विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 622, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२८०॥
द्वि० खं० अ० १६१
नामानि स्वयमुक्तानि वेधसा ॥ नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥ २७ ॥ रोहिण्याश्च शरीरं ते दैवतं तु जनार्दनः ॥ पिता पितामहो देवः स त्वं पालय सर्वदा ॥ २८ ॥ इति खड्गमन्त्रः ॥ पराशर उवाच ॥ वर्मप्रदस्तव समरे धर्मसैन्याय मानद ॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥ २९ ॥ इति वर्ममन्त्रः ॥ पराशर उवाच ॥ दुन्दुभे त्वं सपत्नानां घोषाद्धृदयकंपनः ॥ ३० ॥ तव भूमिसैन्यानां तथा विजयवर्धनः ॥ यथा जीमूतघोषेण हृष्यन्ति शरवारणाः ॥ तथा च तव शब्देन त्रस्यन्त्वस्मद्विषो रणे ॥ ३१ ॥ इति दुन्दुभिमंत्रः ॥ पराशर उवाच ॥ सर्वायुधमहामात्र सर्वदेवैरिसूदन ॥ चापस्त्वं सर्वदा रक्ष सार्क शर्वैः सदा ॥ ३२ ॥ इति चापमन्त्रः ॥ पुष्कर उवाच ॥ मंत्रांस्त्वैतेऽभिहिता नृवीर सम्मंत्रणे वैजयिका यथावत् ॥ एतैस्तु मंत्रैरभिमन्त्रितानां चलत्यमोघं बलमप्रधृष्यम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने मन्त्राध्यायवर्णनो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ १६० ॥ परशुराम उवाच ॥ शान्तिमाचक्ष्व मां देव घृतकम्बलेसंज्ञिताम् ॥ कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥ १ ॥ पुष्कर उवाच ॥ पूर्वोत्तरे तु दिग्भागे नगरान्सुमनोहरे ॥ प्रागुदक्प्रवणे देशे शान्त्यागारं तु कारयेत् ॥ २ ॥ तं तन्प्रत्यन्तविस्तीर्णं नानावस्त्राविभूषितम् ॥ पुनर्वसौ गते चन्द्रे तत्र यायान्निराधिपः ॥ ३ ॥ पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ ॥ अभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥ ४ ॥ देवाद्यस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् ॥ गन्धमण्डलकुर्वीतर्यथास्थानं पुरोहितः ॥ ५ ॥ आवाहनं ततः कुर्यात्तन्तालांस्तत्र च येऽपि ते ॥ देवादीनां तु सर्वेषां ब्राह्मणेः सहिता द्विज ॥६॥ आवाहितानां सर्वेषां गन्धमाल्यन्नान्नसम्पदा ॥ देवतूपूजनं कुर्यात्तया नृपपुरोहितौ ॥ ७ ॥ एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः ॥ स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥ ८ ॥ ततो नैर्ऋतं कर्म प्रदेशे तु पुरोहितः ॥ कृत्वा विभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥ ९ ॥ श्रुत्वा दशगुणानत्र स्नापयेतं नराधिपम् ॥ पूर्वमेव तथा स्नानं सिद्धांथैत्साधितं तथा ॥ १० ॥ पूर्णेन घृतकुम्बेन मन्त्रेणानेन कालवित् ॥ आज्यं तेजः समुद्दिष्टमाज्यं तेजोजहरं परम् ॥ ११ ॥ आज्यं सुराणामाहारमाज्ये लोकः प्रतिष्ठितः ॥ तेनान्तरिक्षं दिव्यं वा धत्ते कल्पभनाशनम् ॥ १२ ॥ सर्वं तदाज्यसंस्थशीतमणाशमुपागच्छतु ॥ ततो विरूक्षितं स्नातं स्नानेनंवरां नराधिपम् ॥ १३ ॥ गच्छेत्तं तु पुरस्कृत्य सांवत्सरपुरोहितौ ॥ स्नानवेदी तु कर्तव्या लाजाकुसुममण्डिता ॥ १४ ॥ चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता ॥ चत्वारि तस्याश्चर्माणि प्राग्रीवाणि समास्तरेत् ॥ १५ ॥ वृषस्य द्विपिनश्चैव सिंहशार्दूलयोस्तथा ॥ भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ॥ १६ ॥ स्वासीनं
॥२८७॥