भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 706, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 706

अशुभ्रा विषमा दुर्गा सवल्मीका तथा च या ॥ ३४ ॥ मूषिकावासबहुला पिपीलकगुणान्विता ॥ नित्यं च शर्कराच्छिन्ना स्फुटा या च शूरोदकैः ॥ ३५ ॥ अवातसद्मना भूमिश्च बन्धनागारसंयुता ॥ वसतिश्चैव दृष्या च विकृता वेशिनापि वा ॥ ३६ ॥ वसतां दृष्टिदोषा च क्रमुपूषा तथैव च ॥ त्रिकोणा सच्छिद्रोर्ना च शूर्पाकारा तथा च या ॥ ३७ ॥ दक्षिणेन तथा निम्ना निम्ना पृष्ठत एव च ॥ पुरोन्मुखाहीणी या च सुशिरा च तथा नृप ॥ ३८ ॥ खातं च सुसृदा यत्र पूर्यते न पुनस्तया ॥ खातो यत्र कृतं दीपं प्रज्वलन्नुपगच्छति ॥ ३९ ॥ माल्यं च म्लायते खाते तां भूमिं परिवर्जयेत् ॥ खाते तोयेन पूर्णे च यत्र तोयं न तिष्ठति ॥ ४० ॥ तां भूमिं वर्जयेत्प्राज्ञोऽनिन्द्या च तथापि या ॥ प्रागुदक्प्रवणा शस्ता स्निग्धा च सुदृढा तथा ॥ ४१ ॥ खातोदकश्चां च सुश्वेन्न दूरमार्गे भवेन्नृप ॥ दीपो न म्लायते यत्र न्यस्तं च कुसुमं तथा ॥ ४२¹ ॥ तोयं सन्तिष्ठते खाते यत्र कालान्तरं बहु ॥ सा प्रशस्ता मही ज्ञेया सुगन्धा सुस्वना तथा ॥ ४३ ॥ भुवं परीक्षणं कुर्याद्दिवसेऽतिशुभे तथा ॥ भुवं परीक्षणे यत्र मङ्गल्यद्रव्यदर्शनम् ॥ ४४ ॥ श्रवणं वा तथैव स्यात्सा शुभा स्याद्वसुन्धरा ॥ न तां राजन्यपरीक्षेत प्रशस्ता सा प्रकीर्तिता ॥ ४५ ॥ अभङ्गद्रव्यं तथा दद्या श्रुतं वा नृपसत्तम ॥ भुवंः परीक्षणं तत्र न कार्यमशुभा दि सा ॥ ४६ ॥ शुभा मही यत्र भवेन्नृवीर कार्या प्रतिष्ठा भवतोऽह तत्र ॥ कृता मवेत्तत्र नगेन्द्रचन्द्र हिताय कर्तुः स्वविबुद्धये च ॥ ४७ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमिपरीक्षा नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥

॥ मार्कण्डेय उवाच ॥

शुभां परीक्ष्य वसुधां तत्र कुर्यात्सुरहालयम् ॥ आदौ तां शोधयेद्विद्वान्दिवसे शुभसंयुते ॥ १ ॥ तत्र देशे शुभं विद्वान्गोमयेनोपलेपयेत् ॥ ततः सम्पूजयेत्तत्र देवदेवं विनायकम् ॥ २ ॥ तथा च विश्वकर्माणं भाण्डं तदुपयोगि च ॥ पल्लोलैस्तृणिकाभिश्चकुल्माषापूपोदनैरुपेतैः ॥ ३ ॥ परमान्नेन सर्पिष्वां पुष्पधूपानुलेपनैः ॥ पूजयित्वा च देवेशं सात्वतं स्थापयित् तथा ॥ ४ ॥ भुवः संशोधनं कुर्याद्यथावद्विधिपूर्वकैः ॥ तावतसंशोधयेद्भूमिं निजा यावत्पश्यते ॥ ५ ॥ तदा संशोधयेद्विद्वान्यावत्स्याच्छल्यवर्जिता ॥ ततस्तु पूरयेत्खातं मृत्तिकया पुनः ॥ ६ ॥ तद्धर्मण्या तथा शस्ता यस्य वर्णस्य कीर्तिता ॥ अक्षालय्या मृत्तिकया पूरयेत्सुदृढं पुनः ॥ ७ ॥ कृत्वा तु पूरितं देशं सुदृढं सुसमन्ततः ॥ सुसदृशश्रात्यश्चादानाद्यं कुर्याच्छल्यपरीक्षणम् ॥ ८ ॥ यथा वक्ष्याम्यहं राजनस्तथा यत्नेन बुद्धिमान् ॥ पादि स्याच्छल्यसंयुक्ता शल्यमुद्धृत्य यत्नतः ॥ ९ ॥ पुनः सम्पूरयेद्विद्वानन्यत्वाच्छुभमृदा नृप ॥ एवं संशोध्य भूमिं तु कुर्या


¹ 'मद्यैश्च' इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 706, कुल 1001 में से · BharatKosha