ ॥ इंद्रध्वजोपकरणं यत्किंचि- द्द्विजसत्तम ॥ विनश्यति तदा ज्ञेया पीडा नगरवासिनाम् ॥ ५ ॥ इंद्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् ॥ इन्द्रयागं पुनः कुर्यात्सौवर्णे- नेन्द्रकेतुना ॥ ६ ॥ राज्यं दत्त्वा च गुरवे बन्धनानि प्रमोचयेत् ॥ सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥ ७ ॥ शान्तिश्चैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः ॥ महाभोज्यानि कार्याणि ब्राह्मणानां दिनेदिने ॥ ८ ॥ गावश्च देया द्विजमुख्येभ्यो हिरण्यवाससांर्जतः सम्भृताः ॥ एवं कृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्नृपतेर्द्विपस्य ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे इन्द्रध्वज- निमित्तशमनवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १६६॥ राम उवाच ॥ शक्रोच्छ्रये तु यान्मन्त्रान्सोपवासो नृपः पठेत् ॥ तानहं श्रोतुमि- च्छामि सर्वधर्मभृतां वर ॥१॥ पुष्कर उवाच ॥ शृणु मन्त्रानिमान्सम्यक्सर्वकल्मषनाशनान् ॥ प्रति शक्रध्वजोच्छ्राये यः पठन्जयते नृपः ॥२॥ त्वामिन्द्र जितामित्र बुद्ध्यान्धाप्यवकाशास्तन ॥ देवैश्च महाभाग त्वं हि वर्धिष्णुतां गतः॥३॥त्वं प्रभुः शाश्वतोऽक्षय्य सर्वभूतहिते रतः॥ अनन्तरतेजो विरजो यशोविजयवर्धनः ॥ अप्रधृष्यस्त्वं प्रभुर्नित्यंस्तुतस्त्वं सुरपूजित ॥ ४॥ ब्रह्मा स्वयंभगवाञ्छर्वलोकेपितामहः ॥ रुद्रः पिनाकधृक्हन्ताश्वतस्त्वदर्थं यत्नमास्थि- तः ॥ ५ ॥ योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः ॥ तेजस्ते वर्धयन्त्येते नित्यमेव महाबलाः ॥ ६ ॥ अनादिनिधनो देवो ब्रह्मा सदा सनातनः ॥ अग्निरस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ॥ ७ ॥ कार्त्तिकेयः शक्तिधरः पङ्कजश्च गदाधरः ॥ शतं वरेण्यो वरदस्तत्स्तेजो वर्धयन्तां विभुः ॥ ८ ॥ देवः सेनापतिः स्कन्दः सुरवरपूजितः ॥ आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ॥ ९ ॥ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ॥ लोकपालास्तथैव चन्द्रः सूर्योऽनलोऽनिलः ॥ १० ॥ देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ॥ समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥ ११ ॥ तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिरेव च ॥ प्रवर्धयन्तु ततोऽद्य जय शक्र शचीपते॥ १२॥ तव चापि जयन्नित्यं त्विह संवर्धते शुभम् ॥ प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ १३ ॥ तव प्रसादात्पृथिवी नित्यं सस्यवती भवत् ॥ शिवं भवतु निर्विघ्नं शम्यतामतिरीतयो भृशम् ॥१४ ॥ नमस्ते देवदेवेश नमस्ते बलसूदन ॥ नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ १५ ॥ सर्वेशामेव लोकानां त्वमेका परमा गतिः ॥ त्वमेव परमः प्राणः सर्वस्यास्य जगत्पते ॥ १६ ॥ पाशो ह्यसि पयः सङ्घ त्वमनलं पुरन्दर ॥ त्वमेव मेवस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे ॥ १७॥

वि० ध० ॥२८४॥

द्वि० खं० अ० ५० ॥२८५॥

त्वमग्न मेघविविक्तास्त्वममेघाहुः प्रकर्षणमात्वं वज्रमतुलं घोरं घोषवांस्त्वं वलाहकः ॥ १८ ॥ स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ॥
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥१९॥त्वं महद्भूतमश्चर्यं त्वं राजा त्वं सुरोत्तमः ॥ त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परापत्मा॥
॥ २०॥ त्वमेव चामृतं देवस्त्वं मोक्षः परमादितिः ॥ त्वं मुहूर्तः स्थितिरूस्त्वं च लवस्त्वं च पुनः क्षणः॥२१॥ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटि
स्तथा ॥ संवत्सस्तवो मासा राजन्यश्च दिनानि च ॥२२॥ त्वमुत्तमा गिरिचरा वसुंधरा सभास्करं तिमिरमम्बरं तथा ॥ सहोदधिः सतिमिंगिल
स्तथा सहोर्मिवान्वहुमकरो झषाकुलः ॥२३॥ महद्यशास्त्वमिह सदा च पूज्यसे महर्षिभिर्मुदितमना महर्षिभिः ॥ अभिष्टुतः पिबसि च सोममध्वरे
हुतान्यपि च हवींषि भृतये ॥ २४ ॥ त्वं विप्रैः सततमभिह्वयेसे फलार्थं मेधार्थेष्ववृत्सु वलीय गीष्यसे त्वम् ॥ त्वद्वेतोर्त्तजनपरायणा द्विजेन्द्रा
वेदाङ्गान्याधिगमयन्ति सर्ववेदैः ॥ २५ ॥ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता ॥ कृष्णे वसानो वसने महात्मा सत्यानृते यो
विविनक्ति लोके ॥२६॥ यं वाजिनं गर्भमपां पुराणां वैश्वानरं वाहनमभ्युपेति ॥ नमः सदाऽस्मै त्रिदिवेश्वराय लोकत्रयेशाय पुरन्दराय ॥ २७ ॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥ त्वमन्तकः सर्वहरः कृशानुः सहर्षषीणां शतमन्युरिन्द्रयः ॥ २८ ॥ कविं सतामजिं
त्रातारमिन्द्रं सवितारं सुरेशम् ॥ हृदयामिश्रकं वृत्रहणं सुषणमस्माकं वीरा उत्तरे भवन्तु ॥ २९ ॥ त्रातारमिन्द्रिन्दूयकारणमज्जमग्निप्रथायं च
हिरण्यगर्भम् ॥ लोकेश्वरं देववरं वरेण्यं चानन्दरूपं प्रणतोस्मि नित्यम् ॥ ३० ॥ इमं स्तवं देववरस्य कीर्तयेन्महात्मनास्त्रिदशापतेः पुसंयतः ॥
अवाप्य कामान्मनसोभिरामान्स्वर्लोकमायाति च देहमर्दे ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०पृ० शक्रस्तववर्णनो नाम सप्तपञ्चा-
शदुत्तशततमोऽध्यायः ॥ १५७ ॥ राम उवाच ॥ विधिना पूजयेत्केन भद्रकालीं नराधिपः ॥ नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम ॥ १ ॥
पुष्कर उवाच ॥ पूर्वोत्तरे तु दिग्भागे शिविरात्सुमनोहरे ॥ भद्रकालीगृहं कुर्याच्चित्रवस्त्रैरलंङ्कृतम् ॥ २॥ भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज ॥
आश्विने शुक्लपक्षे तु अष्टम्यां प्रयत्नस्ततः॥ ३॥तैलेवाधूपधर्माद्यं छत्रं केतुं च पूजयेत् ॥ राजलिङ्गानि सर्वाणि तथैवास्त्राणि च पूजयेत् ॥४॥पुष्पैर्गन्धैः
फलैर्भक्ष्यैर्भोज्यैश्च सुमनोहरैः ॥ बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च ॥५॥ रात्रौ जागरणं कुर्यात्तथैव वसुधाधिपः ॥ एवं संपूजयेद्देवी वरदां भक्त-
वत्सलाम् ॥६॥ कात्यायनीं कामगमां वररुपां वरप्रदाम् ॥ पूजितां सर्वकामैश्च सा युङ्क्ते वसुधाधिपम् ॥७॥ एवं हि सम्पूज्य जगत्प्रधानं यात्वा तु देया


१ 'कार्या' इति पाठान्तरं पुस्तकान्तरे ।

वपुश्चाधिपेन ॥ प्राप्नोति सिद्धिं परमां महेशो जनस्तथान्योऽपि हि वित्तशक्त्या ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने भद्रकालीपूजा नामाष्टपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥ राम उवाच ॥ नीराजनविधिं त्वत्तः श्रोतुमिच्छामि सत्तम ॥ कथं कार्यो नरेन्द्रस्य शान्तिं नीराजने प्रभो ॥ १ ॥ पुष्कर उवाच ॥ पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे ॥ विस्तीर्णं कारयेद्राजा भमनोहरमाश्रयम् ॥ २ ॥ कटैर्गृतं कुशास्तीर्णं पताकाध्वजशोभितम् ॥ तोरणत्रितयं तत्र प्राङ्मुखं कारयेच्छुभम् ॥ ३ ॥ कार्यं षोडशहस्तं तु तोरणं तु समुच्छ्रितम् ॥ वैपुल्यं दशहस्तं तु तत्र कार्यं भृगूत्तम ॥ ४ ॥ तोरणाद्दक्षिणे भागे तत्र कार्यं सभाश्रयम् ॥ देवतानां भवेत्तत्र तथामिहवनं क्रिया ॥ ५ ॥ अष्टहस्तायतोत्सेधंचतुलुकानां तु वामतः ॥ कार्यं भवति शुष्काणां कूटं भृगुकुलोद्वह ॥ ६ ॥ पञ्चरङ्गिकसूत्रेण शतग्रन्थिं मनोरमाम् ॥ मध्यमे तोरणे कुर्याच्छत्रपाशौ तु मध्यमाम् ॥ ७ ॥ छादयित्वा कुरैस्तां तु बुद्धा संछादयेत्पुनः ॥ तस्याश्च लंघनं वर्ज्यं प्रयत्नात्सर्वजन्तुभिः ॥ ८ ॥ न लंघिता सा यावत्स्यात्प्रथमं राजहस्तिना ॥ चित्रां त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ॥ ९ ॥ ततः प्रभृति कर्त्तव्या यावत्स्वाती रविः स्थितः ॥ आश्रमे प्रत्यहं देवाः पूजनीया द्विजोत्तम ॥ १० ॥ ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैव वानलानिलौ ॥ विनायकः कुमारश्च वरुणो धनदो यमः ॥ ११ ॥ विश्वान्देवान्महाभाग उच्चैःश्रवसमेव च ॥ अष्टौ महागजाः पूज्यास्तेषां नामानि मे शृणु ॥ १२ ॥ कुमुदैरवणौ पद्मः पुष्पदन्तोऽथ वामनः ॥ सुप्रतीकाञ्जनौ नील एतेऽष्टौ देवयोनयः ॥ ॥ १३ ॥ पूजा कार्या ग्रहक्षाणां तथैव च पुरोधसा ॥ ततस्तु जुहुयादग्नी पुरोधाः सुसमाहितः ॥ १४ ॥ यथाभिमतदेवानां मन्त्रैस्तल्लिङ्गसंज्ञकैर्मा ॥ तथा च मन्त्रहीनानां प्रणवेन महासुज ॥ १५ ॥ समिधः क्षीरवृक्षाणां तथा सिद्धार्थकानि च ॥ घृतं तिलांश्च धर्मज्ञ तथा चैवाक्षतानि च ॥ १६ ॥ हुत्वा च कलशान्कुर्यात्साङ्गानगन्धसंयुतान् ॥ पूजितान्माल्यगन्धैश्च वनस्पतिविभूषितान् ॥ १७ ॥ पञ्चरङ्गिकसूत्रेण कुर्याद्बद्धांस्तथा ॥ भद्राशालिसिद्धार्था वचाकुष्ठप्रियङ्गवः ॥ १८ ॥ तोरणात्पश्चिमे भागे कलशैः पूर्वकल्पितैः ॥ ततः संस्नापनीयाः स्युर्मन्त्रपूतेनर्ज्योत्तमैः ॥ १९ ॥ तुरंगाश्च महाभाग चाम्लकृत्य ततस्तु तान् ॥ ततोऽभिषेचनागस्य तथा तत्तुरगस्य च ॥ २० ॥ अन्नपिण्डं ततो देयमभिमन्त्र्य पुरोधसा ॥ तस्याभिनन्दने राज्ञो विनयः परिकीर्त्तितः ॥ २१ ॥ त्यागे च तस्य विज्ञेयं महद्भयमुपस्थितम् ॥ निष्क्रामयेत्तोरणस्तु ततो हि प्रथमं गजान् ॥ २२ ॥ तत्रापि प्रथमं राम अभिषिच्य गजोत्तमम् ॥ तस्याग्रतौ शतपाशीं तु नरः पञ्चनखोऽपि वा ॥ २३ ॥ अथ हन्यो लेघयेतां राज्ञो मरणमादि

वि० पृ० ॥२८५॥

द्वि० खं० भ० १६०

शेत् ॥ दुर्भिक्षं तत्र विज्ञेयं गोवधैरोषधैश्व लंधने ॥ २४ ॥ छेदयेद्वामपादेन यदि तां नृपकुञ्जरः ॥ राजा पुरोहितामात्यराजपुत्रहितं भवेत् ॥२५ ॥
राज्ञस्तु मरणं ब्रूयाद्धर्मं यदापरः ॥ राज्ञोपि जयमाचष्टे लंघनेनक्षिणेन ताम् ॥ २६ ॥ राजहस्तिनि निष्क्रान्ते सा त्वया दु'स्यात्तथा भवेत् ॥
निष्क्रामयुस्ततः सर्वेः प्राङ्मुखास्तोरणैर्गजाः ॥ २७ ॥ ततोह्याः सुमहाभाग ततस्तु नृपसत्तम ॥ ततश्छत्रं ध्वजं चैव राजलिङ्गानि यानि च ॥
॥ २८ ॥ आश्रमे तानि संस्थाप्य पूजयेदायुधानि च ॥ पश्चाद्गुक्तसूत्रेण यास्ताः प्रतिसराः कृताः ॥ २९ ॥ ह्व्याहूयैतिमन्त्रेण निबन्धनीया
त्पुरोहितः ॥ सर्वेषां नृपनागानां तुरगाणां च भार्गव ॥ ३० ॥ स्याद्देहेषु ततो नेया कुञ्जरास्तुरगैः सह ॥ स्वातिस्थः सविता यावत्तावच्छय्यासु
संस्थितान् ॥ ३१ ॥ पूजयेत्सततं राम नाकोरेशन च ताडयेत् ॥ राजचिह्नानि सर्वाणि पूजयेदाश्रमे सदा ॥ ३२ ॥ पूजयेद्गरुडं नित्यं तथापु
विधिषद्द्विज ॥ भूतेज्या च तथा कार्या रात्रौ बलिभिस्तैः ॥ ३३ ॥ आश्रमे रक्षणार्थं स्यात्पुरुषैः शस्त्रपाणिभिः ॥ वसेत्तापसश्रमे नित्यं संवत्स
पुरोहितो ॥ ३४॥ अश्वांश्वयनांश्व तथा नागमिभग्वरः ॥ दक्षिणेतरतैस्तथा भव्यं ब्रूयाचारिमिरैव चा॥३५॥स्यात्के त्वचा पदा सूर्यो विरागवां प्रति
पद्यतो ॥ अलंकुर्याद्दिनं तस्मिन्वाहनांश्व विशेषतः ॥ ३६॥ पूजिता राजलिङ्गाश्च कर्तव्या नरहस्तगाः॥हस्तिनं तुरगं छत्रं खङ्गं वा पञ्चदुन्दुभिम् ॥३७॥
ध्वजं पताकां चर्मङ्ग काल्ज्ञासर्वसमन्वितम् ॥ अभिनन्द्य ततः सर्वाञ्कुर्याऽकुञ्जरगांतथा॥३८॥कुञ्जरेणोपरिग्यो स्यात्सं वत्सरपुरोहितौ ॥ अश्वमेव
प्रधानश्च तथा नागोमिशष्वरः ॥ ३९ ॥ ततोऽभिमन्त्रितं राजा रथाश्वं तुरगं रय ॥ निष्क्रम्य तोरणे नागामभिमन्त्र्य समाहरेत् ॥ ४० ॥ तोणेन
विनिष्क्रम्य कुर्यात्सुविखर्ज्जनम् ॥ बलि विर ज्य विविधाङ्गा कुक्कुटैर्मृगैः ॥४१॥ र्शनरैर्म डूतः सर्वैर्विज्यमानश्व चामरैः ॥ उल्लूकानां च निचयाश्चा
दीपमभनन्तरम् ॥ ४२ ॥ राजा प्रदक्षिणां कुर्यान्निवारण-समान्वितः ॥ ४३ ॥ चतुराङ्गबलोपेतः सर्वसैन्यसमन्वितः ॥ ईन्डादिकर्लोकला
शब्दैः सर्ववादित्रनिःस्वनैः ॥ ४४ ॥ वल्गितेश्च पदातीनां हयानां स्तुडलोत्पत ॥ एवं कृत्वा गृहं गच्छेद्राजा सैन्यपुरःसरः ॥ ४५ ॥ जनं
सम्पूज्य च गृहात्सत्त्वम्व विसर्जयेत् ॥ ईन्द्वादिर्लोकासाहित्ये कर्तव्या व धाधिपैः ॥ क्षम्या वृद्धिकरी राज्ञ नशत्रूआशविनाशिन् ॥ ४६॥ धन्या
यशस्या रिपुनाशनी च सुखावहा शान्तिरुत्तमा ॥ ॥ कार्यो नृपे राष्ट्र वं डिते लोः स्वयमेतत् मनुवोरे ॥ ४७॥ इति श्रीविष्णुधर्मोत्तरे
द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने नीराजनान्तिकवर्णनो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ १४९ ॥ ॥ छ ॥
राम उवाच ॥ छत्रश्व केतुकरिणां पताका खड्गचर्मणाम् ॥ तथा डुन्दुभिवाद्यानां सिद्धि पुन्नामनामक ॥ १ ॥ पुष्कर उवाच ॥ शृणु मन्त्रांस्तथा

॥२८५॥

ऋषिर्भगवान्पराशरः ॥ गालवाय पुरोवाच सर्वधर्मभृतां वरः ॥ २ ॥ पराशर उवाच ॥ यथाऽम्बुदश्छादयति शिवायेमां वसुन्धराम् ॥ तथाच्छा-
दय राजानं विजयारोग्यवृद्धये ॥ ३ ॥ इति च्छत्रमन्त्रः ॥ पराशर उवाच ॥ गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः ॥ ब्रह्मणः सत्यवाक्येन
सोमस्य वरुणस्य च ॥ ४ ॥ प्रभावञ्च हुताशस्य भवस्य त्वं तुरङ्गम ॥ तेजसा चैव सूर्यस्य सुनीत्या तपसां तथा ॥ ५ ॥ रुद्रस्य ब्रह्मचर्येण
पवनस्य बलेन च ॥ स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥ ६ ॥ यां गतिं ब्रह्महा गच्छेद्विप्रहा मातहा तथा ॥ भूम्यर्थेऽनृतवादी च क्षत्रि-
यश्च पराङ्मुखः ॥ ७ ॥ सूर्याचन्द्रमसौ वायुर्द्यावापृथ्व्यान्वितं जगत् ॥ व्रजेदेतां गतिं क्षिप्रं तद्य पापं भवेत्तव ॥ ८ ॥ विक्रीतिं यदि गच्छेत्त्वं
युद्धेऽध्वनि तुरङ्गम ॥ रिपून्विजित्य समरे सहभ्रा सुखी भव ॥ ९ ॥ इत्यश्वमन्त्रः ॥ पराशर उवाच ॥ शत्रुकेतो महाबीर सुपर्णस्तरसुताश्रितः ॥
पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ॥ १० ॥ काश्यपेयोऽमृतहर्ता नागारेर्विष्णूवाहनः ॥ अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ॥ ११ ॥
गरुत्मान्मारुतगतिः त्वयि सन्निहितः स्थितः ॥ साश्वम्बाणैयोधनांश्चाक्षकं महद्विपून् ॥ १२॥ इति ध्वजमन्त्रः ॥ पराशर उवाच ॥ कुमुदै-
रावणौ पद्मः पुष्पदन्तोथ वामनः ॥ सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ॥ १३ ॥ तेषां पुत्राश्च पौत्राश्च घनात्यष्टौ समाश्रिताः ॥ भद्रो
मन्द्रो मृगश्चैव गजः संकीर्ण एव च ॥ १४ ॥ वनेवने प्रसूतास्ते स्मर योनिं महागजा ॥ पान्तु त्वां वसवो रुद्रा आदित्याः समारुद्गणाः ॥ १५ ॥
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ॥ अवाप्नुहि जयं युद्धे गमने स्वस्ति नो ब्रूअ ॥ १६ ॥ त्रास्ते सोमाहूतो विष्णूस्तेजः सूर्योऽथ्विनोडिन-
लात् ॥ स्थैर्य मेरोजयं रुद्राद्यशो देवात्पुरन्दरात् ॥ १७ ॥ युद्धे रक्षन्तु नागस्त्वां दिशश्च सह देवतैः ॥ अश्विन्यां सह गन्धर्वा पान्तु त्वां सर्वतः
सदा ॥ १८ ॥ इति हस्तिमंत्रः ॥ पराशर उवाच ॥ हुतभुग्भववो रुद्रा वायुः सोमो महर्षयः ॥ नागाकिन्नरगन्धर्वयक्षरक्षोगणग्रहाः ॥ १९ ॥
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सहः ॥ शक्रस्सेनापतिः स्कन्दो वरुणाश्चाश्रितस्त्वयि ॥ २० ॥ प्रदहन्तु रिपन्सर्वानाज्ञा विजयमिच्छतु ॥
यानि प्रयुक्तान्यरिभिर्धृष्णानि समन्ततः ॥ २१ ॥ पतन्तुपरिश्रूणां हतानि तव तेजसा ॥ कालनेमिरिवेद्यद्वच्च त्रिपुरपातने ॥ २२ ॥ हिरण्य-
कशिपोर्यद्वद्ये च सर्वारेषु च ॥ शोभितासि तथैवाद्य शोमस्व समरं स्मर ॥ २३ ॥ नीलाऽञ्छितानिमान्दृष्ट्वा नश्यंत्याशु नृपारयः ॥ व्याधिभिर्वि-
विधेर्घोरैः शत्रैश्च युधि निर्जिताः ॥ २४ ॥ पूतना रेवती नाम्ना कालरात्रिति पठ्यते ॥ दहन्त्वाशु रिपन्सर्वान्नपताके त्वामुपाश्रिता ॥ २५ ॥ इति
पताकामन्त्रः ॥ पराशर उवाच ॥ असिविश्वसनः खड्गस्तीक्ष्णधारो दुरासदः ॥ श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ॥ २६ ॥ इत्यष्टौ तव

वि० ध० ॥२८०॥

द्वि० खं० अ० १६१

नामानि स्वयमुक्तानि वेधसा ॥ नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥ २७ ॥ रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः ॥ पिता पितामहो देवः स त्वं पालय सर्वदा ॥ २८ ॥ इति खड्गमन्त्रः ॥ पराशर उवाच ॥ वर्मप्रदस्तव समरे धर्मसैन्याय मानद ॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥ २९ ॥ इति वर्ममन्त्रः ॥ पराशर उवाच ॥ दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकंपनः ॥ ३० ॥ तव भूमिसैन्यानां तथा विजयवर्धनः ॥ यथा जीमूतघोषेण हृष्यन्ति शरवारणाः ॥ तथा च तव शब्देन त्रस्यन्त्वस्मद्विषो रणे ॥ ३१ ॥ इति दुन्दुभिमंत्रः ॥ पराशर उवाच ॥ सर्वायुधमहामात्र सर्वदेवैरिसूदन ॥ चापस्त्वं सर्वदा रक्ष सार्क शर्वैः सदा ॥ ३२ ॥ इति चापमन्त्रः ॥ पुष्कर उवाच ॥ मंत्रांस्त्वैतेऽभिहिता नृवीर सम्मंत्रणे वैजयिका यथावत् ॥ एतैस्तु मंत्रैरभिमन्त्रितानां चलत्यमोघं बलमप्रधृष्यम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने मन्त्राध्यायवर्णनो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ १६० ॥ परशुराम उवाच ॥ शान्तिमाचक्ष्व मां देव घृतकम्बलेसंज्ञिताम् ॥ कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥ १ ॥ पुष्कर उवाच ॥ पूर्वोत्तरे तु दिग्भागे नगरान्सुमनोहरे ॥ प्रागुदक्प्रवणे देशे शान्त्यागारं तु कारयेत् ॥ २ ॥ तं तन्प्रत्यन्तविस्तीर्णं नानावस्त्राविभूषितम् ॥ पुनर्वसौ गते चन्द्रे तत्र यायान्निराधिपः ॥ ३ ॥ पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ ॥ अभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥ ४ ॥ देवाद्यस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् ॥ गन्धमण्डलकुर्वीतर्यथास्थानं पुरोहितः ॥ ५ ॥ आवाहनं ततः कुर्यात्तन्तालांस्तत्र च येऽपि ते ॥ देवादीनां तु सर्वेषां ब्राह्मणेः सहिता द्विज ॥६॥ आवाहितानां सर्वेषां गन्धमाल्यन्नान्नसम्पदा ॥ देवतूपूजनं कुर्यात्तया नृपपुरोहितौ ॥ ७ ॥ एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः ॥ स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥ ८ ॥ ततो नैर्ऋतं कर्म प्रदेशे तु पुरोहितः ॥ कृत्वा विभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥ ९ ॥ श्रुत्वा दशगुणानत्र स्नापयेतं नराधिपम् ॥ पूर्वमेव तथा स्नानं सिद्धांथैत्साधितं तथा ॥ १० ॥ पूर्णेन घृतकुम्बेन मन्त्रेणानेन कालवित् ॥ आज्यं तेजः समुद्दिष्टमाज्यं तेजोजहरं परम् ॥ ११ ॥ आज्यं सुराणामाहारमाज्ये लोकः प्रतिष्ठितः ॥ तेनान्तरिक्षं दिव्यं वा धत्ते कल्पभनाशनम् ॥ १२ ॥ सर्वं तदाज्यसंस्थशीतमणाशमुपागच्छतु ॥ ततो विरूक्षितं स्नातं स्नानेनंवरां नराधिपम् ॥ १३ ॥ गच्छेत्तं तु पुरस्कृत्य सांवत्सरपुरोहितौ ॥ स्नानवेदी तु कर्तव्या लाजाकुसुममण्डिता ॥ १४ ॥ चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता ॥ चत्वारि तस्याश्चर्माणि प्राग्रीवाणि समास्तरेत् ॥ १५ ॥ वृषस्य द्विपिनश्चैव सिंहशार्दूलयोस्तथा ॥ भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ॥ १६ ॥ स्वासीनं

॥२८७॥

नृपतिं तत्र वस्त्रैराच्छादयेन्नृपैः ॥ कार्पासिकैस्ततः पश्चादार्द्रकैः कुम्भजैस्ततः ॥ १७ ॥ ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत् ॥ कुम्भा- ष्टकं तु कर्तव्यमथाविंशतिरेव वा ॥ १८ ॥ अथ वाष्टशतं राम वृद्धिरैषा गुणोत्तरा ॥ ततोपनीय वस्त्राणि तस्यां वस्त्रां पुरोहितः ॥ १९ ॥ शुक्लेन मृन्मयं भिन्द्याच्छूने कोपसमन्वितः ॥ राज्ञस्तु कलशं दत्त्वा स्वयं सांवत्सरस्ततः ॥ २० ॥ अभिषेकनमन्त्रेण स्वार्चितं कल्पितं दृढम् ॥ ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥ २१ ॥ जीवां विश्वेश्वरीं पाठां समंगामभयां तथा ॥ सहां च सहदेवीं च पूर्णकोशां शतावरीम् ॥ २२ ॥ अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत् ॥ ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनम् ॥ २३ ॥ मङ्गल्याश्च यथालाभं सर्वोषध्यो रसस्त- था ॥ २४ ॥ रत्नानि सर्वगन्धाश्च बिल्वं च सविक्कुङ्कुतम् ॥ एवं स्नातो घृते दृष्ट्वा वदनं तर्पणं तथा ॥ मङ्गलालभनं कृत्वा धौतवासाः समाहितः ॥ २५ ॥ अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् ॥ तेषामेव ततो वह्नौ चतुर्थ्यन्तेस्तु नामभिः ॥ २६ ॥ ओङ्कारापूतं जुहुयाद् घृतं बहु पुरोहितः ॥ २७ ॥ आयुर्धाभ्यर्चनं कार्यं वाहनाभ्यर्चनं ततः ॥ राजचिह्नाभ्यर्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् ॥ अनुलेपनमाद्ब्यान्दच्छादेरिति मन्त्रतः ॥ २८ ॥ शुभं वसनमादध्याद्धीसूक्तेनाभिमन्त्रितम् ॥ श्रियं धातमयि देहि मंत्रः सुमनसां भवेत् ॥ २९ ॥ रायस्पोषेति च तथा मन्त्रे लङ्करणे स्मृतः ॥ ततोवालितः सुरभिः स्रग्वी रुचिरभूषणः ॥ ३० ॥ केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् ॥ वह्नेरुत्तरदिग्भागे ततः प्राङ्मुखकर्मणाम् ॥ ३१ ॥ सिंहासनं न्यसेत्पृष्ठे भव्यास्तरणसंवृतम् ॥ ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ॥ ३२ ॥ वृषस्य वृषदंशस्य करेश्र्च पृषतस्य च ॥ तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ३३ ॥ ध्रुवा द्यौरिति मन्त्रेण नृपं तत्रोपवेशयेत् ॥ दर्भपाणिस्ततो राजा तथैव च पुरोहितः ॥ ३४ ॥ तयोर्हस्तगतावेव दर्भौ संप्रथयेद्द्विजः ॥ ततः पुरोधा जुहुयाद्ब्राह्मणैर्मन्त्रैर्वृतं शुचिः ॥ ३५ ॥ रौद्रेणवैष्णव वायव्याश्क्राक्रसौम्यैः सवारुणैः ॥ बार्हस्पत्यैस्ततः कुर्यात्तंत्रंतुचरुसंज्ञकम् ॥ ३६ ॥ देवज्ञः प्रयततः कुर्याद्देवतानां विसर्जनम् ॥ यान्तु देवगणाः सर्वे साङ्गाः सपरिव्छदाः ॥ ३७ ॥ आदाय पार्थिवात्पूजां नगरगमनमथ च ॥ ततस्तु पूजयेद्राजा सांवत्सरपुरोहितौ ॥ ३८ ॥ धनेन ब्राह्मणानां च ततो दद्याच्च दक्षिणाम् ॥ मङ्गलार्लभनं कृत्वा खड्गपाणिर्गृहाद्व्रजेत ॥ शान्तिघोषेण महता राजा कुञ्जरगस्ततः ॥ ३९ ॥ शांतिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशनी च ॥ सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविविद्विदा च ॥ ४० ॥ इति श्रीवि- ष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने घृतकम्बलशान्तिकथनो नामैकषष्ट्युत्तरशततमोऽध्यायः ॥ १६१ ॥

॥२८८॥ वि० ध० द्वि० खं० अ० १६३

॥ राम उवाच ॥ ॥ संवत्सराभिषेकं च कथयस्व महीपतेः ॥ तत्र मे संशय देव त्वं हि सर्व विषयवित् ॥ १ ॥ पुष्कर उवाच ॥ राजाभिषेकनक्षत्रे प्रतिसंवत्सरं द्विजः ॥ पूर्त्वाभिषेकविर्विधिना कर्त्तव्यमभिषेचनम् ॥ २ ॥ धन्यं यशस्यं रिपुनाशनं च सौभाग्यदं पृथिवीवर्धनं च ॥ वर्षाभिषेकं नृपतेः प्रदिष्टं सौख्यावहं राज्यविवर्द्धनं च ॥ ३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करो- पाख्याने संवत्सराभिषेकाध्यायो नाम द्विपष्ट्यधिकशततमोऽध्यायः॥१६२॥ राम उवाच ॥ अथातःसर्वधर्मज्ञ सर्वशास्त्राविशारद ॥ यात्रांनृपति- याने मे कथयस्व महीक्षिताम् ॥ १ ॥ पुष्कर उवाच ॥ यदा मन्येत नृपतिराक्रन्देन बलीयसा ॥ पार्षिणग्राहातिभूमिषूना तं तथा यानां प्रयोजयेत् ॥ ॥२॥पुष्ट्वा १ मेद्य सुता भृत्या प्रभूतंच बलं मम ॥ सुलभञ्चासमर्थोऽस्मि तदा यात्रां प्रयोजयेत् ॥३॥ पार्षिणग्राहाधिकं सैन्यं द्रूढो निक्षिप्य वा बजेत्॥ चैत्रे वा मार्गशीर्षे वा यात्रां यायान्नराधिपः ॥ ४ ॥ चैत्र्यां सस्यं हि नंशायं हन्ति पृष्टिं च शारदम् ॥ एतदेव विपर्यस्तं मार्गशीर्ष्यां नराधिपः ॥ ॥ ५॥ शशोर्वा व्यसने यायात्काल एव सुदुर्लभः ॥ दिव्यान्तरिक्षांशितितैरुत्पातैः पीडितं द्वरम् ॥ ६ ॥ षड्‌ऋषीणामृणां पीडितं न तथा ग्रहैः ॥ प्रज्वलन्ति तथैवोल्का दिशं यस्य प्रधावते ॥ ७ ॥ भूकम्पे वा दिशं याति यां च केतुः प्रदृश्यते ॥ निर्घातः श्रूयते यत्र तां यायान्नृप- धाधिपः ॥ ८ ॥ स्वबल्व्यासनो २ पेतं तथा दुर्भिक्षपीडितम् ॥ संभूतान्तरकोपं च क्षिप्रं यायादरिं नृपः ॥ ९ ॥ झूंक्रतादिक ३ संवृद्धं दुर्भिक्षं तथा विप्लवे ॥ नास्तिकं भिन्नमर्यादं तथा मङ्गल्वादि च ॥ १० ॥ अपेयप्रकृतिं चैव निराशं च तथा जयेत् ॥ विदितात्मबलैः सैन्यं तथा निहुरस्त्य- रथं ॥ ११ ॥ व्यसनासक्तनृपतिं बले राजा नियोजयेत् ॥ पश्चाद्देशं पुरस्तात्तु ४ विधायेत्तः ॥ १२ ॥ क्व याति तिष्ठ मागच्छ किं तव गमनस्य च ॥ अन्ये शब्दाश्च ये दृष्टास्ते विनिष्क्रिय अपि ॥ १३ ॥ ध्वजादिषु तथा स्नाने क्रव्यादानां विरोहणम् ॥ स्वबलेनं ६ वाहनानां च वक्रसङ्करस्तथैव च ॥ १४ ॥ विनिर्गतश्च ज्ञायाश्चैः ५ शिरस्त्राविघातनम् ॥ छत्रध्वजादिवस्त्राणां पतनं च तथाशुभम् ॥ १५ ॥ दृष्ट्वा निमित्ते प्रथमममङ्गल्यं विनाशनम् ॥ केशवं पूजयेद्विद्वांस्तथैव मधुसूदनम् ॥ १६॥ द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद्गृहम् ॥ अथेमानि प्रवक्ष्यामि मङ्गल्यानि तथानघ ॥ १७ ॥ श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भं तथैव च ॥ जलजानि च मत्स्यांनि मांसं मत्स्याश्च भार्गव ॥ १८ ॥ गावस्तु- रङ्गमा नागा बद्ध एकः पशूस्ततः ॥ त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥ १९ ॥ गणिकाश्च महाभागाः पूर्वाचार्य्यादिगोमयम् ॥ हंकमं ॥२८८॥


१ 'स्वपते' इति क० । २ 'स्वबाले' इति क० । ३ 'यूकामङ्कको इति क० । ४ 'पुरस्तात्त्वविगर्हितम्' इति ख० । ५ 'शस्त्रमङ्कुर' इति क० । ६ स्वसैन्य' इति ख० ।

रौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥ २० ॥ ओषधानि च सर्वाङ्गं वचासिद्धार्थकं तथा ॥ नृवर्धमानं यानं च भद्रपीठं तथैव च ॥ २१ ॥ खङ्गं छत्रं पताकां च मृदमायुधमेव च ॥ राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ॥ २२ ॥ घृतं दधि पयश्चैव फलानि विविधानि च ॥ स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम् ॥२३॥ नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि चा। अक्षताश्च तथा मुक्तास्तथा दर्पणमेव च ॥२४॥ अञ्जनं रोचनं चैव शृङ्गारो माक्षिकं तथा ॥ शङ्ख इक्षुस्तथा मत्स्या वाचश्चैव तथा शुभाः ॥ २५ ॥ वादित्राणां सुखः शब्दो गम्भीरश्च मनोहरः ॥ गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः ॥ २६ ॥ वायुः सशर्करो रूक्षः स च दिग्भ्यः समर्थितः ॥ प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्धि ज ॥ २७ ॥ अनुकूलो मृदुस्निग्धः सुखस्पर्शः सुवावहः ॥ ऋक्षा ऋक्षस्वराः खङ्गाः क्रव्यादाश्च विगर्हिताः ॥ २८ ॥ मेघाः शस्ता घनाः स्निग्धा गजबूंहितसन्निभाः ॥ अनुलोमा तडिच्छस्ता शक्रचापं तथैव च ॥ २९ ॥ अभ्रशस्ते तथाज्ञेये परिवेषाम्र वर्षेणे ॥ अनुलोमा ग्रहः शस्ता दिक्पतिस्तु विशेषतः ॥ ३० ॥ आस्तिक्यं श्रद्धानत्वं तथा पूज्यायिभूजनम् ॥ शस्तान्ये तानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥ ३१ ॥ मनस्तुष्टिरिवात्र परमं जयलक्षणम् ॥ एकतः सर्वलिङ्गानि मनस्तुष्टिरेककः ॥ ३२ ॥ यानोत्सुकत्वं मनसः प्रहर्षः सुखप्रलाभो मनसः प्रसादः ॥ माङ्गल्यलब्धिश्रवणं च राम ज्ञेयानि नित्यं विजयावहानि ॥ ३३ ॥ इति श्रीविष्णुध र्मोत्तरे द्वितीयखण्डे मा० सं० यात्राराकुनवर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ १६३ ॥ पुष्कर उवाच ॥ तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभम् ॥ निवेदयन्ति शकुना देशस्य नगरस्य च ॥१॥ पथि पान्थो नृपः सैन्ये मरीचोद्दिश्य देवताम् ॥ सार्थे प्रधानः साध्ये च जातिविद्याव योधिकः ॥ २ ॥ सर्वपापफलो दीप्तः शान्तः शुभफलो मतः ॥ षट्प्रकारा विनिर्दिष्टाः शकुनानां च दीप्तता ॥ ३ ॥ वेला दिक्देशकरणं स उ जातिविभेदकः ॥ पूर्वापूर्वा च विज्ञेया सा तेषां बलवत्तरा ॥ ४ ॥ दिवाचरो रात्रिवरस्तथा रात्रौ दिवाचरः ॥ क्रूरस्य वेलादोप्तस्य स्वलक्षणिन्य हादिषु ॥ ५ ॥ धूमितासा तु विज्ञेया यां गमिष्यति भास्करः ॥ यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ॥ ६ ॥ एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथा पराः ॥ दीप्तायां दिशि दिग्दीप्तः शकुनः परिकीर्तितः ॥ ७ ॥ ग्राम्ये वन्यो वने ग्राम्यस्तथा निन्दितपादपे ॥ देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तम ॥ ८ ॥ क्रियादीप्तो विनिर्दिष्टः स्वजात्यानुचितक्रियः ॥ ततो दीप्तश्च कथितो भिन्नभैरवनिःस्वनः ॥ ९ ॥


१ 'नियमान्मनम्' इति ख० । २ 'अङ्गुताश्च' इति ख० । ३ 'मृगारो' इति ख० । ४ 'सर्वादिन्याः समुद्यिताः' इत्यपि पाठः। ५ 'मूक्षा' इति ख० । ६ 'क्रवदन्तराः' इति ख० । ७ 'सुखलाभी' इति ख० । ४९

द्वि० सं० अ० १९४

प्रतिदिष्टस्तथा ज्ञेयः केवले मांसभोजनः ॥ दशाशान्तो विनिर्दिष्टः सर्व्वमदैः प्रकीर्तितः ॥ १० ॥ मिश्रैमिश्रो विनिर्दिष्टस्ततो वाच्यं वलाफ- लम् ॥ गोश्वागूर्दमश्वानः शारिकागृहगोधिके ॥ नटिकंषांसचर्मार्वे कथिता ग्रामवासिनः ॥ ११ ॥ अजाविशुकरनोष्ट्रश्वा महिषवायसौ ॥ ग्राम्यारण्या विनिर्दिष्टाः सर्वेऽन्ये वनगोचराः ॥ १२ ॥ मार्जारकुकुषौ ग्राम्यस्तथान्यो वनगोचरे ॥ सर्वेऽप्येते विहिया नित्यं रूपविभे- दतः ॥ १३ ॥ श्रीकण्ठशिविचक्राह्वां ये च हरितवायसाः ॥ कुलालकुक्कुटश्येनक्रौंचजालवानराः ॥ १४ ॥ शशचटकश्यामाश्वाभाषभास- कपिञ्जलाः ॥ तित्तिरिः शतपत्रश्च कपोताश्च तथा त्रयः ॥ १५ ॥ खञ्जरीटकदात्यूहशुकाण्डीवहसित्तिकाः ॥ भारद्वाजश्च सारङ्ग इति ज्ञेया दिवा- चराः ॥ १६ ॥ वल्गुल्युलूकः शशका शरभोकोशपिच्छलो ॥ माषिका पिङ्गली काकः कथिता रात्रिवारिणः ॥ १७ ॥ हंसाजशृगालजार्वनकुलर्क्ष- भुजङ्गमाः ॥ वृकश्च सिंहव्याघ्रोष्ट्रसूकस्तरक्षुद्रुमाः ॥ १८ ॥ श्वावित्तृण्युतोगाधामुचुकुतोत्किलसारसाः ॥ तुण्ड्यो द्विपिनराश्चोग्रा उभयचा- रिणः ॥ १९॥ एषामन्यान्योः सर्वे पुरस्तात्सङ्गचारिणः ॥ जयावहा विनिर्दिष्टाः पश्चाद्विजयकारिणः ॥२०॥ गृहे गम्यो यदा चायं व्याहरेत्पुरतः स्थितः ॥ नृपाम्वानं वदति वामः कलहभोजने ॥२१॥ याने तद्दर्शनं धन्यं सपतङ्कस्य चाप्यथ ॥ चौरोडोपमथाख्याति मयूरो भिन्ननिःस्वनः ॥ ॥२२॥ वमते कपिलः श्रेष्ठः तथा दक्षिणसंस्थितः ॥ पृष्ठतो निन्दितफलः तित्तिरिस्तन्न शस्यते ॥ २३ ॥ एणा वराहाः पृषतो वामा भूत्वा तदक्षि- णाः ॥ भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ॥२४॥ वृकाश्च जम्बुकव्याघ्रासिंहामजारगर्दभाः ॥ वाञ्छितार्थकरा ज्ञेया दक्षिणाद्वामभागगाः ॥२५॥ शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिकाः ॥ सूकरी पशुपा च पुंनामनश्च वामतः ॥ २६ ॥ श्रीसंज्ञा चाथभककपिंश्रीकर्णिकूक्कुराः ॥ कपिश्रीकर्णपर्णीका रुरुश्चेनाश्च दक्षिणाः ॥२७॥ जाहका विशराश्कोडागोधायोनां कीर्त्तितं शुभम् ॥ ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ॥ २८ ॥ फलंकृत्तूवेशंरुकनः प्रस्थितस्य च योवह्नम् ॥ भवतस्तस्य फलं वान्यत्तदेव दिवसै बुधैः ॥ २९ ॥ मता मिलाथिनो बाला विरक्ताभास्तथैव च ॥ सीमन्तनन्दन्तरिता विज्ञेया निष्फला द्विज ॥ ३० ॥ एकद्वित्रिचतुर्भिस्तु शिवा धन्या ततो भवेत् ॥ पञ्चमिश्च तथा षड्भिरधन्याः परिकी- र्तिताः ॥ ३१ ॥ सप्तमिश्च तथा धन्या निष्फला परतो भवेत् ॥ तृणां रोमाञ्चजननी वाहनानां भयप्रदा ॥ ३२ ॥ ज्वालालना सूर्यमुखी विज्ञेया भयवर्धिनी ॥ प्रथमं शार्ङ्गके दृष्टे शुभे देशे शुभं वदेत् ॥ ३३ ॥ संवत्सरं मनुष्यस्य हशुभे चाशुभं तथा ॥ यथाविधि नरः पश्येच्छङ्कनं प्रथमंहनि ॥ ३४ ॥ आसन्नश्च तथा तेन ज्ञातव्यं वत्सरं फलम् ॥ शार्ङ्गकं च नरो दृष्ट्वा मुज्जेन्नारीरोगतः ॥ ३५ ॥ अवश्यं तदवाप्नोति यत्किं

वि० ध० ॥२८॥ ॥२९॥

खिन्नमनसेच्छति ॥ विशन्ति येन मार्गेण वायसा बहवः परम् ॥ ३६ ॥ तेन मार्गेण वै तस्य पुरस्य ग्रहणं भवेत् ॥ सेनायां यदि वासार्थं विनिग्रहो वायसो भवेत् ॥ ३७ ॥ वासो भयाय रात्रस्थो भयं वदति दुस्तरम् ॥ छायाङ्गावाहनेष्वानलच्छत्रवस्त्रादिकुण्ठनैः ॥ ३८ ॥ मृत्युस्तत्पूजने पूजा तदिच्छाकरणे शुभम् ॥ प्रोषितागमकृत्काकः कुर्वन्दारि गतागतम् ॥ ३९ ॥ रक्तं दुग्धं गृहं द्रव्यं विक्षिपन्विह्नितोऽर्कः ॥ न्यसेद्द्रव्यं पुरस्ताच्चोन्निषिद्- यति बन्धनम् ॥ ४० ॥ पीतद्रव्यं तथा रूप्यं रूप्यं श्वेते तु भार्गवे ॥ यश्चैवोपलभेद्व्रव्यं तस्य लब्धिंनिदिशेत ॥ ४१ ॥ द्रव्यं चोपनयेद्यत्तु तस्य हानिं द्विजोत्तम ॥ पततो धनलब्धिः स्यादाम मांसस्य भक्षणे ॥ ४२ ॥ श्रीलब्धिः स्यान्मृगेक्षणे राज्यं रत्नापणे महत् ॥ यातुः काकोऽनुकू- लस्यः ज्ञेयः कर्णसमो भवेत् ॥ ४३ ॥ नन्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ॥ ४४ ॥ समुच्चेऽण्डयिति विततः यात्राराघातकरो भवेत् ॥ वामः काकः स्मृतो धन्यो दक्षिणस्तु विनाशकृत ॥ ४५ ॥ वामोऽनुलोमगाः श्रेष्ठो मध्यमो दक्षिणः स्मृतः ॥ प्रतिलोमकृतावामो गमनप्रतिषेधकृत् ॥ ॥ ४६ ॥ निर्वद्यूति यात्रार्थमभिप्रेतं गृहे रतः ॥ एकाक्षिश्चरणस्खैके वक्ष्यमाणो भयावहः ॥ ४७ ॥ कोटरे वासमानस्तु महानर्थकरो भवेत् ॥ न शुभः सूकरे काकः पङ्कान्तः स तु दृश्यते ॥ ४८ ॥ अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः ॥ ज्ञेयाः पतत्रिणोऽन्येमी काकवद्बहुलन्दुन ॥ ॥ ४९॥ स्कन्दादौ राम सव्यस्थाः श्वानो रिपुविनाशकाः ॥ इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥ ५० ॥ अन्तर्गेहे गृहेशस्य मरणाय भवेद् भृशम् ॥ यस्य व्रजति वामाङ्गं तस्य स्याद्दीर्घसिद्धये ॥ ५१ ॥ भयाय दक्षिणं वामं तथा शुजमदक्षिणम् ॥ यात्राराघातकरो यस्तु हर्ष प्रति सुखगतः ॥ ५२ ॥ मार्गारोधकरो मार्गे चौरस्त्विति भार्गव ॥ अलातास्थिशुस्कवः पापा रज्जुर्मुखस्तथा ॥ ५३ ॥ सोपानत्कमुखो धन्यो मांसपूर्णमुखोऽपि च ॥ अमङ्गल्यमय द्रव्यं देश चवाङ्मुखं तथा ॥ ५४ ॥ अवलुप्त्याग्रतो याति यातस्य न भयं भवेत् ॥ तथावमूर्च्छा व्रजति शुभं देशं तथा क्रमम् ॥ ५५ ॥ मङ्गल्यं च तथा द्रव्यं तस्य स्यादर्थसिद्धये ॥ एवञ्च राम विज्ञेयास्तथा वै जम्बुकादयः ॥ ५६ ॥ भयाय स्वामिनो ज्ञेया अनिमित्तमयं गवाम् ॥ निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ॥ ५७ ॥ शिवाय स्वामिनो रात्रौ बलीवर्दा नद- न्त्येव ॥ उत्सृष्टवृषभो राज्ञो विजयं संप्रयच्छति ॥५८॥ अभक्ष्यं भक्षयन्तश्च गावो न्यासस्तथाम्बकान् ॥ त्यक्तस्नेहाश्च वत्सेषु गवां क्षयकशे मतः ॥ ५९ ॥ भूमिं पादैरिनिहत्य दीना भूता विकाणणात् ॥ अन्योन्यलम्भपुच्छश्च गावो भयंकरा मताः ॥ ६० ॥ आर्दाङ्गा हृष्टरोमाश्च प्रविशन्त्य- स्तथा गृहम् ॥ शुङ्गलशृङ्गो वापि विज्ञेयाः स्वामिवृद्धये ॥ ६१ ॥ महिष्यादिषु चाप्येतत्सर्वं वाच्यं विजानता ॥ नेत्रनासापुटश्रोत्रकंस्यास-

द्वि० सं०
अ० १६४

वि० घ०
॥२१०॥

नसूर्येषु ॥ ६२ ॥ हयानां ज्वलनं शस्तमतोऽन्यत्र प्रशस्यते ॥ सर्वोज्ज्वलनं नेष्टं तथा धूमसमुद्भवः ॥ ६३ ॥ विस्फुलिङ्गोद्भवश्चैव शकृत्त्यां
स्वनं तथा ॥ आरोहणं तथाऽन्येन सपर्याण्यस्य वाजिनः ॥ ६४ ॥ जलोपेक्षणं नेष्टं भूमौ च परिवर्तनम् ॥ विपत्कल्पतरुङ्गस्य स्वतो वाप्यनि-
मित्ततः ॥ ६५ ॥ यवसोदकयोर्द्वेषस्त्वकस्माच्चैव शस्यते ॥ क्रौतः कपोतवै शारिकामिस्तुरङ्गमः ॥ ६६ ॥ आत्मनः स्वामिनो वापि
तदा मरणदोवकः ॥ दुःखार्त्तध्यानशीलश्च साश्रुनेत्रो भयावहः ॥ ६७ ॥ जिह्वया लेढि चरणमसावपि भयङ्करः ॥ निर्निमित्तं पतति वा तदा स्या-
न्नृषु वृद्धये ॥ ६८ ॥ वामपादेन च तथा विलेखंश्च वसुन्धराम् ॥ स्वेनैव वामपार्श्वेन दिवा वा न शुभप्रदः ॥ ६९ ॥ प्रवेपमाना हेपन्ते रोदन्ते
च मुहुर्मुहुः ॥ शकृन्मूत्रे विमुञ्चन्तो वेपयन्ति महद्भयम् ॥ ७० ॥ उत्तिष्ठन्तो निषीदन्तः सन्ध्यायां हीनमानसाः ॥ बस्ताः सालाश्च दीनाश्च
हेपमाणा भयावहाः ॥ ७१ ॥ हेपतस्तु यदा ज्वाला ज्योत्स्ना वा मुच्यते भवेत् ॥ तदा विजयस्याऽप्ति स्वामिनो ध्रुवमेव हि ॥ ७२ ॥
दक्षिणेन पदा भूमिं विकिरञ्जयवर्धनः ॥ रात्रौ दक्षिणापार्श्वेन प्रस्वपंश्च नरोत्तम ॥ ७३ ॥ आरोहणं नवे दद्यात्प्रतीपं वा गृहं व्रजेत् ॥
यात्राविधातमाचष्टे वामं पादं तथा स्पृशन् ॥ ७४ ॥ अनुलोमं यदा याति पुरस्तात्प्रतिषेधिते ॥ दक्षिणं वा तथा पार्श्वं मुखेनोपरि मार्जति ॥७५॥
प्रेरितस्त्वनुकूलेन पवनेन रणे हयः ॥ हेषमाणः परान्याति तदा स्याद्विजयावहः ॥ ७६ ॥ ग्रामे व्रजति नाश्वेन्धनेन्धनं देशहा भवेत् ॥
प्रसूता नागवन्निता मत्ता चान्ताय भूपतेः ॥ ७७ ॥ दन्तमङ्गे शुभे देशे द्रुमे वा भयवर्धनः ॥ क्रूरेषु दोषांल्लभते तथा राम विशेषतः ॥ ७८ ॥
गण्डूषधारणं कृत्वा वक्रभागे तु दक्षिणे ॥ हस्तं गृहीत्वा हस्तेन नागस्यान्यस्य वा पुनः ॥ ७९ ॥ ऊर्ध्वं कुसुमम्य विषाणे वाथ दक्षिणे ॥
गम्भीरं श्रोत्रमधुरं राज्ञस्तद्विजयावहम् ॥ ८० ॥ अतोऽन्यथा विपर्यस्तं त्वशुभं परिकीर्तितम् ॥ आरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत् ॥८१॥
मदं वा वरणो जह्याद्यात्राघातकरो भवेत् ॥ ग्राह्यगृहीतो द्विरदः समाहः सलिलाशयात् ॥ ८२ ॥ उत्तरोन्विजयप्रदाय स्यात्समाग्रहो भयवर्धनः ॥
शस्त्राङ्कुशपताकानां भूमौ निपतनं गजात् ॥ ८३॥ लोष्टकाष्ठकरीषाणां क्षेपणे चापि युद्धवित् ॥ अनुयातं जयायैतत्प्रतितीयानं न शस्यते ॥
॥ ८४ ॥ वार्यमाणो यदा नागः शृणुणामिमुखो व्रजेत् ॥ तन्मृयुस्तारं च यदा तेजः प्रशङ्कितः ॥ ८५ ॥ इष्टांस्तु यस्तु भक्ष्यांश्च तथा
स्पृशति हस्तिनीम् ॥ राम बृहितशब्दानां प्रतिशब्देन कुरुते ॥ ८६ ॥ कशायां बध्यमानायां यदा वाजेनेदपि ॥ यात्रा
शुभश्च भवति प्रहृष्टश्च वारणः ॥ ८७ ॥ वामं दक्षिणापादेन पादमाक्रमते तथा ॥ दक्षिणं च तथा दन्ते परिमार्टि करेण ॥२१०॥

चेत ॥ ८८ ॥ वेष्टयत्यथ वा कर्णौ तथा स्तब्धौ करोति च ॥ जयाय राज्ञो भवति जनयन्नपि शीकरम् ॥ ८९ ॥ वामं तु वेष्टयेद्धस्तं पादं वामेन दक्षिणम् ॥ पादमाक्रममाणश्च प्रस्खलेत्त्रिष्वथापि ॥ ९० ॥ अग्रहस्तं नोद्धरति यदा च वसुधातलात् ॥ सासुञ्च कवलेऽल्पौ दीनो भयाविवर्धनः ॥ ९१ ॥ निःश्वासं परमं कुर्व्वञ्छ्रान्तं विकृतमेव च ॥ भयावहो विनिर्दिष्टः प्रतिलोमगतिस्तथा ॥ ९२ ॥ क्षीरपादपगुल्मानां निहन्ता विजयावहः ॥ तथा विकासिताक्षाश्च राम लब्धपदोऽपि च ॥९३॥ वृषोक्षः कुञ्जरो वापि रिपुसैन्यं यदा व्रजेत् ॥ पराजयस्ततो ज्ञेयं लक्षणं भृगुनन्दन ॥ ९४ ॥ खण्डमेवाभिदृष्ट्या च सेनानाशमवाप्नुवान् ॥ प्रतिकूलग्रहाश्चैव तथा संशुष्कमासता ॥ ९५ ॥ यात्राकाले रणे वापि च्छत्रादिपतनाद्वयम् ॥ विज्ञेयं भूमिपालस्य घोराणां दीनता तथा ॥९६॥ नाशायनाग हप्ताश्च विधूमोऽग्निस्तथा ज्वलन् ॥ अनुलोमा ग्रहाश्चैव विज्ञेयञ्जयलक्षणम् ९७ ॥ आयुधानां प्रज्वलनं कोशादपि विनिर्गमः ॥ संग्रामकाले विज्ञेयं विजयस्य तु लक्षणम् ॥९८॥ कार्केयौर्घामभिभवनं क्रव्यादैर्मण्डलक्रिया ॥ सैन्योपर्युपसैन्येन विज्ञेयं भयल्लक्षणम् ॥ ९९ ॥ कुण्डलिदक्षिणे हस्ते छाया च शुभलक्षणा ॥ शोभा मनुजशार्दूल तत्कालं विजयावहा ॥ १०० ॥ सेनाङ्गसंस्थो भयकृद्विजेन्द्र क्रव्याद्व्रक्षव्यथ मक्षिका च ॥ शुभावहाः स्युः शतपत्रचापम गूरुंक्षाश्च सजीवजीवाः ॥ १०१ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शकुनवर्णनो नाम चतःपञ्च्युत्तरशततमोऽध्यायः ॥ १६४ ॥ ॥ छ ॥ पुष्कर उवाच ॥ प्रकृष्टदेशे शुभे देशे शुभं भवति भार्गव ॥ अशुभं वाशुभं राम तन्मे निगदतः शृणु ॥ १ ॥ श्मशानसून नाभवनबन्धननागवाक्भ्रसु ॥ रथ्याकर्दमदुर्गेषु शून्येषु भवनेषु च ॥ २ ॥ कण्टकिद्रुमह्युक्तेषु शोणप्राकारवेरवेश्मासु ॥ वल्मीकमूषिकापसपसर्पकीटेष्वशुभं वदेत ॥ ३ ॥ मांसस्पृष्टोपपलि तेषु सुषुप्रेषु विशेषतः ॥ प्रशस्तद्रुमयुक्युक्तेषु विद्याद्दिग्जयलक्षणम् ॥ ४ ॥ शशालेषु तीरेषु सरितां सरसामपि ॥ भवनेषु विचित्रेषु शुभं वाच्यं विजानता ॥ ५ ॥ अभ्यक्तं शोच्यमानं च मुक्तकेशं तथैव च ॥ भूमिष्ठमुपसर्पन्ति तेषां विद्यादशोभनम् ॥ ६ ॥ दृष्ट्वाशुक्लाम्बरोपेता सुमनस्कारस्त थैव च ॥ दैवंज्ञमुपसर्पन्ति तेषां विद्याच्छुभं द्विजाः ॥७॥ बहवो दण्डहस्ताश्च काषायवसनास्तथा ॥ अभ्यक्तमुण्डपतितास्तथा कुब्जाश्च योषि तः ॥८॥ शुक्लरज्जुरहस्ताश्च संक्षिप्रफलपायवः ॥ पुच्छन्तस्ते तु विज्ञेया नृपवेश्मभयावहाः ॥९॥ शुक्लाम्वरा सपुष्पाश्च तथैव फलपाणयः॥ रत्नहस्ताः शुभा ज्ञेयास्तथा मङ्गलवादिनः ॥१०॥ वेलाः सर्वाः प्रपश्येत पूर्व्वाह्ने परिपृच्छतः ॥ सन्ध्ययोपरार्द्धे च निशायां च विगर्हिताः ॥ ११ ॥

शान्तां दिशमाश्राय पृच्छतः सिद्धिमादिशेत् ॥ उदीचीं प्रागुदीचीं च पूर्वा चैव विशेषतः ॥ १२ ॥ अङ्गुष्ठनखपादोरुगुल्फसुकुम्रस्तनाः ॥
गण्डशङ्खाक्षिकौ कर्णौ दन्तोष्ठमुखमस्तकम् ॥ १३ ॥ गुरुहुङ्कृतवस्तिश्च वक्षः केशोकसञ्चयः ॥ पुन्नामान्यवमादीनि स्पृशतः
पृच्छतः शुभम् ॥ १४ ॥ कर्णपालिध्रुवौ नासाजिह्वाग्रीवाशुकुक्षिकाः ॥ नाभिश्रोणी स्फिचो जंघे पिण्डिकाङ्गुुलयोऽपि च ॥ १५ ॥
पाणिपादाश्रया रेखा वलयः सर्वसन्धिषु ॥ पाणिर्ण्योरन्वयादीनि स्त्रीनामान्यभिनिर्दिशेत् ॥ १६ ॥ शिरो ललाटं चिबुकं मुखं पृष्ठोदरं त्रिकम् ॥
जठरं वस्तिशीर्षं च मेहनं जानुनी तथा ॥ १७ ॥ कर्णौपाठौस्फिकूटं च पार्श्व च हृदयं तथा ॥ नपुंसकानि जानीयादंगविद्याविशारदाः ॥ १८ ॥
पुंनामानं दृढं स्निग्धमविभ्रममपीडितम् ॥ समं समाहितं चांगं वीरूजं च यदा स्पृशेत् ॥ १९ ॥ यमर्थमभिपृच्छेत तस्य सिद्धिं विनिर्दिशेत् ॥
शत्रूणामुदये पृष्टस्तल्लग्नस्य तथोदय ॥२०॥ शत्रुशत्रूद्ये पृष्टम्तेषां वाच्योविपर्ययः ॥ पराजयं तु वक्तव्यं स्वलग्नास्यात्मोदये ॥ २१ ॥ स्वराशे
श्च महाभाग तथा विद्यादशोभनम् ॥ स्वलग्नस्योदये राम शत्रुशत्रूद्ये तथा ॥ २२ ॥ लग्नाद्वा राशितो वापि विपक्षाणामोदये ॥ एकादशोद्ये
वापि तेषां वाच्योविपर्यये ॥ २३ ॥ पृष्टुः सर्वार्थसंपत्तिर्विज्ञेया भृगुनन्दन ॥ लग्ने वा तच्चतुर्थे वा सप्तमे दशमेऽपि वा ॥ २४ ॥ पञ्चमे नवमे
वापि शस्ताः सौम्यग्रहाः स्मृताः ॥ त्रिषड्दशम संस्थेने पापाश्चैकादशे शुभाः॥२५॥सर्वार्थसाधका ज्ञेयाः प्रष्टुर्भृगुकुलोद्वह ॥ सौम्या बलधिका
ज्ञेयाः पापा हीनबलास्तथा ॥ २६ ॥ बलवच्च तथा लग्नं प्रश्नकाले शुभप्रदम् ॥ एवं तु प्रश्नकालेन शुभं विज्ञाय भूपतिः॥२७॥ यात्रा राम शुभा
ज्ञेया नान्यथा तु कदाचन ॥ जातकं चाथ विज्ञाय दशाकाले सुशोभने ॥ अष्टवर्गबले शुद्धे यात्राकालः प्रशस्यते ॥ २८ ॥ परस्य देवे त्वशुभे
द्विजेन्द्र यात्रा च देया स्वशुभाय नित्यम् ॥ ग्रहादिवाकेषु शुभेषु चैव दत्ता भवेत्कार्यकरी यथावत् ॥ २९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मा० वज्रसंवादे श्रीपरशुरामं प्रति पुष्करोपाख्याने अंगविद्यायोगो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥ १६५ ॥ श्रीमार्कडेय उवाच ॥ अथ
भार्गवो रामो वरुणनन्दनं पुष्करं नाम पप्रच्छ ॥ भगवञ्ज्योतिषशास्त्रं श्रोतुमिच्छामि ॥ तमुवाच वरुणः ॥ पुरा सुरर्षिगणमध्यगतं भगवन्तम्
तिशयं सर्वजगत्पालनसंहारकरं श्रीनह्लाणं सुग्रीवज्ञापयामास ॥ भगवञ्ज्योतिषामयनं श्रोतुमिच्छामि तमुवाच भगवान्पितामहः ॥ यदा मे त्वं
कल्पादौ हृदयाज्जातस्तदा मया ते श्लोकानां चतुर्विंशतिलक्षं ज्योतिरयनमुक्तं तदेवस्पिन्दारुणे यज्ञे महादेव शापेन ज्वालां मित्वा विनिर्गतस्य
जन्मान्तरेणाभ्रभ्रस्यातिसंक्षिप्तं वक्ष्यामि ॥ तच्छ्रुत्वा सर्वमेव ते पूर्वजन्मनामभिहितं ज्योतिर्ज्ञानमाविर्भविष्यति ॥ अथ भगवान्सहस्ररश्मिविमलो

विमलमयूरखः क्षेमाय शिखिपत्राकारः स्तवग्रहाय चन्द्र इव दृष्टिमण्यो राज्यस्याप्तये चन्द्रश्माः समागमे ग्रहाणामुदूर्ध्वमध्यात्तश्च दृश्यते । यथासं भवं च नक्षत्राणां समागमे नक्षत्रादीन्यपि शस्यन्ते ॥ अथ यस्मिन्नक्षत्रे भौम उदयं प्रतिपद्यते तस्मात्सप्ताष्टनबमक्षं पूर्णोन्मुखं नाम वक्रं करोति येनाग्निमन्तो ब्राह्मणा अग्निजीविनश्च पीड्यन्ते । दशमैकादशद्वादशंऽश्रुमुखं नाम मरणकारकं करोति । त्रयोदशचतुर्दशयोर्व्यालावह्यं व्यालवृ द्धिकरम् । पञ्चदशषोडशयो रुचिरमुखं संग्रामसूचकम् । सप्तदशाष्टादशयोरासिमुखं चौराग्रव्यत्यकरम् ॥ अथ बुधो भरणीकृत्तिका रोहिणीषु विच रन्प्राकृतां गतिं सुभिक्षजननं विचरति । आष्ट्रपौरद्रिप्रेक्षुषु मिश्रां मिश्रफलदां पुनर्वसुपुष्यभाग्यार्चम्वणेषु संक्षितं मिश्रफलदामेव ॥ आर्द्रेपु ष्यवाचैपौष्णशक्राग्निभानि तीक्ष्णां नाम विग्रहकारिणीं मूलादितित्रितयसंयोगात्कान्तिकोत्पादिमृदम् । श्रवणधनिष्ठावारुणीत्वाप्रणि, घोरां घोरफलाम॥जीवस्त्वष्टयोदशभिर्भानिं गतिं विवरञ्शुभो भवति, अन्यथा कष्टफलः । अथोद्यास्तमयचारैः शुक्रस्य यन्मानं नक्षत्रचतुष्टयमानं मण्डलं सुभिक्षजननं, रौद्राद्यमपि चतुष्टयं द्विजभयप्रदं, शक्राद्यं पञ्चक्षं रोगजननं, घनिष्ठाद्यं षण्णक्षत्रमतिवृष्टिकारिमितित्यादेश्च्यपुरुपनक्षत्रेषु सोमे विच रति, तत्पीडा बहव्यो भवन्ति ॥ यस्यां दिशि केतोः शिखा दीता भवति तं देशं नृपतिरमियुञ्ज्यात । उपरागः श्वेतस्तरक्तपीतकृष्णो ग्रहोर्द्वालहाणाक्षधि याविट्वाइपीडां करोति । अगस्त्यः स्फुरुणो रूक्षतयोपहतः शिखिशिखावत्स्तोभयाय । एवंविधा सप्तर्षयश्च । एवंविधं त्रैलोक्यमपि पीडयन्ते ऐशान्यां दिशि कृत्तिकाभिः सहोदेति कुमारस्तिस्मिन्नेवविधे बालपीडा ॥ जीवशसोराः पौराः । कुजशुक्रौ यायिग्रहौ । चन्द्रार्कौ मध्यमौ । तत्राकेण सह ग्रहा णामस्तमयो भवति । चन्द्रेण सह समागमः परस्परं युद्धम् । उङ्ङ्मागंगतः शुभ्रो विजयी भवति । यायिमहे विजयिनि स्वबले च राजा परान भियुञ्जीत, अन्यथा पौरेषु बलवत्सु यायिनां नाशः स्यात् । अगस्त्यवदुपहते नक्षत्रे तद्देशडूयत्यतजातपुरुषपीडा । वा यस्यां दिशि भृचलो याति तां दिशं राजा यायात् । संनिर्चिते दीर्घे राजमरणं स्यात् । यां दिशमुल्का याति तां दिशं नृपो यायात । दिवोल्का चन्द्रार्कविनिर्गता उल्काति न्यतिस्थुला सस्फुलिङ्गा ततोर्ध्वगा राजमृत्यवे स्यात् । बहुवर्णं परिवेषे प्रजापीडा स्यात्, गतः खण्डः परिवेषः स्यात्, तां दिशं नृपतिर्यायात । अतिभीमनिर्घातो राजमृत्यवे । यां च दिशं याति तां दिशं राजा यायात । गन्धर्वनगरं शक्रायोधोद्भूतं महाभयाय । गत्राविन्द्रधनुः श्वेतं व्यभ्रे च महाभयाय । प्रतिसूर्य उदग्दक्षिणेनाकादातकृत् । उभयस्थितो महावधाय उपरि गजयूत्थवे ॥ तथाचप्रस्ताननवि


१ 'स्फुरणो' इति क० ।

नाशाय । उभयथा महाभयाय सर्वतः त्रिभुवनपीडावो भवति । या दिग्दहेन दीप्ता स्यात्तां दिशं गजा यायात् । अति- दीप्ते छायाव्यङ्गे राजमरणं विन्द्यात् ॥ अथ वा ध्रुवदारुणातिप्रचरसाधारणेषु यथा स्वकर्म ध्रुवादिकर्म क्रियमाणं सिद्धिमुपैति ॥ व्यतीपातादिविद्धेषूत्पास्तमितनक्षत्रेषु न किञ्चिदपि । तथा चार्कनलराहुधूमितज्वलितदग्धविद्धेषु नक्षत्रेषु तथा च त्रिधोत्पाताभिहतेषु यन्न यस्मिन्नक्षत्रे पुरुषस्य जन्म तन्नक्षत्रं तस्मान्नक्षत्राच्च दशमं तत एकोनविंशं जन्मजन्मनक्षत्रादिति विन्द्यात् । (सर्वेस्माज्जन्मनक्षत्राद्द्वितीयं संपत्करम् । तृतीयं विपत्करं । चतुर्थं क्षेम्यम् । पञ्चमं प्रत्यरि । षष्ठं साधकम् । सप्तमं नैधनम् । अष्टमं मैत्रम् । नवमं परमं मैत्रं चेति)॥ तत्र सम्पत्करं क्षेमसाधकं मैत्रातिमित्रेषु सर्वाणि कर्माणि कुर्यात् । दशमेऽहं च ॥ यथा कर्मसु नक्षत्रे तिथिं रिक्तां विना क्रूरमक्षांसौम्ये दिनकृते वत्स सिद्धमायात्यसंशयम् ॥ इति श्रीविष्णुध० मा० व० सं० द्वि० खण्डे रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रे शास्त्रज्ञानावणनो नाम षट्पञ्च्युत्तरशततमोऽध्यायः ॥ ॥ १६६ ॥ पुष्कर उवाच ॥ अथ ब्रह्माणं भगवंतं भृगुर्विद्यापथामास भगवञ्ज्ञानातुमुच्छकमिच्छामि । तमुवाच भगवान् । वत्स द्वादशराशयो भचक्रम् । त्रिंशाद्भागाश्च राशेः । षष्टिः लिप्तश्च भागः । षष्ठिर्विलिप्ताश्च लिप्ता षष्टिः परा विलिप्ता । षष्ठिश्च नाडिका अहोरात्रम् । षष्टि र्विनाडिका । नाडिका तत्र यः काले प्राणः सा क्षेत्रलिप्ता । तस्माद्यावता कालेन प्राणो भवति । दर्शगुर्वक्षरक्षणस्तावता कालेन भचक्रस्यैका कलाऽयुदेति । सकलं भचक्रं नाडिकाषष्ट्येति । तत्रादावेव राशिर्जो रक्तवर्णः कालस्य मूर्धा (पूर्वावन्चो) दिवारात्रौ ग्राम्यः प्राग्द्वारः चतुष्पात रात्रौ दक्षिणास्यां दिशि बली चरः पृष्ठोदयः क्रूरो विषमः पुमाञ् शनेश्वरस्य नीचः । विंशतितस्तथागतस्यैवातिनीचः । आदित्यस्योच्चः, तस्यैव दशमे भागेऽत्युच्चः अङ्गारकक्षेत्रम् । तस्यैव त्रिकोणमिति ॥ वृषः श्वेतवर्णो मुखं कालस्यारण्यो दिवारात्रो ग्राम्यो दक्षिणद्वारः चतुष्पाद्रात्रौ दक्षिणस्यां दिशि बली स्थिरः पृष्ठोदयः समः सौम्यः स्त्रीराशिः शुक्रक्षेत्रं चन्द्रमसंस्त्रिकोणे तस्यैव च तृतीये भागे चात्युच्चमिति ॥ मिथुनः पुरुषो गदाधारी वीणाकरा नारी च हरितवर्णः कालस्य बाहू ग्राम्यः पश्चिमद्वारो द्विपात् पूर्वस्यां दिशि दिवा बली द्विखभावः शीर्षोदयः क्रूरो विषमः पुरुषराशिः बुधक्षेत्रमिति ॥ बली चरः पृष्ठोदयः कीटः सौम्यः समः स्त्रीराशिः चन्द्रक्षेत्रं भौमनीयः तस्याष्टविंशतितमे भागेऽतिनीचो जीवस्योस्तस्य पञ्चमे भागेऽत्युच्च इति ॥ सिंहः सिंहाकारः पाण्डुवर्णः कालस्योदरमारण्यः प्राग्द्वारः चतुष्पात दक्षिणास्यां दिशि रात्रौ बली स्थिरः शीर्षोदयः


१ कोष्ठान्तर्गतः पाठः क्षेपुस्तके नास्ति । कोष्ठानान्तरपाठे यत्र यत्र “क्लीबत्वं तत्र सर्वत्र क्षपुस्तके क्लीबम् । यथा-द्वितीया संपत्करा” इत्यादि तदपि बुद्ध् ।

क्रूरो विषमः पुमान् आदित्यक्षेत्रं तत्रिकोणमिति ॥ कन्याराशिः कुमारी नौस्था दीपिकाहस्ता विचित्रवर्णा कालस्य कटिः ग्राम्यो दक्षिणद्वारः पूर्वस्यां दिशि बली स्थिरः शीर्षोदयः समः सौम्यः स्त्रीराशिः शुक्रस्य नीचः सप्तविंशतितमे भागे तस्यैवातिनीचो बुधस्योच्चस्तस्य पञ्चदशे भागेऽत्युच्चो बुधक्षेत्रं तत्रिकोणमिति ॥ तुला वणिक् पुरुषः तुलाधरापणवीथीगतः कृष्णवर्णः कालस्य¹ बस्तिस्थितो ग्राम्यः पश्चिमद्वारो द्विपा पूर्वस्यां दिशि बली चरः शीर्षोदयः क्रूरो विषमः पुरुषराशिः शुक्रक्षेत्रम् आदित्यनीचस्तस्यैव दशमे भागेऽतिनीचः शनैश्चरस्योच्चश्चोर्ध्वः तस्यैव विंशतितमे भागऽत्युच्चः तस्यैवातिनीचो भौमक्षेत्रमिति ॥ धन्वीनाम धनुर्धरः पुरुषो ह्यपश्विमार्धः पिङ्गलः कालस्योरू ग्राम्यः प्राग्द्वारः तस्य प्रागर्धो द्विपात्, द्वितीयमर्धं चतुष्पात तस्य प्रथममर्धं पूर्वस्यां दिशि, दिवाबली पश्चिमान्तमर्धं रात्रौ दक्षिणस्यां दिशि बलवान्, द्विस्वभावः पृष्ठोदयः क्रूरः पुमानन्वपो जीवक्षेत्रं तत्रिकोणमिति ॥ मकरो नाम मृगः पूर्वार्धो मकरः, पश्चार्धो मृगः, प्रागर्धेनारण्यो द्वितीयार्धेनाम्बुचरः ( कुबेरैः ) कालस्य जानुनी पूर्वार्धोध्वंचतुष्पात, पश्चार्धेन कीटो, दक्षिणद्वारः, ग्राम्येन रात्रौ दक्षिणस्यां दिशि बली पश्चिमांचन, सन्ध्यायां पश्चिमायां दिशि चरः, नीचं बृहस्पतेः तस्यैव पश्चिमे भागेऽतिनीचं, भौमस्योच्चस्तस्यै वाष्टाविंशतितमे भागेऽत्युच्चः, सौरक्षेत्रमिति ॥ कुम्भो नाम पुरुषः स्कन्धेन रिक्तकुम्भधरः पिङ्गलः कालस्य जंघे द्विपाद्राम्यः पश्चिमद्वारः पूर्वेण च दिवा बली शीर्षोदयः स्थिरः क्रूरः पुमान्विषमः शनैश्चरक्षेत्रं तत्रिकोणमिति ॥ मीनो नाम द्वौ मत्स्यावन्योन्यपुच्छाभिमुखौ मत्स्यवर्णो कालपादौ कीट उदीचः पश्चिमस्यां दिशि सन्ध्यायां बली पृष्ठपुच्छोदयो द्विस्वभावः सौम्यः समः स्त्रीराशिः बुधस्य नीचं तस्यैव बुधस्य पञ्चदशभागेऽतिनीचं शुक्रस्योचं तस्यैव सप्तविंशतितमे भागऽत्युचं जीवक्षेत्रमिति ॥ सर्वस्यैव राशेरर्धं होरा तत्र विषमराशिषु प्रथमा प्रथमा सौरी द्वितीया चान्द्री समराशिषु चान्द्री द्वितीया सौरी सर्वराशिषु द्रेष्काणत्रयम् । ते प्रथमपञ्चमनवमराशीनाथाः । प्राग्द्वाराणां राशीनां मेषाद्या नवांशकाः दक्षिणद्वाराणां मकराद्याः पश्चिमद्वाराणां तुलाद्याः उत्तरद्वाराणां कुलीराद्याः “सर्वादियौं नवांशको”वगोत्तमः कर्कटवृश्चिकमीनानां चर मांशा गण्डान्ताः॥“राशौ राशौ द्वाभ्यां द्वाभ्यां द्वादशद्वादशभागाः” । त्रिशांशकाः पञ्च भौमस्य, ततः पञ्च सौरस्य, ततोऽष्टौ जीवस्य, सप्त बुधस्य द्वौ भृगोर्विषमराशौ, समराशौ तु अष्टौ शुक्रस्य ततः सप्त बुधस्य ततोऽष्टौ जीवस्य पञ्च सौरस्य पञ्च भौमस्येति॥ एवं षट्पदार्थों लग्नः स स्वस्वा


¹ अत्र पुस्तकेऽपि त्रुटिरस्ति । २ बन्धान्तर्गतः पाठः खुपुस्तके नाति ।

वि० चं० ॥२३॥द्वि० सं० अ० १५७ ॥२३॥

मिना जीवेन बुधेन शुक्रेण वा युक्तो दृष्टो बलवान्भवति । शेषैर्युक्तो दृष्टो हीनबलः स्यात् । एवं च राशिं सप्तमस्थो ग्रहः सर्वदृष्ट्या पश्यति चतुर्थाष्टमयोश्च स्थिताः पादा नेया दृष्ट्या पञ्चमनवमयोश्चार्धदृष्ट्या । तृतीयदशमयोश्च पाददृष्ट्या एक, द्वि, अष्टद्वादशे स्थितो न पश्यतीति, तन्नूल्यं गृहमध्येधर्लम्नमुदयं विलग्नकेन्द्रं त्रिकोणम् । शरीरमिति लम्रस्याख्या, धान्यकुटुम्बं च द्वितीयस्य, उपचयं घोषभ्रातृद्विशिक्ष्याख्यं तृतीयस्य, मित्रगृहं हिबुकं सुखवाहनकेन्द्रालाकास्याश्चतुर्थस्य, पुत्रत्रिकोणबुद्धिसंज्ञाः पञ्चमस्य, उपचयारिसंज्ञं षष्ठस्य, जायाजामित्रसप्तमार्द्धजवनशूनसंज्ञाः सप्तमस्य, छिद्रधुतेसंज्ञं चाष्टमस्य, धर्मत्रिकोणत्रित्रिकोणच्छिद्रसंज्ञा नवमस्य, कर्मकेन्द्रकाशमेशूपगोपचास्यापनया दशमस्य, उपचयायलाभशून्यख्या एकादशस्य, रिष्फ 'छून' सय्याख्या द्वादशस्येति ॥ सर्वैभ्यः केन्द्रसंज्ञेभ्यो द्वितीयः पणफरः सर्वस्मात्पणफरात द्वितीय आपोक्लिम इति ॥ आदित्यात्कान्तारांशेः द्वितीयो वेशि, द्वादशे वासि, उभये उभयचरी चन्द्रात् द्वितीयः सुनफा । द्वादशश्वानफा । उभयोरपि लम्रश्च स्वामिगुरुधुरागसंज्ञासमेतो अत्र सहस्ररश्मिरादित्यः नात्युच्चो न्योश्वापरिमण्डलः पैत्तिकोऽस्थिसारो रक्तश्यामः पापः पुरुषः क्षत्रियः कालात्मा राजा प्राग्द्वारो दक्षिणस्यां वा दिशि उदयने कृष्णपक्षे च बली ॥ चन्द्रमाः सङ्गलक्ष्मः तत्र वर्तुलाङ्गः दर्शनीयः स्वक्षः कफवातात्मा रुधिरसारः गौरः क्षीणः पापः पूर्णः सौम्यः स्त्रीग्रहः वैश्यः कालश्वासः राजा पूर्वोत्तरामिसुखः उत्तरस्यां दिशि रात्राबुदगयने शुक्लपक्षे च बलवानिति ॥ भौमो नवरश्मिः ह्रस्वः पिङ्गाक्षः कपिलः पैत्तिको मज्जासारो रक्तगौरः पापः पुरुषग्रहः क्षत्रियः कालस्य सत्वं सेनानीः दक्षिणाभिमुखो वक्रे दक्षिणस्यां दिशि कृष्णपक्षे रात्रौ च बलवानिति ॥ बुधोऽष्टरश्मिश्श्यामरूपः प्रमाणप्रकृतिः त्वक्सारः दूर्वाश्यामः सौम्यो न्यग्रोधसप्तमप्रकृतिर्भवति नपुंसकः शूद्रः कालस्य वाक् युवराजः उङ्मुखः उत्तरस्यां दिशि सर्वकालं वक्रे शुक्लपक्षे च बलवानिति ॥ सौरः सप्तरश्मिः कृष्णो दीर्घः वातप्रकृतिः पापा नपुंसकः कालस्य दुःखः प्रेष्यः पार्थिवाभिमुखः तस्यामेव दिशि रात्रौ वक्रे शुक्लपक्षे च बलवानिति॥ सर्वे च ग्रहाः स्वसंवत्सरे स्वायने स्वर्तौ स्वमासे स्वपक्षे स्वदिने स्वहोरायां स्ववर्गे बलवन्तो भवन्ति वर्गोत्तमस्थः स्वोच्चस्थः स्वत्रिकोणस्थश्च प्रहयुद्धे च जयो रश्मिवृद्धेश्च बलवान्भवति ॥ आदित्यस्य चन्द्रभौमार्कजीवा मित्राणि बुधस्समः शुक्रसौरौवरी ॥ चन्द्रस्य सूर्यबुधौ मित्रे शेषाः समाः ॥ भौमस्य जीवेन्दूष्णकराः सुहृदः, ज्ञोऽरिः, सितार्कजौ समौ ॥ बुधस्य सूर्यसिता मित्रे, हिमगुः शत्रुः, भौमजीवशनै


१ 'क्रान्तदाहाः' इति० क० पु० ।

श्चाः समाः ॥ जीवस्य सूर्येन्दुभौमा मित्राणि, रविसुतो मध्यः, सौम्यसितावरी ॥ शुक्रस्य बुधसौरौ मित्रे भौमजीवौ मध्यस्थौ सूर्येन्दू अरी ॥ सौरस्य बुधशुक्रौ मित्रे जीवो मध्यस्थः आदित्येन्दुकुजा रिपवः ॥ तत्काले च ग्रहादूढो द्वितीयतृतीयतमेति मध्यस्थारितामरिभिन्नताम् ॥ तन गर्भः प्रथममासि कललं भवति द्वितीय घनीभवति ॥ तृतीयोऽवयवाश्चास्य भवन्ति चतुर्थेऽस्थीनि पञ्चमे त्वक् षष्ठे बलं सप्तमे लोमानि अष्टमे शुद्ध नवमे उद्वेगः दशमे प्रसवः तत्रात्य मासक्रमेण शुक्राङ्गारकबृहस्पतिदिवाकरचन्द्रसौरबुधा वा ॥ लग्नाधिपतिश्चन्द्राकौः पतयः आधानकाले यः कलुषो भवति स स्वमासे गर्भपीडां करोति योऽन्यग्रहविजितः केतूल्काभिहतः स स्वमासे गर्भपाताय भवति जन्मलग्न पञ्चमषष्ठसप्तमाष्टमनवमेषु चन्द्रमाः पापयुतः सौम्यैग्द्यगवर्जितो वा तस्य मरणाय भवति लग्नाच्चतुर्थसप्तमाष्टमेषु पापद्वयम् ध्यान्तश्च षष्ठाष्टमयोः पापच्छेदोऽपि पष्ठाष्टमीरेन्त्यतमे बुधजीवशुक्राणामन्यतमो वक्रिणा पापेन दृष्टः सौम्यग्रहेण चादृष्टो मरणाय लग्नप श्चान्ते पापयुतश्च यत्र तत्र राशौ नवमांशः पापसन्ध्यायां चन्द्रद्वादशे च चत्वार्योपि च केन्द्राणि यमार्कचन्द्रभौमसौरोर्वतरे भचक्रे पूर्वार्ध पापाः पश्चार्ध सौम्याः कर्कटवृश्चिकान्यतमोदये च केन्द्राष्टमेनेति । पापैः क्षीणचन्द्रोदये च लग्नान्यचमार्थामस्थैः चन्द्रशनैश्चरार्कभौमैः जीवे च बलेहीने चन्द्रग्रहेण कालः सकूरे चन्द्रे लग्ने भौमेऽष्टमे मात्रा सह म्रियते एवंविधेके शत्रेण । एवमारिष्टान्यष्टवर्षान्तरे विघ्तात । अथ तात्कालिकस्य ग्रहस्य राशिभगलिप्ता अष्टविंशतशताष्टांगुणा कार्या भगणानां द्वादशावशेषे वर्षामासदिनघटिका भवन्ति । लग्नाद्यद्वादशस्थः सर्वमपहरति एकादशो अर्द्धम् दशमस्थस्त्र्यंशं नवमस्थश्च चतुर्थमष्टमस्थः पञ्चमम् । सप्तमस्थः षष्ठमेवं पापः सौम्यस्तदर्द्धं बहुवेकस्मींस्तु बल वानेवैकोद्धारक्रवजं शत्रक्षेत्रस्थत्र्यंशं हरति शुक्रसौरर्जितावस्तमितश्च सर्वेशवीरोच्यम् । वर्गोत्तमस्वगृहिंशेष्कोणशंगतश्च द्विगुणं हनिबृद्धी वा एकामेव महतीं प्रयच्छति एवं निर्णीतमायुर्यावद्धेन ग्रहेण दत्तं तावत्कालं तद्दशा ज्ञेया लग्नादृशा च ग्रहवद्बलंवंश्च लग्ने भक्ताशितुल्यानि वर्षाण्यन्यानि प्रयच्छति । दशा च लग्नाकेचन्द्राणां बलवतः प्रथमा भवति ततस्तत्कण्टकस्थानां बलवत्क्रमेण ततः पणफरगतानां तत आपो क्लिमगतानामिति । तत्रोच्चत्रिकोणस्वक्षेत्रवर्गोतमगतस्य शुभा विपरीतन्य चाशुभा लग्नदशा लग्नग्रहवेशननागतस्यैकराशियोगेनोवमाननिन्दम्यस्व गुणानसापतितनवमपञ्चमपादतृतीयन चतुर्थश्चतुर्थेन सप्तमः सप्तमेन बहुश्वेकोऽवयवो अथान्यदशायामन्महप्रवेशेन म्रियते तत्राक्रेण म्निना, चन्द्रमसा सलिलेन, भौमेन शस्त्रेण, बुधेन ज्वरेण, जीदेनामयेन, शुक्रेण तृष्णया, सौरेण क्षुधा, अष्टमं ग्रहरहितं यो ग्रहो बलवान्पश्यति

वि० ध०
॥२१४॥
द्वि०सू०
अ० १६७

तद्धातुकानयेन म्रियते अष्टमे ग्रहयोगेऽप्यहते ज्ञातिभिः द्वेष्काणाधिपतिकथितमृत्युना म्रियते । जन्मकाले यत्र स्थानोडर्को व्यवस्थितस्तस्मात्स्वाना-
तृतीयषष्ठदशमैकादशेषु भौमस्यात्मनात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु बुधात्तृतीयापञ्चमसप्तमनवमदशद्वादशदशेषु जीवात्पञ्चमसप्तमा-
नवमैकादशेषु शुक्रात्षट्सप्तसप्तैकादशेषु शनैश्चरात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु लग्नात्तृतीयचतुर्थषष्ठदशमैकादशद्वादशेषु चन्द्रार्कं
स्थानात्तृतीयसप्तमाष्टमदशमैकादशेषु स्वात्म्यप्रथमतृतीयपञ्चसप्तमदशमैकादशेषु शुक्रातृतीयाचतुर्थपञ्चसप्तम नवमैकादशेषु भौमार्कात्तृतीयपञ्चमषष्ट-
दशमैकादशेषु स्वात्म्यप्रथमाद्वितीयचतुर्थसप्तमाष्टमदशमैकादशेषु बुधात्तृतीयपञ्चमषष्ठदशमैकादशद्वादशेषु शुक्रात्षष्ठाष्टमैकादशद्वादशेषु सौरात्प्रथ-
मचतुर्थसप्तमाष्टमदशमैकादशेषु लग्नात्प्रथमतृतीयपष्ठदशमैकादशेषु बुधात्कोत्पञ्चमषष्ठाष्टमनवमैकादशेषु चन्द्राद्वितीयचतुर्थपञ्चाष्टमदशमैकादशेषु
भौमात्प्रथमद्वितीयचतुर्थपञ्चमाष्टमनवमैकादशेषु स्वात्म्यप्रथमतृतीयपञ्चमषष्ठनवमैकादशद्वादशेषु शुभः । जीवात्पञ्चाष्टमैकादशद्वादशेषु शुभः ।
शुक्रात्प्रथमतृतीयचतुर्थपञ्चमाष्टमनवमैकादशेषु सौरात्प्रथमद्वितीयचतुर्थसप्तमाष्टमनवमदशमैकादशेषु लग्नात्प्रथमद्वितीयचतुर्थषष्ठाष्टमदशमैका-
दशेषु जीवोऽर्कात्प्रथमद्वितीयचतुर्थसप्तमाष्टमदशमैकादशेषु घर्माद्दितीयपञ्चसप्तमस्तमनवमैकादशेषु भौमात्प्रथमद्वित्रिचतुःसप्ताष्टदशमैकादशेषु बुधात-
प्रथमाद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात प्रथमाद्वित्रिचतुःसप्ताष्टदशमैकादशेषु ॥ शुक्राद्विपञ्चपण्णवदेशैकादशेषु सौरात्त्रिषञ्चसप्तदशकादशेषु लग्नात्प्रम-
थमाद्विचतुःपञ्चषट्सप्तदशैकादशेषु जीवात्पञ्चाष्टनवमैकादशेषु स्वात्म्यमद्विचतुःपञ्चाष्टनवमैकादशेषु सौरात्त्रिचतुःपञ्चाष्टनवमैकादशेषु लग्नात्प्रथम-
द्वित्रिचतुःपञ्चाष्टनवमैकादशेषु सौरोऽर्कात्प्रथमद्विचतुःसप्ताष्टदशमैकादशेषु चन्द्राद्विपञ्चैकादशेषु भौमात्रिष्वपञ्चषट्ङ्ककादशेषु बुधातपञ्चनवदशैकादश
द्वादशेषु जीवात्पञ्चषष्टैकादशद्वादशेषु शुक्रात्पंचैकादशद्वादशेषु स्वात्रिष्वपञ्चैकादशेषु लग्नात्प्रथमद्विचतुर्दशमेषु येषु नोक्तः शुभास्तेषु सर्व एव
शुभो भवति । शुभाशुभवैशेष्यञ्च चावशात्फलं प्रयच्छति दशाफलमव्यभिचारि अष्टवर्गात्फलमशुभं शान्य्यादिभिरुपहृतं भवति चात्र-अनफादु
रुफास्थाने न शस्ते ग्रहवर्जिते ॥ सर्वेषां चैव केन्द्राणां शून्यता न प्रशस्यते ॥ कर्कणीच झषाणां च चरमोऽशस्तथैव च ॥ शत्रुक्षेत्रस्तथा
नीचो ग्रहाणां गर्हिता स्थितिः ॥ सूर्यमण्डलगाश्चैव न प्रशस्तास्तथा ग्रहाः ॥ जन्मपो लग्नपेश्वाथ श्रेष्ठौ बलसमन्वितौ ॥ तावेवौ विबलौ यस्य
तमधन्यं विनिर्दिशेत् ॥ एकोऽपि परमोच्चस्थो मित्रदृष्टस्तथा ग्रहः ॥ जनयत्यवनीशं वा शत्रुक्षेत्रक्षयङ्करम् ॥ अतीव स्वस्थो विज्ञेयः स्वोच्चे
लग्नगते ग्रहः ॥ भावमानं न प्रशस्तं तथा जन्मनि कीर्तितम् ॥ चन्द्रः शस्तो हि विज्ञेयो दृष्टे क्षत्राधिपेन तु ॥ तं मित्रेण तथा ब्रूवन् ॥२१४॥