भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 633, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 633

क्रूरो विषमः पुमान् आदित्यक्षेत्रं तत्रिकोणमिति ॥ कन्याराशिः कुमारी नौस्था दीपिकाहस्ता विचित्रवर्णा कालस्य कटिः ग्राम्यो दक्षिणद्वारः पूर्वस्यां दिशि बली स्थिरः शीर्षोदयः समः सौम्यः स्त्रीराशिः शुक्रस्य नीचः सप्तविंशतितमे भागे तस्यैवातिनीचो बुधस्योच्चस्तस्य पञ्चदशे भागेऽत्युच्चो बुधक्षेत्रं तत्रिकोणमिति ॥ तुला वणिक् पुरुषः तुलाधरापणवीथीगतः कृष्णवर्णः कालस्य¹ बस्तिस्थितो ग्राम्यः पश्चिमद्वारो द्विपा पूर्वस्यां दिशि बली चरः शीर्षोदयः क्रूरो विषमः पुरुषराशिः शुक्रक्षेत्रम् आदित्यनीचस्तस्यैव दशमे भागेऽतिनीचः शनैश्चरस्योच्चश्चोर्ध्वः तस्यैव विंशतितमे भागऽत्युच्चः तस्यैवातिनीचो भौमक्षेत्रमिति ॥ धन्वीनाम धनुर्धरः पुरुषो ह्यपश्विमार्धः पिङ्गलः कालस्योरू ग्राम्यः प्राग्द्वारः तस्य प्रागर्धो द्विपात्, द्वितीयमर्धं चतुष्पात तस्य प्रथममर्धं पूर्वस्यां दिशि, दिवाबली पश्चिमान्तमर्धं रात्रौ दक्षिणस्यां दिशि बलवान्, द्विस्वभावः पृष्ठोदयः क्रूरः पुमानन्वपो जीवक्षेत्रं तत्रिकोणमिति ॥ मकरो नाम मृगः पूर्वार्धो मकरः, पश्चार्धो मृगः, प्रागर्धेनारण्यो द्वितीयार्धेनाम्बुचरः ( कुबेरैः ) कालस्य जानुनी पूर्वार्धोध्वंचतुष्पात, पश्चार्धेन कीटो, दक्षिणद्वारः, ग्राम्येन रात्रौ दक्षिणस्यां दिशि बली पश्चिमांचन, सन्ध्यायां पश्चिमायां दिशि चरः, नीचं बृहस्पतेः तस्यैव पश्चिमे भागेऽतिनीचं, भौमस्योच्चस्तस्यै वाष्टाविंशतितमे भागेऽत्युच्चः, सौरक्षेत्रमिति ॥ कुम्भो नाम पुरुषः स्कन्धेन रिक्तकुम्भधरः पिङ्गलः कालस्य जंघे द्विपाद्राम्यः पश्चिमद्वारः पूर्वेण च दिवा बली शीर्षोदयः स्थिरः क्रूरः पुमान्विषमः शनैश्चरक्षेत्रं तत्रिकोणमिति ॥ मीनो नाम द्वौ मत्स्यावन्योन्यपुच्छाभिमुखौ मत्स्यवर्णो कालपादौ कीट उदीचः पश्चिमस्यां दिशि सन्ध्यायां बली पृष्ठपुच्छोदयो द्विस्वभावः सौम्यः समः स्त्रीराशिः बुधस्य नीचं तस्यैव बुधस्य पञ्चदशभागेऽतिनीचं शुक्रस्योचं तस्यैव सप्तविंशतितमे भागऽत्युचं जीवक्षेत्रमिति ॥ सर्वस्यैव राशेरर्धं होरा तत्र विषमराशिषु प्रथमा प्रथमा सौरी द्वितीया चान्द्री समराशिषु चान्द्री द्वितीया सौरी सर्वराशिषु द्रेष्काणत्रयम् । ते प्रथमपञ्चमनवमराशीनाथाः । प्राग्द्वाराणां राशीनां मेषाद्या नवांशकाः दक्षिणद्वाराणां मकराद्याः पश्चिमद्वाराणां तुलाद्याः उत्तरद्वाराणां कुलीराद्याः “सर्वादियौं नवांशको”वगोत्तमः कर्कटवृश्चिकमीनानां चर मांशा गण्डान्ताः॥“राशौ राशौ द्वाभ्यां द्वाभ्यां द्वादशद्वादशभागाः” । त्रिशांशकाः पञ्च भौमस्य, ततः पञ्च सौरस्य, ततोऽष्टौ जीवस्य, सप्त बुधस्य द्वौ भृगोर्विषमराशौ, समराशौ तु अष्टौ शुक्रस्य ततः सप्त बुधस्य ततोऽष्टौ जीवस्य पञ्च सौरस्य पञ्च भौमस्येति॥ एवं षट्पदार्थों लग्नः स स्वस्वा


¹ अत्र पुस्तकेऽपि त्रुटिरस्ति । २ बन्धान्तर्गतः पाठः खुपुस्तके नाति ।