विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 655, कुल 1001 में से
संदर्भ में पढ़ेंत्रैविक्रमं व्रतम् ॥ ९॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ विमानेनानर्कवर्णेन किङ्किणीजालमालिना ॥ १० ॥ देवराजगणाढ्येन वीणासुर- जनादिना ॥ अन्नमायुः सुताश्चैव प्रसन्ने गरुडध्वजे ॥ ११ ॥ आक्रान्तलोकत्रितयस्य तस्य पदत्रयं धर्मभृतां वरिष्ठ ॥ संपूज्य कामान्मनुजा लभन्ते गतिं यथेष्टां पुरुषप्रवीर ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे द्वितीयत्रिविक्रमव्रतकथनो नाम चतुस्त्रिंशदुत्तराशततमोऽ- ध्यायः ॥ १३४ ॥ मार्कण्डेय उवाच ॥ शृणुष्वैकमना राजंस्ते महाभाग तव त्रैविक्रमं व्रतम् ॥ तृतीयं नृपशार्दूल तन्मे निगदतः शृणु ॥ १ ॥ ज्येष्ठे शुक्लद्वितीयायां नरः संयम्युपोषितः ॥ सुवस्त्रसंमृजनं कुर्याद्धूपमाल्यानुलेपनैः ॥ २ ॥ दीपैर्नैवेद्यैश्च विविधैर्दद्याद्दिक्षु दक्षिणाम् ॥ बीजपूर्णानि पात्राणि सर्पिष्याणि शक्तिः ॥ ३ ॥ पूजेवमन्तरिक्षस्य ह्यषाढे तु विधीयते ॥ दक्षिणा तत्र दातव्या वासोयुग्मं द्विजातये ॥ ४ ॥ दिवः पूजा च कर्तव्या श्रावणे प्राग्वदेव तु ॥ छत्रं सोपानहौ युग्मं दक्षिणां तत्र दापयेत् ॥ ५ ॥ एवं मासत्रयेणैव पारणं प्रथमं भवेत् ॥ मासत्रयेण चान्यत्तु मासत्रयं पुनस्ततः ॥ ६ ॥ ततो मासत्रयेणान्यदेनमब्देन चानघ ॥ विज्ञेयं धर्मनित्यस्य पारणानां चतुष्टयम् ॥ ७ ॥ प्रथमं पारणं कृत्वा अग्निष्टोमफलं लभेत् ॥ अतिरात्रफलं राजन्द्वितीये पारणे तथा ॥ ८ ॥ तृतीये पारणे विद्वान्वाजपेयफलं लभेत् ॥ चतुर्थे पारणे प्रोक्तं राजसूयस्य यत्फलम् ॥ ९ ॥ विमानेनानर्कवर्णेन किङ्किणीजालमालिना ॥ हंसयुक्तेन दिव्येन वीणामुरजनादिना ॥ १० ॥ वराप्सरोगणाढ्येन कामुकेनापि चारुणा ॥ यथेष्टगामी भवति बहुकालमसंशयम् ॥ ११ ॥ मानुष्ये जन्म चासाद्य त्रिशुक्लत्वमवाप्नुयात् ॥ विद्या जन्म तथा कर्म नात्र कार्या विचारणा ॥ १२ ॥ त्रिविक्रमस्याप्रतिमस्य तस्य चराचरेशस्य पदत्रयं च ॥ यः पूजयेत्तस्य भवन्ति कामाः सर्वे समृद्धा न हि संशयोऽत्र ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तृतीयत्रिविक्रमव्रतवर्णनो नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः ॥ १३५ ॥ मार्कण्डेय उवाच ॥ आराधनं हि देवस्य तस्य वक्ष्यामि यादव ॥ विष्णोरमितवीर्यस्य तन्निबोध नराधिप ॥ १ ॥ वाय्वर्क- चन्द्रदृक्हस्ते त्रिद्युतिर्भगवान्हरिः ॥ अग्निर्होमो जगत्पद्मिश्चश्वन्द्रार्कौ परिकीर्तितौ ॥ २ ॥ सर्वाधारश्च भगवान्वायुः सर्वगतस्तथा ॥ पद्मं भूतात्मकं सर्वं जगदेतच्चराचरम् ॥ ३ ॥ आधारभूतो ह्यवितौ पृथिवी गगनं तथा ॥ आधेयो विद्धि धर्मज्ञ तथा भूतत्रयं सदा ॥ ४ ॥ चन्द्रादित्यौ च वायुश्च सर्वस्य जगतो द्विज ॥ आधारोथभवावेन भूतेर्वृतमिदं जगत् ॥ ५ ॥ नैव चास्ति जगत्त्यस्मिन्किञ्चिद्भूतविवर्जितम् ॥ तस्माद्वा यादवश्रेष्ठ भूतेर्वृतमिदं जगत् ॥ ब्रह्माणं विद्धि भूमिं च गगनं तदनन्तरम् ॥ अण्डस्यान्तः स्थिता देवा वाय्वर्कद्युतिनांशवः ॥ ६ ॥