भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 660, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 660

वि० ध० तृ० खं० अ० १४७

मान ॥ धेनुं दत्त्वा च विप्राय नाकपृष्ठे महीयते ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ५॥ मानुष्यमासाद्य महीपतिः स्यादृक्त्वा महीं सागरमेखलान्ताम् ॥ तत्रापि धर्मस्य पतिर्निविष्टो भवत्यरोगश्च बलेन युक्तः ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुचतुर्मूर्तिकल्पे सागरव्रतवर्णनो नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४५॥ मार्कण्डेय उवाच ॥ इदमन्वन्त्यवक्ष्यामि चतुर्मूर्तित्रतं तव ॥ वासुदेवस्य गरुडस्तालः सङ्कर्षणस्य च ॥१॥ प्रद्युम्नस्य तथा चित्रं मकरो व्यादिताननः। देवोऽनिरुद्धो धर्मज्ञ ऋष्यकेतः प्रकीर्तितः॥२॥पीतं नीलं तथा श्वेतं रक्तं च यदुनन्दना॥तेषां तु कथितं वासः पताका तादृगीष्यते॥ शय्यस्य यद्विधं त चात्मा नाम कीर्तितः ॥ पताका यादृशी यस्य वसनं तस्य तादृशम् ॥ ४ ॥ चैत्रे तु प्रत्यहं मासि गरुडं पूजयेन्नरः ॥ पीतेन गंधेनैवेद्यमाल्यवस्त्रादिना द्विजः॥५॥वैशाखे च तथा मासि तालं संपूजयेत्सदा ॥ नीलेन गंधेनैवेद्यमाल्यवस्त्रादिना द्विजः॥६॥क्रूञ्चं संपूजयेद्देवं मास्याषाढे यथाविधि ॥रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विजः॥७॥अधः बहिः स्नानं तथा कुर्याद्विसंपूजनं ततः ॥ नित्यं च कुर्याद्धर्मिज्ञ तथा ब्राह्मणतर्पणम् ॥ ८ ॥ प्राणयात्रा तथा कुर्याद्भक्तं तैलविवर्जितम् ॥ अधःशायी तथा च स्याद् ब्रह्मचारी तथा भवेत् ॥ ९ ॥ व्रतमतेत्था कुर्यान्नित्यं मासचतुष्टयम् ॥ ब्राह्मणान्पूजयेच्छक्त्या चाषाढचरमेऽहनि ॥ १० ॥ वस्त्रान्नयोषिनि धर्मज्ञ दद्याद्विप्रेषु दक्षिणाम् ॥ कृत्वैकं पारणं राजन्स्वर्गलोके महीयते ॥ ११ ॥ द्वितीयं पारणं कृत्वा शक्रलोके महीयते ॥ तृतीयं पारणं कृत्वा ब्रह्मलोके महीयते ॥ १२ ॥ कृत्वा पारणषटकं तु रुद्रलोके महीयते ॥ विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम् ॥ १३ ॥ ध्वजव्रतं द्वादशवत्सराणि कृत्वा नरो भार्गववंशमुख्य ॥ सायुज्यमायाति जनार्दनस्य देवस्य विष्णोः परमेश्वरस्य ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे ध्वजब्रतवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६ ॥ मार्कण्डेय उवाच ॥ इदमन्वत्यवक्ष्यामि चतुर्मूर्तित्रतं तव ॥ ईशानं च तथा वह्निं विरूपाक्षं समीरणम् ॥ १॥ विक्षेयं यदुशार्दूल देवमूर्तिचतुष्टयम् ॥ तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ॥ २ ॥ गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥ चैत्रशुक्ले महाभागं प्रतिपत्प्रभृति क्रमात् ॥ ३ ॥ भोजनाद्येताडात्कार्यैः स्नानमाचरेत् ॥ दध्ना तिलैर्यवैर्व्योमै घृतेन च तथा भवेत् ॥ ४ ॥ कर्पूरकुङ्कुमं चैव तथैवागुरुचंदने ॥ ब्राह्मणेषु प्रदातव्यं तथा राजन्दिने क्रमात् ॥ ५ ॥ दिनत्रयं तथारशनीयात्पालाशपात्रयाचितम् ॥ दिनमेकं तथाश्नीयाद्ब्रह्मचारी नरोत्तम ॥ ६ ॥ एवं संवत्सरं कृत्वा व्रतं पुरुषोत्तम ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ ७॥ मानुष्यमासाद्य भवत्यरोगो वसुन्धरे शो विजितापरिक्षः ॥ जन्मान्तरे स्याद्विजवर्यमुख्यौ वेदप्रसक्तौ ॥३८२॥