विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 625, कुल 1001 में से
संदर्भ में पढ़ेंरौप्यं तथा ताम्रं सर्वरत्नानि चाप्यथ ॥ २० ॥ ओषधानि च सर्वाङ्गं वचासिद्धार्थकं तथा ॥ नृवर्धमानं यानं च भद्रपीठं तथैव च ॥ २१ ॥ खङ्गं छत्रं पताकां च मृदमायुधमेव च ॥ राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ॥ २२ ॥ घृतं दधि पयश्चैव फलानि विविधानि च ॥ स्वस्तिकं वर्धमानं च नन्द्यावर्तं सकौस्तुभम् ॥२३॥ नद्यश्च चित्रविन्यस्ता मङ्गल्यान्यपराणि चा। अक्षताश्च तथा मुक्तास्तथा दर्पणमेव च ॥२४॥ अञ्जनं रोचनं चैव शृङ्गारो माक्षिकं तथा ॥ शङ्ख इक्षुस्तथा मत्स्या वाचश्चैव तथा शुभाः ॥ २५ ॥ वादित्राणां सुखः शब्दो गम्भीरश्च मनोहरः ॥ गान्धारषड्जऋषभा याने शस्तास्तथा स्वराः ॥ २६ ॥ वायुः सशर्करो रूक्षः स च दिग्भ्यः समर्थितः ॥ प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद्धि ज ॥ २७ ॥ अनुकूलो मृदुस्निग्धः सुखस्पर्शः सुवावहः ॥ ऋक्षा ऋक्षस्वराः खङ्गाः क्रव्यादाश्च विगर्हिताः ॥ २८ ॥ मेघाः शस्ता घनाः स्निग्धा गजबूंहितसन्निभाः ॥ अनुलोमा तडिच्छस्ता शक्रचापं तथैव च ॥ २९ ॥ अभ्रशस्ते तथाज्ञेये परिवेषाम्र वर्षेणे ॥ अनुलोमा ग्रहः शस्ता दिक्पतिस्तु विशेषतः ॥ ३० ॥ आस्तिक्यं श्रद्धानत्वं तथा पूज्यायिभूजनम् ॥ शस्तान्ये तानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥ ३१ ॥ मनस्तुष्टिरिवात्र परमं जयलक्षणम् ॥ एकतः सर्वलिङ्गानि मनस्तुष्टिरेककः ॥ ३२ ॥ यानोत्सुकत्वं मनसः प्रहर्षः सुखप्रलाभो मनसः प्रसादः ॥ माङ्गल्यलब्धिश्रवणं च राम ज्ञेयानि नित्यं विजयावहानि ॥ ३३ ॥ इति श्रीविष्णुध र्मोत्तरे द्वितीयखण्डे मा० सं० यात्राराकुनवर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ १६३ ॥ पुष्कर उवाच ॥ तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभम् ॥ निवेदयन्ति शकुना देशस्य नगरस्य च ॥१॥ पथि पान्थो नृपः सैन्ये मरीचोद्दिश्य देवताम् ॥ सार्थे प्रधानः साध्ये च जातिविद्याव योधिकः ॥ २ ॥ सर्वपापफलो दीप्तः शान्तः शुभफलो मतः ॥ षट्प्रकारा विनिर्दिष्टाः शकुनानां च दीप्तता ॥ ३ ॥ वेला दिक्देशकरणं स उ जातिविभेदकः ॥ पूर्वापूर्वा च विज्ञेया सा तेषां बलवत्तरा ॥ ४ ॥ दिवाचरो रात्रिवरस्तथा रात्रौ दिवाचरः ॥ क्रूरस्य वेलादोप्तस्य स्वलक्षणिन्य हादिषु ॥ ५ ॥ धूमितासा तु विज्ञेया यां गमिष्यति भास्करः ॥ यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ॥ ६ ॥ एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथा पराः ॥ दीप्तायां दिशि दिग्दीप्तः शकुनः परिकीर्तितः ॥ ७ ॥ ग्राम्ये वन्यो वने ग्राम्यस्तथा निन्दितपादपे ॥ देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तम ॥ ८ ॥ क्रियादीप्तो विनिर्दिष्टः स्वजात्यानुचितक्रियः ॥ ततो दीप्तश्च कथितो भिन्नभैरवनिःस्वनः ॥ ९ ॥
१ 'नियमान्मनम्' इति ख० । २ 'अङ्गुताश्च' इति ख० । ३ 'मृगारो' इति ख० । ४ 'सर्वादिन्याः समुद्यिताः' इत्यपि पाठः। ५ 'मूक्षा' इति ख० । ६ 'क्रवदन्तराः' इति ख० । ७ 'सुखलाभी' इति ख० । ४९