विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 697, कुल 1001 में से
संदर्भ में पढ़ेंनरेन्द्रं नियोजयेत् ॥ १३८ ॥ एवं ज्ञात्वा शुभे काले प्रयत्नेन तु दैववित् ॥ छायाभूमिः प्रयत्नेन गृहीयादवधारितः ॥ १३९ ॥ शुभेऽह्नि पूर्वं युञ्जीत तन्काले प्रतिमां स्वयम् ॥ समां तु पीठिकां गर्तं स्थपतिर्निविवेशयेत् ॥ १४० ॥ तत्कालमेव कुर्वीत नाम चास्याः समाहितः ॥ तन्नाम न तु नृणां स्यान्नो देव्यापी प्रतिमा भवेत् ॥ १४१ ॥ केतुवन्ताः स्त्रियः कार्या नायकान्तो ब्राह्मणो भवेत् ॥ ईश्वराणां हरन्तोक्ता सिद्धि- दान्ता नृणां स्मृता ॥ १४२ ॥ अन्येषां देवनाम्नास्याः क्षुराणां प्रतिमाः स्मृताः ॥ सूक्ष्मा तु प्रतिमा कार्या द्वितीया चाधिवासने ॥ १४३ ॥ चित्र- मृत्तिका या वा कल्प्या या तथा भवेत् ॥ तस्याः पवित्रकं कार्यं तथा देवाधिवासनम् ॥ १४४ ॥ संवत्सरं तु कर्तव्यं षण्मासानथ वा पुनः ॥ त्रिन्द्वावथैकं वा मासं ज्ञेयमेव वा ॥ १४५ ॥ एकाहात्पञ्चरात्रं वा यथावदधिवासनम् ॥ विश्वकर्मनतिर्महता गीतनृत्यैः सुशोभनैः ॥ १४६ ॥ विष्णुपूजाऽर्चनं कार्यं प्रतिष्ठागरिष्ठेव च ॥ विष्णुमभ्यर्च्यदोषेण कर्तव्यमधिवासनम् ॥ १४७ ॥ ततः प्रतिष्ठा कर्तव्या काले संवत्सरोचिते ॥ यज्ञे काले हुता सा तु परा वृद्धिकरी भवेत् ॥ १४८ ॥ राज्ञो प्रजानां कर्तुश्च तथा कालविदो नृप ॥ ऋत्विजं च महाराज शुभलक्षण- विन्वितम् ॥ १४९ ॥ सुलक्षणा लक्षणसंयुता च देशे कृता शास्त्रविदा तु सम्यक् ॥ काले शुभे लोकसुखावहा स्यात्कर्तुः प्रशस्ता वरदानसौम्या ॥ १५० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० प्रतिमाप्रतिमालक्षणकलिनिर्देशो नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ व्यास उवाच ॥ भगवन्केन विधिना प्रतिष्ठा कृता भवति ॥ मार्कण्डेय उवाच ॥ अथ सुप्रतिष्ठापने षोडशर्त्विजो भवन्ति ॥ एतद्यथा दीक्षितमभितः कल्पकः याजकः यजुर्वेदविदर्थवाद् यजुर्वेदविदगृहपतिः ऋग्वेदविदथर्ववेदवित्साामवेदविदथर्ववेदविदिति चत्वारः कलशधाराणः चत्वारः सोत्पवकाः तेषामेको मूर्त्तिधरः द्वितीयो देवकर्मवित् ॥ तृतीयो मन्त्ररक्षिता चतुर्थो द्रव्यरक्षितेति । तत्र कल्पश- धाराणां शतया सहायाः कर्तव्याः । सर्वे एव ऋत्विजोऽव्यङ्गा अनधिका अनधिकाङ्गाः स्वशाखापारिनिष्ठिताः ऋक्ष्णाः अपोनेभवा श्वेति वितेः प्रशस्तैरङ्गैिस्तैः सहदेवैः सुस्नातैः स्वडलिताङ्गैर्भयद्भिरित्यादिभिश्च अहताम्बरसम्वीतैः पवित्रपाणिभिः सह दीक्षां यजमानो गृह्णीयात् ॥ तस्य स्नातास्याहतानवस्त्रसंवीतस्य गोमयेनोपलिप्ते देशे ब्राह्मणाः स्वस्तिवाचनमवेदकबचनेन कल्पकः सितसूत्रेण सितवस्त्रेण सिद्धा- थैर्कनववारं बद्धा दक्षिणपाणौ प्रतिसरं कङ्कणं बध्नीयात् । ततः प्रभृति यावत्प्रतिष्ठाकालं प्रतिष्ठाकालादुपरि च समाप्तं तोवन्मां समग्रदात्रा ब्राह्मणैर्मन्त्रैर्देव्यामिनानार्चनवर्णैर्निवार्यानि भवन्ति ॥ भवति चात्र ॥ दीक्षादिनान्यूर्ध्वमथवे प्रतिमा समसे दिने ॥