भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 704, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 704

चामलसारके ॥ ३६ ॥ सुप्रशस्ते समाप्ते तु चित्रकर्म विधीयते ॥ कटिः सुचित्रिता कार्या पृष्ठं कार्यं सुधासितम् ॥ ३६ ॥ चित्रलक्षणवत्कार्यं सर्वकामसमृद्धिदम् ॥ आश्चर्याणि तथान्यानि तत्र यत्नान्निवेशयेत् ॥ ३७ ॥ चिह्ने विष्णुगृहे तत्र गरुडं वापि कारयेत् ॥ दुर्गागृहे तथा सिंहं त्रिशूलं हरवेश्मनि ॥ ३८ ॥ पद्मं लक्ष्मीगृहे चित्रं हंसं स्याद्ब्रह्मणो गृहे ॥ मक्रं कामदेवस्य तालं सङ्कर्षणस्य तु ॥ ३९ ॥ अर्धचन्द्रस्थितं सिंहमादित्यस्य गृहे भवेत् ॥ वृत्तमण्डलमध्यस्थं मृगं चन्द्रसमो भवेत् ॥ ४० ॥ वज्रं शक्रस्य कुर्वीत दण्डं वैवस्वतस्य च ॥ वरुणस्य तथा पाशं गदां च धनदस्य वै ॥ ४१ ॥ स्कन्दस्य शक्तिः कर्तव्या गणाध्यक्षस्य पार्थिव ॥ कर्तव्यं परशोर्बिम्बं वह्नेर्ज्वाला विधीयते ॥ ४२ ॥ वायोर्बम्बरसङ्घन्तु छत्रं निर्ऋतये तथा ॥ अन्येषामपि देवानां चिह्नं स्याच्छुभं स्वकम् ॥ ४३ ॥ ततो ध्वजस्य विन्यासः कर्तव्यः पृथिवीपते ॥ असुरा वासमिच्छन्ति ध्वजहीने सुरालये ॥ ४४ ॥ ध्वजेन सकलं पापं ध्वजदस्य विनश्यति ॥ तस्मात्सर्वप्रयत्नेन देवादिव्यगृहे ध्वजम् ॥ ४५ ॥ एवं कृते देवगृहे नरेन्द्र वृद्धिः सदा स्यान्न हि संशयोऽत्र ॥ तस्मात्प्रयत्नेन विधानयुक्ते देवालयं कार्यमदीनसत्त्व ॥ ४६ ॥ इति श्रीविष्णु० तृ० ख० मा०व० सं० ब्रह्मशिरश्छ्त्वनाद्विर्निर्णय, चतुर्णवत्तितमोऽध्यायः ॥ ९४ ॥ एवं वादिनं श्रीमद्भगवन्तमलघुतपसमतिशय सञ्श्चिरजीविनं श्री मार्कण्डेयं राजा वज्रः पप्रच्छ । भगवन्नधराल्योद्धानं कथं भवति तमुवाच श्रीभगवान् मार्कण्डेयः । कदाचित्कमपि महद्भूतं त्रैलोक्यनाशायोत्थितमभवत् । तद्भूतं संसभ्रमैर्ब्रह्मादिभिर्गृह्य वेगेनाधोमुखं न्यस्तम् ॥ तस्य चोत्थानभीता देवा अङ्गेषूपविष्टाः । तस्य पर्जन्याद्याः क्रमेण दक्षिणोऽर्द्धभागे, व्युत्क्रमेण नागाद्या वामे, पर्जन्यहुताशनौ शिरसि, करद्वये वदने, दृशोश्च गृहाकामो, स्तनयोर्मन्दोऽदिती, श्रवणयोः न्यदिती, उरःस्थले ऽसंशयोश्च सत्यभृशन्तरिक्षपवनाः । भुजे चन्द्रब्रह्माटसुस्रया नगराजनः, द्वितीये भुजे सावित्रसावितारौ, करौ रुद्रयक्षौ द्वितीये करे, अर्यमा पृथिवीधरश्च करस्य कङ्कष्योः, पुष्पवितथवेधसताः पार्श्वे, शोषशोकयक्षाश्च द्वितीये पार्श्वे, हृदि ब्रह्मा, विवस्वान्मित्रश्च जठरे, उपेन्द्रौ मेढ्रे, वृषणयोश्च यमवरुणौ, स्फिक्जि वृषासुरौ, ऊर्वोः गन्धर्वपुष्पदन्तौ, जान्वोः मृगग्रीवौ, जङ्घयोः पितृदौवारिकौ चरणयोः, एवमशमशानी दिश् शिरः नैऋती दिगादौ वास्तुपुरुषः ॥ तत्र च यत्सर्वाङ्गं स्पृशप्रष्टा प्रगच्छति तत्रैव वास्तव ज्ञे शल्यं विद्यात् । अथवा यत्रेवाङ्गे गृहपतेः भूगोमृगो रुग्वति ॥ अथ वास्तुदेवतामोकेसाद्दिश्य घृते जुहुयात् । यद्वाव्यं हूयमाने अभिलक्षण


१ 'फिञ्जो' इति क० ख० ।