विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 647, कुल 1001 में से
संदर्भ में पढ़ेंकृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः॥ मैत्राद्याः पश्चिमेनाथ वासवाद्यानि वायुदृक् ॥ २२ ॥ सर्वद्वाराणि तत्रापि दिवाद्यानि विनिर्दिशेत् ॥ भवन्ति स्तम्भसंज्ञानि तानि दिङ्मध्यगानि च ॥ २३ ॥ स्तम्भर्क्षाणि पूर्वांणि तानि प्रावेशिकानि तु ॥ निर्गमर्क्षाणि जानीयात्तस्तम्भाद्बहिस्त- राणि तु॥२४॥ प्रवेशेषु दुष्टेषु यायिनां विजयं वदेत् ॥ स्तम्भभेषु तु दुष्टेषु दुर्गाणां ग्रहणे तदा ॥२५॥ निर्गमर्क्षेषु दुष्टेषु नागराणां जयं वदेत् ॥ ऋक्षे पापग्रहाक्रान्ते तथा चास्तमिते द्विज ॥ २६ ॥ दृग्धे च धूमिते वापि रजसोपहतेऽथ वा ॥ केतुना धूमिते वापि परिविष्टेऽथ वा पुनः ॥ ॥ २७ ॥ उत्पातदर्शने च स्यात्तैनं चक्षण भार्गव ॥ संक्रान्तौ वा ग्रहस्य स्याद्दिनं चास्तोदयी तथा ॥ २८ ॥ मित्रऋन्द्दसवा यश्च ग्रहणेनान्येन वा पुनः ॥ यन्नक्षत्रगतो ग्रस्तो स्यातां वा शशिभास्करौ ॥ २९ ॥ न तेन नृपतियार्यान्नक्षत्रण कदाचन ॥ अष्टवर्गानुकूलस्य चन्द्रे यात्रां प्रयोजयेत् ॥ ३० ॥ पूर्वद्वारस्थितानन्दा भद्रा दक्षिणतः स्थिता ॥ जया च पश्चिमद्वारा रिक्ता चोदक्प्रकीर्तिता ॥ ३१ ॥ पूर्णा तु सर्वतो द्वारा तिथिरुक्ता महाभुज ॥ नक्षत्रदेवतातुल्या मुहूर्तानां तु दिग्भवेत् ॥ ३२ ॥ त्रिद्विद्वाराग्निभिर्ज्ञेया दक्षिणेन विगर्हिता ॥ प्राग्द्वाराः कथिता राम मेषसिंहधनुर्धराः ॥ ३३ ॥ तथा च पश्चिमद्वाराः कन्यामकरगोवृषाः ॥ तुलामकरकुम्भाश्च ज्ञेयाः पश्चिमदिक्सुखाः ॥ ३४ ॥ कोटवृश्चि- कर्मीनाश्च तथा चोदक्प्रकीर्तिताः ॥ लग्नेन दिङ्मुखं यत्नाज्ज्ञेयं प्राङ्मुखमंशकम् ॥ ३५ ॥ सौराः सर्वे प्रशस्यन्ते कालोघे विवर्जयेत् ॥ विशाखार्धं भत्रितयं दीने सूर्ये विवर्जयेत् ॥ ३६ ॥ आषाढात्रितयं चन्द्रे तथा ब्राह्मणसंज्ञकम् ॥ धनिष्ठाद्यत्रयं भौमे पौष्णादित्रितयं बुधे ॥ ३७ ॥ रोहिण्यार्धं तथा जीवे पुष्यार्धं च तथा सिते ॥ अर्यमण्यार्धं तथा सौरे प्रयत्नेन महाभुज ॥ ३८ ॥ मूले च श्रवणं चैव आहि- र्बुध्न्यं तथैव च ॥ अश्लेषामथ चादित्यं भाग्यं वायव्यमेव वा ॥ ३९ ॥ आदित्यादिदिनेष्वेते सिद्धियोगाः प्रकीर्तिताः ॥ सिद्धियोगान्वि- शेषेण तिथिष्वपि निबोध मे ॥ ४० ॥ अहक्रमेण धर्मज्ञ सर्वकर्मसु सिद्धिदान् ॥ द्वितीया च तृतीया च प्रतिपञ्चाष्टमी तथा ॥ ४१ ॥ सप्तमी च चतुर्थी च पञ्चमी च तथा तिथिः ॥ अन्याश्च सिद्धियोगांस्तु तिथयस्त्वं शृणु क्रमात् ॥ ४२ ॥ एकादशी च दशमी नवमी पञ्चम्यपि ॥ चतुर्दशी द्वादशी च तथा राम त्रयोदशी ॥ ४३ ॥ छायाप्रमाणं वक्ष्यामि सिद्धियोगेष्वतः क्रमात् ॥ तत्र काले कृतं कर्म सकृत्संपद्यते ध्रुवम् ॥ ४४ ॥ आदित्ये विंशतिर्ज्ञेयाश्चन्द्रे षोडश कीर्तिताः ॥ भौमे पञ्चदशोक्ताश्चतुर्दश तथा बुधे ॥ ४५ ॥ त्रयोदश तथा जीवे शुक्रे द्वादश कीर्तिताः ॥ उदितेनोत्तरां गच्छेत्प्राचीं मध्यस्थिते रवौ ॥ ४६ ॥ दक्षिणामपराह्ने तु अर्धरात्रे तु पश्चिमाम् ॥ जन्मराश्युदये यात्रा न प्रशस्ता