विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 646, कुल 1001 में से
संदर्भ में पढ़ेंवि० पु० द्वि० खं० अ० १७५ ॥२९१॥
पदम् ॥ सम्यग्गृह्णाति ज्ञात्वा पात्रतां याति वै द्विजः॥ न चेद् वृत्तिं तथा कुर्यात्तथा वृत्तिं विवर्जयेत्॥ पात्राणामपि तत्पात्रं ग्रहणं वेत्ति यो गतिम्॥
वेदास्तु यज्ञाद्यर्थमभिप्रवृत्ताः कालातुपूर्व्या विहिताश्च यज्ञाः ॥ तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद सर्वम् ॥ इति श्रीवि०
ध० द्वि० ख० मा० सं० पितामहसिद्धान्तो नाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥ ॥ छ ॥ समाप्तं पितामहसिद्धान्तम् । श्रीपुष्कर
राम उवाच ॥ भगवन्त्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ जिगीषूणां समाचक्ष्व यात्राकालं महीक्षिताम् ॥ १ ॥ पुष्कर उवाच ॥ सर्वेषामेव वर्णानां
यात्राकालं निबोध मे ॥ अधिकृत्य महीनाथं विजिगीषुर्गुणान्वितम् ॥ २ ॥ पूर्वे कपाले पौरौऽर्के यायी भवति चापरे ॥ यायिग्रहो ऽक्रूरकुजो
शेषाः पौराः प्रकीर्तिताः ॥ ३ ॥ पौरग्रहैर्बलोपेतैर्न यात्रां सम्प्रयोजयेत् ॥ यायिग्रहबले राजा नित्यं यात्रां प्रयोजयेत् ॥ ४ ॥ (अस्तं गते
नीचगते विवर्श रिपुराशिगे ॥ प्रतिलोमे च विद्धस्ते शुक्रे यात्रां विवर्जयेत् ॥ ५ ॥ ) प्रतिलोमे बुधे यात्रा दिक्पतौ च तथा ग्रहे ॥ विष्टौ वृष्ट्यां
वाति वाते वात्यायाञ्च विवर्जयेत् ॥ ६ ॥ वैधृते च व्यतीपाते नागे च शकुनौ तथा ॥ चतुष्पदे च किंस्तुघ्ने तथा यात्रां विवर्जयेत् ॥
॥ ७ ॥ विप्लुते नैधने च प्रत्यरौ मे च जन्मनि ॥ गणे विवर्जयेद्यात्रां रिक्तायां च तिथौवापि ॥ ८ ॥ उदीची
च तथा प्राची तयोर्व्यर्थं प्रकीर्तितम् ॥ पश्चिमा दक्षिणा या दिक्नयोर्व्यर्थं तथैव च ॥ ९ ॥ वाय्वग्निरक्षसमुद्भूतं परिवेषन्तु न लंघयेत् ॥
राम संवत्सराद्येषु सर्वेष्वेव महीपतिः ॥ १० ॥ संवत्सरप्रदिग्ज्ञाची परिपूर्वेस्य दक्षिणा ॥ तत्पूर्वंस्थापरा ज्ञेया चाळुपूर्वस्य दक्षिणा
॥ ११ ॥ अद्वारस्तु विनिर्दिष्टस्तथा वत्ससंज्ञितः ॥ उत्तरायणगे सूर्ये प्राचीं यायाद्दिशं नृपः ॥ १२ ॥ चन्द्रे च ब्राह्मणश्रेष्ठ
पश्चिमां दक्षिणस्त्विते ॥ तयोरयनभेदेन यायात्सायनरायं दिवा ॥ १३ ॥ रात्रौ चान्द्रायणं यायाद्या दिगुक्ता मया तव ॥ वसन्त
उत्तरद्वारे ग्रीष्मः प्राग्द्वारिकस्तथा ॥ १४ ॥ शरच्च पश्चिमद्वारः शिशिरश्चोत्तरसुखः ॥ हेमन्तः सर्वतोद्वारः प्रावृडद्वारिका स्मृता ॥ १५ ॥
नक्षत्रदेवताभिर्या यस्य तु दिग्दृच्यते ॥ मासांश्चैत्य महाभाग तथैव परिकीर्तिता ॥ १६ ॥ आदित्यचन्द्रसंसर्गादर्कदिवसास्त न शोभनाः ॥ त एव
चानुकूलस्य दिवसो न प्रशस्यते ॥ १७ ॥ प्राग्द्वारे भास्करो ज्ञेयो दक्षिणेन तथा कुजः ॥ पश्चिमेन शनैश्चारी उद्गद्वारस्तु चन्द्रमाः ॥ १८ ॥
सर्वद्वाराः स्मृता राम जीवशुक्रैन्दुन्दनाः ॥ तेषां हि दिवसाः शस्ता विशेषेण गमिष्यताम् ॥ १९॥ समागमे जितो यस्तु जीवो मित्रगृहे स्थितः॥
स्फुरणो रश्मिहीनश्च न प्रशंसन्ति तद्दिनम् ॥२०॥ उच्चस्थो मित्रगृहगः स्वक्षेत्रस्थश्च यो ग्रहः ॥ विजयी रश्मिवांस्थूलो दिनं तस्य प्रशस्यते॥२१॥