विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 692, कुल 1001 में से
संदर्भ में पढ़ेंत्तम्मभविष्यस्य प्रभुं लोकनमस्कृतम् ॥ ६ ॥ गुणागारं जगद्योनिं महद्धोपि महत्तरम् ॥ जीवदेव त्वमस्येहि प्रविशाचीमिमां स्वयम् ॥ ६ ॥ कुरुष्व देवदेवेश सजीवं च तथाऽनद ॥ इदमर्च्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ॥ ७ ॥ इति श्रीवि०पं०तृ०ख०मा०व०सं० जीवावाहनं नाम त्र्युत्तरशततमोऽध्यायः ॥ १०२ ॥ वृद्ध उवाच ॥ आवाहनानि मे ब्रूहि देवतानां भृगूत्तम ॥ भवन्त्यावाहिता मन्त्रैर्यैस्सात्सन्निहिताः सुराः ॥ १ ॥ मार्कण्डेय उवाच ॥ आवाहनानि ते वक्ष्ये देवानां भृगुनन्दन ॥ अथोर्द्धवर्गे केषांचित्केषांचित्पुनरेव ते ॥ २ ॥ सर्वेस्यावाहनस्थाने श्लोकार्थं परिकीर्तितम् ॥ इदमर्घ्यं च पाद्यं च धूपोऽयं प्रतिगृह्यताम् ॥ ३ ॥ आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ ॥ आगच्छेतां महाभागौ वरदौ शान्तिनौ भुवां ॥ ४ ॥ वसूनावाहयिष्यामि देवानद्यो भृगूद्वह ॥ आयान्तु वरदा देवा वसवः पापनाशनाः ॥ ५ ॥ विश्वानवाहयिष्यामि देवानद्भुततेजसः ॥ आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ॥ ६ ॥ आवाहयाम्यहन्दिसौ देवानद्भुततेजसः ॥ आयान्त्वङ्गिरसो देवा महाबलपराक्रमाः ॥ ७ ॥ रुद्रानावाहयिष्यामि त्रिनेत्रान्वृषवाहनान् ॥ आयान्तु वरदा रुद्रास्त्रैलोक्यवरदाः शुभाः ॥ ८ ॥ आवाहयिष्याम्यादित्यान् वरदानद्भुततेजसः ॥ आयान्तु वरदाः सूर्याः सर्वे ते तेजसोल्बणाः ॥ ९ ॥ भृगूनावाहयिष्यामि देवानद्भुततपोधनान् ॥ आयान्तु भृगवो देवा वरदा दीप्ततेजसः ॥ १० ॥ मरुतानावाहयिष्यामि मरुतस्तेजसाधिकान् ॥ आगन्तु मरुतो देवा वरदा भुवनेश्वराः ॥ ११ ॥ सुरानावाहयिष्यामि सर्वानैवै दिवाकसः ॥ आगच्छन्तु सुराः सर्वे मन्त्रपूजाभिलाषिणः ॥ १२ ॥ दैत्यानावाहयिष्यामि महाबलपराक्रमान् ॥ आगन्तु दैत्या धर्मिष्ठा देवशत्रुगुणा मम् ॥ १३ ॥ आवाहयिष्ये गन्धर्वान्द्र्पदर्पणसंयुतान् ॥ आयान्तु सर्वगन्धर्वा वरदाः कामरूपिणः ॥ १४ ॥ यक्षानावाहयिष्यामि धनाध्यक्षसमन्वितान् ॥ आयान्तु वरदा यक्षास्त्रैलोक्यविदिता मम ॥ १५ ॥ आवाहयिष्यामि तथा राक्षसान्विविधायुधान् ॥ आयान्तु राक्षसा वीरा देवशत्रुजयायिनः ॥ १६ ॥ आवाहयिष्यामि तथा विद्याधरगणानहम् ॥ विद्याधराः समायान्तु विविधाऽगनानङ्गुमाः ॥ १७ ॥ आवाहयिष्यामि तथा किन्नरान्देवगायनान् ॥ आयान्तु किन्नराः सर्वे सुस्वरास्तु सुलोचनाः ॥ १८ ॥ नागानवाहयिष्यामि भुजगान्सर्पगोचरान् ॥ आयान्तु वरदा नागास्त्रैलोक्यविदिता मम ॥ १९ ॥ अहमावाहयिष्यामि तथैवाप्सरसः शुभाः ॥ समायान्तु महाभागा देव्योह्यमलोञ्ज्वलाः ॥ २० ॥ अहमावाहयिष्यामि सर्वान्किन्नरपत्नयः ॥ आयान्तु वरदाः सर्वास्तास्त्विन्दुकरप्रभाः ॥ २१ ॥ आवाहयिष्यामि तथा वरदा देवमातरः ॥ आयान्तु वरदाः सर्वा सुवेशाः सुखदाः शिवाः ॥ २२ ॥ पितॄनावाहयिष्यामि सूक्ष्मान्भूधरगानहम् ॥ आयान्तु पितरः