भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 705, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 705

वि० ध० ॥३६७॥ तृ० खं० अ० ९४ ॥३६७॥

संस्थापयेत्ततः ॥ १० ॥ शिलान्यासं तु कुर्वीत तत्रैवाद्भिः चतुर्दिशम् ॥ षोडशारन्निते कार्य्यास्ता एव तु चतुर्दिशम् ॥ ११ ॥ युग्मये चेष्टकान्या-
सं कर्त्तव्यं न च दारुणे ॥ शुभे दिवसऋक्षे च मुहूर्त्ते चाभिपूजिते ॥ १२ ॥ कुम्भाकारां शिलां कुर्य्याच्छुद्धेवर्णे शुभां ॥ अन्यत्र ताम्रकलशं
सुदृढं यत्न संयुतम् ॥ १३ ॥ चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम् ॥ कृत्वा तु देवतान्यासं तत्र मण्डलेके द्विज ॥ १४ ॥
सर्वेषां वास्तुविद्याता देवतानां यथाविधि ॥ द्वियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥ १५ ॥ पूजनं मण्डले कार्यं वास्तुदोषगणस्य च ॥
विनायकस्य देवस्य विश्वकर्म्मण एव च ॥ १६ ॥ द्विग्भाः कृत्वा ततो होमं ब्रह्मणः कारयेत्तदा ॥ १८ ॥ गन्धार्च्यधूपनैवेद्यधूपदीपैर्यथाविधि ॥ १७ ॥
ॐकारपूत्तमाज्यं च जुहुयाच्चीश्वरस्य च ॥ मध्ये कृत्वा ततः कुम्भं शिलान्यासं तु कारयेत् ॥ १९ ॥ ईशाने तु ततः कोणे शिलं पूर्वं प्रतिष्ठितम् ॥ प्रदक्षिणं ततो राजञ्छिलान्यासं
विधीयते ॥ २० ॥ सूत्रन्यासं तु कुर्वीत तस्मिन्नेव तथाऽहनि ॥ यथानिंवेशं कर्त्तव्यं प्रासादस्य सुनिश्चितम् ॥ २१ ॥ कृत्वा तु सूत्रविन्यासं
नाधिकं तं तु कारयेत् ॥ तूनं मनुजशार्दूल कर्तुर्दोषकरावुभौ ॥ २२ ॥ कुम्भस्य च शिलानां च ततः स्थानं विधीयते ॥ वटाश्वत्थकषायेण
सर्वोषधियुतेस्ततः ॥ २३ ॥ ततोऽङ्कलेपनं कुर्य्याच्चन्दनेन सुगन्धिना ॥ आच्छादनं ततः कार्यं वासोभिः कुसुमस्तथा ॥ २४ ॥ धूपं दीपं
सुनैवेद्यं तेषां नाम्ना निवेदयेत् ॥ दक्षिणामोदिजेन्द्राणां ततः पूजा विधीयते ॥ २५ ॥ कालवित्स्थपतिः पूज्यो ततो राग विजानता ॥ ततः
कर्त्ता जपेन्मन्त्रं स्थपतिं वाथ कालवित् ॥ २६ ॥ नन्दे नन्दय वासिष्ठे वसुभिः पूजया सह ॥ जये भार्गवदायादे प्रजाभ्यो जयमावह ॥ २७ ॥
पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम् ॥ भद्रे काश्यपदायादे कुरु भद्रां गतिं मम ॥ २८ ॥ सर्वबीजसमायुक्ते सर्वरत्नोपशोभिते ॥ रुचिरे नन्दिते
नन्दे वासिष्ठे रम्यतामिह ॥ २९ ॥ प्रजापतिसुते देवि चतुरस्रे महीमयि ॥ शुभगे सुव्रते भद्रे इदं काश्यपि रम्यताम् ॥ ३० ॥ अय्यङ्गे चारुते
पूर्णे सुनंगिरसः सुते ॥ इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां काममव्ययम् ॥ ३१ ॥ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ॥ मनुष्यगृहशय्यार्थं धन
वृद्धिकरी भव ॥ ३२ ॥ अनेनैव विधानेन कार्य्या भूमिः समाक्रिया ॥ द्वारन्यासंत महाराज द्रोणञ्चोपलमेव च ॥ ३३ ॥ स्तम्भमोज्झयं तथा
वंशविन्यासं च यदुत्तम ॥ तथामलकसारस्य विद्धस्य तु समुच्छ्रयम् ॥३४॥ आयुधं वाहनं चिह्नं यस्य देवस्य यद्भवेत्। तस्मादेकतं चिह्नं कार्यं


१ 'सहे' इति क 'यद्ये' इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 705, कुल 1001 में से · BharatKosha