भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 648, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 648

महाभुज ॥ ४७ ॥ ताभ्यामुपचयर्क्षे तु यात्रा शस्ता तथा भवेत् ॥ शेषेषु वर्जयेद्यात्रां मृतिकामो नराधिपः ॥ ४८ ॥ यात्रा शुभफला
ज्ञेया सौम्यहृन्नवांशके ॥ पापग्रहांशके यात्रां प्रयत्नेन विवर्जयेत् ॥ ४९ ॥ जन्मभे नैधने चैव तथाद्याने विपत्करे ॥ प्रत्यरे गमने यात्रां
प्रयत्नेन विवर्जयेत् ॥ ५० ॥ क्षेमे संपत्करे मैत्रे साधके चातिमैत्रके ॥ कर्मभे च तथा यात्रा प्रशस्ता मनुजोत्तम ॥ ५१ ॥ दिव्यान्तरिक्षक्षिति
जे दृष्टे राम महाद्भुते ॥ सप्ताहं वर्जयेद्यात्रां प्रयत्नेन महाभुज ॥ ५२ ॥ लग्ने तु विबले यात्रां शून्ये केन्द्रे च वर्जयेत् ॥ जन्मपे लग्नपे राम
बलहीने विशेषतः ॥ ५३ ॥ दिक्पतावपुकूले तु शुभा यात्रा प्रकीर्त्तिता ॥ सम्मुखे शुक्रचापे तु यात्रां यत्नेन वर्जयेत् ॥ ५४ ॥ निक्षिण
न च गच्छेतथा राम द्वारामिहतमस्तकः ॥ दृष्ट्वा द्रव्यममङ्गल्यं स्त्रियंचैवातथैव च ॥ तुष्टे मनसि गन्तव्यं प्रयत्नतेन महीभुजा ॥ ५५ ॥ त्रिकोण
केन्द्रोपगतास्तु सौम्याः पापस्तथा चोपचयक्षंसंस्थाः ॥ भवन्ति लग्नस्य तु यस्य तेन यात्रा प्रयुक्ता तु शुभावहा स्यात् ॥ ५६ ॥
इति श्रीविष्णु० द्वि० मा० सं० रामं प्रति पुष्करोपाख्याने ज्योतिःशास्त्रमते यात्राधिकारो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥
॥ राम उवाच ॥ यात्राविधानमाचक्ष्व सर्वभूतभृतांवर ॥ जिगीषूणां नरेन्द्राणां सिद्धिकारणमुत्तमम् ॥ १ ॥ पुष्कर उवाच ॥ सप्ताहेन
यदा यात्रा भविष्यति महीपतेः ॥ तदा दिने तु प्रथमे पूजनीयो विनायकः ॥ २ ॥ मोदकै रक्तसंदेश्श्च कुसुमैश्च तथा फलैः ॥ गन्धधूपैर्विलिप्तङ्गा
रैर्धूपैर्दीपेर्मनोहरैः ॥ ३ ॥ द्वितीयेशिदि ततः कार्यं सर्वदिक्पालपूजनम् ॥ दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ॥ ४ ॥ शय्यां कुशाभिः
कुर्वीत सितवस्त्रोत्तरच्छदाम् ॥ विकीर्णांशुभपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ॥ ५ ॥ तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः ॥ ह्यं दक्ष
णपार्श्वे तु वामे ब्रह्माणमेव च ॥ ६ ॥ पूजितं कलशं ह्यं कुर्यादूर्णीष्वके दृढम् ॥ नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ॥ ७ ॥ एककालं
हविश्यान्नं लघु भुक्ता महीपतिः ॥ स्वयं दक्षिणापार्श्वे च मन्त्रमेतदुदीरयेत् ॥ ८ ॥ नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ॥ वामनाय विरूपाय
स्वप्नाधिपतये नमः ॥९॥ भगवन्देवदेवेश शूलभृद्वृषवाहन ॥ इशानिष्टं समाचक्ष्व स्वप्ने सुतस्य शाश्वतम्॥१०॥ यज्जामतो दूरमिति मन्त्रमार्थवतं
जेत्तः ॥ हृदि न्यस्य कुशान्प्राज्ञः प्रयतस्तु पुरोहितः ॥११॥ ततः स्वप्ने शुभे दृष्टे यात्रा देया तु नान्यथा ॥ तृतीयेऽहनि संप्राप्ते देवं दिङ्नाथमर्च
येता॥ १२॥ एकामेव महाभाग दिननाथं तथा ग्रहम् ॥ यां दिशं नृपतिर्गच्छेन्नायं तत्यास्तथैव ताम्॥ १३॥ चतुर्थेऽहनि संप्राप्ते ग्रहयागो विधीयते॥
पञ्चमेऽहनि संप्राप्ते सर्वयागांस्तथैव च ॥ देवतानां स्वनगरे कृता वासां तथालयाः ॥१४॥ तासां संपूर्जनं कार्यं स्वपूरे ये तथा स्थिताः ॥ तत्रैव