विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 681, कुल 1001 में से
संदर्भ में पढ़ेंवाहयिष्यामि सर्वलोकसुखप्रदम् ॥ अभ्येहि महाभाग सर्वव्याधिविनाशनम् ॥५१॥ काममावाहयिष्यामि फलं सर्वस्य कारण ॥ काम शीघ्रं त्वम- भ्येहि सर्वप्राणिहृदि स्थित ॥५२॥ रोषिमावाहयिष्यामि देवि सर्वजगन्मयि ॥ अभ्येहि वरदे देवि रति त्वमपराजिते ॥५३ ॥ निद्रामावाहयिष्यामि सर्वलोकसुखप्रदाम् ॥ आगच्छ वरदे निद्रे त्रैलोक्यपरिपोषिनि॥५४॥ आवाहयिष्ये वरदां महादेवीं सरस्वतीम्॥शीघ्रं देवि त्वमभ्येहि सर्वकामवरप्रदे ॥ ५५ ॥ अथावाहयिष्यामि तथा धन्वन्तरिं प्रभुम् ॥ धन्वन्तरे त्वमभ्येहि क्षीरोदार्णवसंभव ॥५६॥ अथावाहयिष्यामि उच्चैःश्रवसमश्वपम् ॥ हयराज समभ्येहि क्षीरोदार्णवसंभव ॥ ५७॥ येषामावाहनं प्रोक्तं तेषां मन्त्रमिदं पठेत् ॥ अश्विनौ प्रणतः स्तोमि दुर्भागाणांस्तनुदतः ॥ ५८ ॥ आवाहनानां च गणं तथोक्तं महागुह्यं पापहरं पवित्रम् ॥ आवाहिताः सन्निहितास्त्ववश्यं देवा भवन्त्युत्तमवंशजाताः ॥ ५९ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे लोकपालावाहनवर्णनो नाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५॥ मार्कण्डेय उवाच ॥ आवाहनान्यतो वक्ष्ये शान्त्यर्थं यदुनन्दन ॥ तेषामन्ते पठेच्छ्लोकं प्रत्यक्षस्य महाभुज ॥ १ ॥ याजकं यजमानं च श्रेयसाऽभ्येत्य योजय ॥ इदमर्घ्यमिदं पाद्यं धूपेण प्रतिगृह्यताम् ॥ २ ॥ आवाहयाम्यहं देवं वासुदेवं जगत्पतिम् ॥ अमृताश्यामतोयाभं विदुद्धेमवसांससम् ॥ ३ ॥ चतुर्वक्त्रं महाबाहुं चतुर्वेदधरं प्रभुम् ॥ चतुराश्रमगोप्तारं चातुर्वर्ण्यकरं तथा ॥ ४ ॥ चतुर्युगं चतुष्केतं चतुर्मूर्त्तिधरं परम् ॥ चतुर्विंशतितत्त्वं नाथं चतुर्विद्यविभावनम् ॥ ५ ॥ जगद्यज्ञस्य कर्तारं तथा चाप्येकवक्त्रकम् ॥ सर्वगं वरदं नित्यं सूक्ष्मं स्थूलमजं विभुम् ॥ ६ ॥ आत्मस्थं च बहिःस्थं च दृश्य- चान्तिकं च तम् ॥ गुणाधारं गुणाहीनं गुणातीतं गुणोत्तरम् ॥ ७ ॥ सगुणं निर्गुणात्मानं चाजेयं जगतः परम् ॥ एहि मे पुण्डरीकाक्ष शरणागत- वत्सल ॥ ८॥ शरपर्वतनवक्रान्तनिरस्तसुरमण्डल ॥ गदावर्माणिस्तोत्रदैत्यनाशनगणेश्वर ॥९॥ उत्फुल्लचारुकमलविराजितकराम्बुज ॥ शङ्खनादोद्ध- वञ्ज्वालसंदहीकृतमहासुर ॥ १० ॥ महोदककराम्बुजन्यस्तवरगदापराजित ॥ कौस्तुभोद्भासितोरस्कफुल्लासुरुविलेचन ॥ ११ ॥ वनमालाङ्कितोरस्क किरीटोद्भासितानन ॥ १२॥ यज्ञोऽप्यथशङ्खाङ्ख्यिर्चयोजने जगद्गुरो ॥ १३ ॥ सर्वकामप्रदाचिन्त्य सर्वशक्तिबलान्वित ॥ आवाहयाम्यहं देवं सङ्कर्षण- मयोनिजम् ॥ १४ ॥ शशाङ्कशतासङ्काशं सजलाम्बुदवाससम् ॥ क्रोधाग्निशमिताशेषकल्पितसुसुनावगम् ॥ १४ ॥ वाङ्मयन्कोयसम्भूतमलन्वि- तयगनाशनम् ॥ एहि संकर्षणविन्त्य देव मर्कटजनप्रिय ॥ १५ ॥ लाङ्गलोल्लिखितदैत्येन्द्र दैतेशेश्वरनिशीक्षण ॥ मुसलाग्रविनिष्पिष्टतमोग्रहीतविना
१ 'रतिम्' इति पुस्तकान्तरे । २ 'सर्वव्याधिनाशन' इति पाठान्तरम् । ३ 'भास्वरासम्' इत्यपि पाठान्तरम् ।