विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 656, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥३८०॥
तृ० खं० अ० १३७
॥३८०॥
पालयन्ति जगत्सर्वं सदेवासुरमानुषम् ॥ तथैवाण्डस्थिताः सर्वे पालयन्ति जगत्त्रयम् ॥ ७ ॥ तथैव देहिनां देहे पालयन्ति शरीरगाः ॥ वातपित्त- कफत्वेन वाय्वर्कशशिरंशवः ॥ ८ ॥ आधारं जगतो यद्वद् ब्रह्माण्डं परिकीर्तितम् ॥ तथा देहे शरीरस्था देहिनां हि त्वगुच्यते ॥ ९ ॥ ब्रह्माण्डे देहिदेहेऽपि गगने दृश्यते दृशोः ॥ ब्रह्माण्डवच्छरीराणि वाय्वर्कशशिरंशवः ॥ १० ॥ पालयन्ति महीपाल वातपित्तकफांशकाः ॥ वाय्वर्कचन्द्र- देहेस्तु तस्माद्विष्णुरितिस्थितः ॥ ११ ॥ तस्य संपूजनं कार्यं यथावच्छृणु भार्गव ॥ ज्येष्ठशुक्लद्वितीयायां निराहारो नरः शुचिः ॥ १२ ॥ त्रिमूर्तिपूजनं कुर्याद्द्वितीयायां यथाविधि ॥ कूपनद्योस्तडाकाद्यैर्मिश्रैः स्नातः शुचिर्जलैः ॥ १३ ॥ प्रत्यूषे पूजयेद्ब्रह्मन्नवलिप्ते शुभे स्थले ॥ गन्ध- माल्यनमस्कारधूपदीपान्नरंसंपदा ॥ १४ ॥ होमं कुर्याद्यवैर्युक्तैस्तिलैश्च दध्याज्यजातये ॥ मध्याह्ने पूजयेद्वह्नौ तथा सूर्यमतन्द्रितः ॥ १५ ॥ तिलांश्च जुहुयाद्वह्नौ दद्याद्विप्रेषु दक्षिणाम् ॥ सूर्यास्तमनवेलायां जले चन्द्रं च पूजयेत् ॥ १६ ॥ घृतेन होमं कुर्वीत रजतं दक्षिणा स्मृता ॥ नक्तं भुञ्जीत धर्मज्ञ तैलहीनं ततो नरः ॥ १७ ॥ पूर्णं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः ॥ स्वर्गलोकमवाप्नोति सहस्रपरिवत्सरान् ॥ १८ ॥ मातृव्यथ्यमासाद्य ततो राजा भवति गद्गरे ॥ व्रतं कृत्वा महाराज पूर्ण संवत्सरत्रयम् ॥ १९ ॥ पञ्चषष्टिसहस्राणि स्वर्गलोके महीयते ॥ मातृभ्यं च समासाद्य राजा भवति धार्मिकः ॥ २० ॥ वीरो माण्डलिकः शूरः परचक्रभयंकरः ॥ निरोगो दर्शनीयश्च सुभगो जनवल्लभः ॥ २१ ॥ कृत्वा द्वादशवर्षाणि व्रतमेतदनुत्तमम् ॥ व्रतावसाने विप्राणां सहस्रं भोजयेत्ततः ॥ २२ ॥ भोज्यं त्रिभक्ष्यं पेयं दद्याच्छक्त्या च दक्षिणाम् ॥ ततः स्वर्गमवाप्नोति वर्षाणां च शतं व्रती ॥ २३ ॥ ततो मातृव्यथ्यमासाद्य राजा भवति पार्थिवः ॥ प्रदीप्तचक्रो बलवान्धर्मराजो जनाप्रियः ॥ २४ ॥ जन्मान्तरं समासाद्य ततो विप्रत्वमाप्नुयात् ॥ ततो ब्राह्मण्यमासाद्य मोक्षोपायं च विन्दति ॥ २५ ॥ आराधनं ते कथितं मयैतद्विष्णोस्त्रिदेवस्य महाणु- भाव ॥ आराधितो येन जगत्प्रधान कामानभीष्टान्विबुधोपददाति ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुत्रि- मूर्तित्रतवर्णनो नाम षड्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥ ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि विष्णोर्मूतिकथं तव ॥ द्विधा तु देवदेवस्य मूर्तिर्भवति यादव ॥ १ ॥ घोरा चान्या शिवा चान्या घोरा भवति पावकः ॥ शिवा चाप्सुपतिस्तस्माद्गगोर्णामात्मकं जगत् ॥ २ ॥ द्विधा घोरा विनिर्दिष्टा द्विधा सौम्या ततः पुनः ॥ घोरा वह्निश्च सूर्यश्च सौम्या सोमजलाधियो ॥ ३ ॥ तेषां च पूजनं कार्यं प्रतिवत्स्रमिति क्रमात् ॥ शुक्लपाक्षादारभ्य फाल्गुनस्य द्विजोत्तम ॥४॥आदित्यं पूजयेद्राजा प्रथमेऽह्नि परः शुचिः ॥ द्वितीयेऽह्नि तथा वह्निं तृतीयेऽह्नि जला-