विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 649, कुल 1001 में से
संदर्भ में पढ़ेंहलायुधम् ॥ उत्तारणं वणिज्यार्थी श्रीराममभ्युदये नृप ॥ १२ ॥ मङ्गल्यं मङ्गले विष्णुममङ्गल्येषु कीर्तयेत् ॥ अरिष्टान्तेषु शेषेषु विशेषेषु तथा जपेत् ॥ १३ ॥ उत्तिष्ठन् कीर्तयेद्विष्णुं प्रसुप्तो माधवं नरः ॥ भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥ १४ ॥ नारायणं सर्वकाले श्रुतप्रस्खलनादिषु ॥ स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे ॥ १५ ॥ कीर्तयेद्वासुदेवोति अनुक्तेष्वपि यादव ॥ कार्य्यारम्भेष्वथ वा राजन्सर्व्वं नाम कीर्तयेत् ॥ १६ ॥ सर्वाणि नामानि हि तस्य राजन्सर्व्वार्थसिद्धानि भवन्ति पुंसः ॥ तस्माद्यत्नं खलु देवनाम सर्वेषु कार्येषु जपेत् भक्त्या ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कार्य्यप्राप्तितत्तन्नामकीर्त्तनवर्णनो नाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ १२३ ॥
वज्र उवाच ॥ कस्मिन्काले तु देवस्य किंकिं नाम प्रकीर्तयेत् ॥ एतन्मे संशयं छिन्धि त्वं हि सर्व विजानसे ॥ १ ॥
मार्कण्डेय उवाच ॥ प्रद्युम्नं वामदेवं च तथा सङ्कर्षणं प्रभुम् ॥ प्रद्युम्नमनिरुद्धं च क्रमाच्चतुर्दिक्षु वर्जयेत् ॥ २॥ विष्णुं मधुनिहन्तारं तथा देवं त्रिविक्रमम् ॥ वामनं श्रीधरं चैव हृषीकेशं तथैव चा॥दामोदरं पञ्चानां केशवं च यदूतमानांनारायणं माधवं च गोविन्दं च तथा क्रमात् ॥४॥चैत्रादिषु तु मासेषु देवदेवमनुस्मरेत् ॥प्रद्युम्नमनिरुद्धं च पक्षयोः शुक्लकृष्णयोः॥५॥सर्वः शर्वः शिवः स्थाणुर्भूतानां निधिरव्ययः॥आदित्यादिषु वारेषु क्रमाद्देवमनुस्मरेत् ॥ ६ ॥ विश्वं विष्णुर्र्वषट्कारो भूतभव्यभवः प्रभुः॥ भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः॥७॥अव्यय्यः पुंडरीकाक्षो विश्वकर्मा शुचिश्रवाः॥ सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ८ ॥ अप्रमेयो हृषीकेशः पञ्चनामः परः प्रभुः ॥ अमेयः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत्॥९॥ देवदेवस्य नामानि कृत्तिकादिषु यादव ॥ ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ॥ १० ॥ दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥ मूधरं गादिनं चैव शिखिनं पद्मिनं तथा ॥ ११ ॥ चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥ सर्वं वा सर्वदा राम देवदेवस्य यादव ॥ १२ ॥ नामानि सर्वाणि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीर ॥ तस्मात्सदा सर्वगतस्य नाम ग्राह्यं यथेष्टं वदतो राजन् ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कालनामाख्यानो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥
वज्र उवाच ॥ कस्मिन्क्षेत्रे तु देवस्य किंकिं नाम प्रकीर्तयेत् ॥ एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ॥ १ ॥
मार्कण्डेय उवाच ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥ वासुदेवस्य संवादमर्जुनस्य च यादव ॥ २ ॥ वृते भारतसंग्रामे राज्यं प्राप्ते युधिष्ठिरे॥ अस्मिन्नेव समारम्भे विजहाते यथासुखम् ॥३॥ वासुदेवार्जुनौ वीरौ लक्षीकृतवसुन्धरौ ॥ ततः कथान्ते कास्मश्चित्कृष्णं पप्रच्छ फाल्गुनः ॥ ४ ॥
अर्जुन उवाच ॥ क्षेत्रेषु येषुयेषु त्वं कीर्त्त-