विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 621, कुल 1001 में से
संदर्भ में पढ़ेंऋषिर्भगवान्पराशरः ॥ गालवाय पुरोवाच सर्वधर्मभृतां वरः ॥ २ ॥ पराशर उवाच ॥ यथाऽम्बुदश्छादयति शिवायेमां वसुन्धराम् ॥ तथाच्छा-
दय राजानं विजयारोग्यवृद्धये ॥ ३ ॥ इति च्छत्रमन्त्रः ॥ पराशर उवाच ॥ गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः ॥ ब्रह्मणः सत्यवाक्येन
सोमस्य वरुणस्य च ॥ ४ ॥ प्रभावञ्च हुताशस्य भवस्य त्वं तुरङ्गम ॥ तेजसा चैव सूर्यस्य सुनीत्या तपसां तथा ॥ ५ ॥ रुद्रस्य ब्रह्मचर्येण
पवनस्य बलेन च ॥ स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥ ६ ॥ यां गतिं ब्रह्महा गच्छेद्विप्रहा मातहा तथा ॥ भूम्यर्थेऽनृतवादी च क्षत्रि-
यश्च पराङ्मुखः ॥ ७ ॥ सूर्याचन्द्रमसौ वायुर्द्यावापृथ्व्यान्वितं जगत् ॥ व्रजेदेतां गतिं क्षिप्रं तद्य पापं भवेत्तव ॥ ८ ॥ विक्रीतिं यदि गच्छेत्त्वं
युद्धेऽध्वनि तुरङ्गम ॥ रिपून्विजित्य समरे सहभ्रा सुखी भव ॥ ९ ॥ इत्यश्वमन्त्रः ॥ पराशर उवाच ॥ शत्रुकेतो महाबीर सुपर्णस्तरसुताश्रितः ॥
पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ॥ १० ॥ काश्यपेयोऽमृतहर्ता नागारेर्विष्णूवाहनः ॥ अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ॥ ११ ॥
गरुत्मान्मारुतगतिः त्वयि सन्निहितः स्थितः ॥ साश्वम्बाणैयोधनांश्चाक्षकं महद्विपून् ॥ १२॥ इति ध्वजमन्त्रः ॥ पराशर उवाच ॥ कुमुदै-
रावणौ पद्मः पुष्पदन्तोथ वामनः ॥ सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः ॥ १३ ॥ तेषां पुत्राश्च पौत्राश्च घनात्यष्टौ समाश्रिताः ॥ भद्रो
मन्द्रो मृगश्चैव गजः संकीर्ण एव च ॥ १४ ॥ वनेवने प्रसूतास्ते स्मर योनिं महागजा ॥ पान्तु त्वां वसवो रुद्रा आदित्याः समारुद्गणाः ॥ १५ ॥
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ॥ अवाप्नुहि जयं युद्धे गमने स्वस्ति नो ब्रूअ ॥ १६ ॥ त्रास्ते सोमाहूतो विष्णूस्तेजः सूर्योऽथ्विनोडिन-
लात् ॥ स्थैर्य मेरोजयं रुद्राद्यशो देवात्पुरन्दरात् ॥ १७ ॥ युद्धे रक्षन्तु नागस्त्वां दिशश्च सह देवतैः ॥ अश्विन्यां सह गन्धर्वा पान्तु त्वां सर्वतः
सदा ॥ १८ ॥ इति हस्तिमंत्रः ॥ पराशर उवाच ॥ हुतभुग्भववो रुद्रा वायुः सोमो महर्षयः ॥ नागाकिन्नरगन्धर्वयक्षरक्षोगणग्रहाः ॥ १९ ॥
प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सहः ॥ शक्रस्सेनापतिः स्कन्दो वरुणाश्चाश्रितस्त्वयि ॥ २० ॥ प्रदहन्तु रिपन्सर्वानाज्ञा विजयमिच्छतु ॥
यानि प्रयुक्तान्यरिभिर्धृष्णानि समन्ततः ॥ २१ ॥ पतन्तुपरिश्रूणां हतानि तव तेजसा ॥ कालनेमिरिवेद्यद्वच्च त्रिपुरपातने ॥ २२ ॥ हिरण्य-
कशिपोर्यद्वद्ये च सर्वारेषु च ॥ शोभितासि तथैवाद्य शोमस्व समरं स्मर ॥ २३ ॥ नीलाऽञ्छितानिमान्दृष्ट्वा नश्यंत्याशु नृपारयः ॥ व्याधिभिर्वि-
विधेर्घोरैः शत्रैश्च युधि निर्जिताः ॥ २४ ॥ पूतना रेवती नाम्ना कालरात्रिति पठ्यते ॥ दहन्त्वाशु रिपन्सर्वान्नपताके त्वामुपाश्रिता ॥ २५ ॥ इति
पताकामन्त्रः ॥ पराशर उवाच ॥ असिविश्वसनः खड्गस्तीक्ष्णधारो दुरासदः ॥ श्रीगर्भो विजयश्चैव धर्माचारस्तथैव च ॥ २६ ॥ इत्यष्टौ तव