विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 634, कुल 1001 में से
संदर्भ में पढ़ें| वि० चं० ॥२३॥ | द्वि० सं० अ० १५७ ॥२३॥ |
|---|
मिना जीवेन बुधेन शुक्रेण वा युक्तो दृष्टो बलवान्भवति । शेषैर्युक्तो दृष्टो हीनबलः स्यात् । एवं च राशिं सप्तमस्थो ग्रहः सर्वदृष्ट्या पश्यति चतुर्थाष्टमयोश्च स्थिताः पादा नेया दृष्ट्या पञ्चमनवमयोश्चार्धदृष्ट्या । तृतीयदशमयोश्च पाददृष्ट्या एक, द्वि, अष्टद्वादशे स्थितो न पश्यतीति, तन्नूल्यं गृहमध्येधर्लम्नमुदयं विलग्नकेन्द्रं त्रिकोणम् । शरीरमिति लम्रस्याख्या, धान्यकुटुम्बं च द्वितीयस्य, उपचयं घोषभ्रातृद्विशिक्ष्याख्यं तृतीयस्य, मित्रगृहं हिबुकं सुखवाहनकेन्द्रालाकास्याश्चतुर्थस्य, पुत्रत्रिकोणबुद्धिसंज्ञाः पञ्चमस्य, उपचयारिसंज्ञं षष्ठस्य, जायाजामित्रसप्तमार्द्धजवनशूनसंज्ञाः सप्तमस्य, छिद्रधुतेसंज्ञं चाष्टमस्य, धर्मत्रिकोणत्रित्रिकोणच्छिद्रसंज्ञा नवमस्य, कर्मकेन्द्रकाशमेशूपगोपचास्यापनया दशमस्य, उपचयायलाभशून्यख्या एकादशस्य, रिष्फ 'छून' सय्याख्या द्वादशस्येति ॥ सर्वैभ्यः केन्द्रसंज्ञेभ्यो द्वितीयः पणफरः सर्वस्मात्पणफरात द्वितीय आपोक्लिम इति ॥ आदित्यात्कान्तारांशेः द्वितीयो वेशि, द्वादशे वासि, उभये उभयचरी चन्द्रात् द्वितीयः सुनफा । द्वादशश्वानफा । उभयोरपि लम्रश्च स्वामिगुरुधुरागसंज्ञासमेतो अत्र सहस्ररश्मिरादित्यः नात्युच्चो न्योश्वापरिमण्डलः पैत्तिकोऽस्थिसारो रक्तश्यामः पापः पुरुषः क्षत्रियः कालात्मा राजा प्राग्द्वारो दक्षिणस्यां वा दिशि उदयने कृष्णपक्षे च बली ॥ चन्द्रमाः सङ्गलक्ष्मः तत्र वर्तुलाङ्गः दर्शनीयः स्वक्षः कफवातात्मा रुधिरसारः गौरः क्षीणः पापः पूर्णः सौम्यः स्त्रीग्रहः वैश्यः कालश्वासः राजा पूर्वोत्तरामिसुखः उत्तरस्यां दिशि रात्राबुदगयने शुक्लपक्षे च बलवानिति ॥ भौमो नवरश्मिः ह्रस्वः पिङ्गाक्षः कपिलः पैत्तिको मज्जासारो रक्तगौरः पापः पुरुषग्रहः क्षत्रियः कालस्य सत्वं सेनानीः दक्षिणाभिमुखो वक्रे दक्षिणस्यां दिशि कृष्णपक्षे रात्रौ च बलवानिति ॥ बुधोऽष्टरश्मिश्श्यामरूपः प्रमाणप्रकृतिः त्वक्सारः दूर्वाश्यामः सौम्यो न्यग्रोधसप्तमप्रकृतिर्भवति नपुंसकः शूद्रः कालस्य वाक् युवराजः उङ्मुखः उत्तरस्यां दिशि सर्वकालं वक्रे शुक्लपक्षे च बलवानिति ॥ सौरः सप्तरश्मिः कृष्णो दीर्घः वातप्रकृतिः पापा नपुंसकः कालस्य दुःखः प्रेष्यः पार्थिवाभिमुखः तस्यामेव दिशि रात्रौ वक्रे शुक्लपक्षे च बलवानिति॥ सर्वे च ग्रहाः स्वसंवत्सरे स्वायने स्वर्तौ स्वमासे स्वपक्षे स्वदिने स्वहोरायां स्ववर्गे बलवन्तो भवन्ति वर्गोत्तमस्थः स्वोच्चस्थः स्वत्रिकोणस्थश्च प्रहयुद्धे च जयो रश्मिवृद्धेश्च बलवान्भवति ॥ आदित्यस्य चन्द्रभौमार्कजीवा मित्राणि बुधस्समः शुक्रसौरौवरी ॥ चन्द्रस्य सूर्यबुधौ मित्रे शेषाः समाः ॥ भौमस्य जीवेन्दूष्णकराः सुहृदः, ज्ञोऽरिः, सितार्कजौ समौ ॥ बुधस्य सूर्यसिता मित्रे, हिमगुः शत्रुः, भौमजीवशनै
१ 'क्रान्तदाहाः' इति० क० पु० ।