भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 802, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 802

गुरुः स्मृतः ॥ लघुगुरुविभागेन प्रस्तारेणैन यादव ॥ १२ ॥
सर्वे छन्दोविकल्पाश्च भवन्ति बहुशो नृप ॥ स्वाख्यानानयने तेषां तथा वक्ष्यामि तच्छृणु ॥ १३ ॥
यावत्संख्याक्षरं च्छन्दस्तावन्तो गुरवो नृप ॥ स्थाप्या अधश्च पूर्वाणो लघु पूर्वस्य विन्यशेत् ॥ १४ ॥
अतोऽन्येषु त्ववस्थाप्यं नृपसुस्थ यथास्थितम् ॥ एवमेव विधिं कुर्यादादिश्य गुरुभिः पुनः ॥ १५ ॥
प्रक्षीणैरक्षैस्तावत्कुर्यादेतं नृपोत्तम ॥ यावदक्षरसंख्याः स्युः सर्वे हि लघवो नृप ॥ १६ ॥
एतत्स्यादाक्षरेच्छन्दो मात्राश्छन्दास्तथैव हि ॥ उक्तवर्णान्तरं छन्दो भवेत्कविविवर्जितः ॥ १७ ॥
यदा तदा निवृत्तसंज्ञो द्व्यधिकेन तमतथा ॥ वर्णद्वयेन रहितं विराडिति हि शब्दितम् ॥ १८ ॥
अधिकं च सुरासंज्ञं कथितं यदुसत्तम ॥ तेभ्यो भवन्ति सर्वाणि मात्राच्छन्दांसि यादव ॥ १९ ॥
दिक्मात्रमेतत्कथितं नरेन्द्र विस्ताराज्जिज्ञासुरतो मनुष्यः ॥
संसाधयेत्तत्त्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥ २० ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे छन्दोविधानंनाम तृतीयोऽध्यायः ॥ ३ ॥

मार्कण्डेय उवाच ॥
तत्राप्युक्तमृषेर्द्वयं दीप्तं गम्भीरशब्दवत् ॥ कचिद्विक्लिसंयुक्तं वाक्यमेतत्स्रवंशुभः ॥ १ ॥
यत्किंचिन्मिथ्यासंयुक्तं युक्तं नाम विमुक्तिकिमैः ॥ प्रत्यक्षाभिहितं यच्च तादृशीनां वचः स्मृतम् ॥ २ ॥
नैगमर्षावविधेः शब्देर्निपातं बहुलं च यत् ॥ न चापि सुमहद्वाक्यमृषीणांनां वचः स्मृतम् ॥ ३ ॥
अविस्पष्टपदं ज्ञेयमृषिशुश्रूषवो नृप ॥ भूतमन्मथसंज्ञान जन्मदुःखविमुक्तसनम् ॥ ४ ॥
मित्राणां तद्वदेवांगस्य गर्भेषु च प्रवर्तनम् ॥ आज्ञायुक्तं च वचनं तथा हेतुविवर्जितम् ॥ ५ ॥
राजर्षीणां तु विज्ञेयं बह्वर्थं बुद्धिविस्तरम् ॥ बहुविधानं बह्वर्थं देवतानां प्रकीर्तितम् ॥ ६ ॥
बहुविधानमल्पार्थं दानवानां प्रकीर्तितम् ॥ अल्पाभिधानमल्पार्थं गन्धर्वाणां तथा भवेत् ॥ ७ ॥
दुर्बोधं विषमं चैव राक्षसानां प्रकीर्तितम् ॥ गूढाक्षरं तु यक्षाणां किन्नरैरुक्तमेवतथा ॥ ८ ॥
नागानामतिमतिविस्पष्टं पुनरुक्तसमन्वितम् ॥ रागद्वेषसमायुक्तं हेतुमत्पौरुषं भवेत् ॥ ९ ॥
मन्त्रा नवाविधाः प्रोक्ताः ऋग्यजुःसामलक्षणाः ॥ स्तुतिर्निन्दा प्रशंसा च आक्रोशः प्रेष्य एव च ॥ १० ॥
प्रश्नोऽनुज्ञा तथाख्यानमाशारिस्ताविषया मताः ॥ एवं ते सर्वविद्यानां विहितं सर्वलक्षणम् ॥ ११ ॥
पौरुषे विद्यते तत्त्वं नान्यत्रेति विनिश्चयः ॥ स्वभावाञ्च च्यवन्तेऽथ ये श्रोता नरवाजिताः ॥ १२ ॥
दृश्यन्ते हि पुमाञ्कश्चित्कश्चिच्छ्रेष्ठतमो धिया ॥ तस्मात्तेनैव तस्योक्ता बुद्धिः श्रेष्ठतमा नृप ॥ १३ ॥
एतन्मयोक्तं सुपरीक्षणं ते वाक्यस्य भो वाक्यविदां वरिष्ठ ॥
विचक्षणैर्पत्र च रागस्तस्तु ज्ञेयं तथा द्वेषसमागमाच्च ॥ १४ ॥
दिव्येन तुल्यं यदि वर्णवाक्यैः वाक्येन तुल्यं यदि वा परेणा।
वाक्यं नराणां तुपरागतस्तु ज्ञेयं यथोद्देशसमागतत्वात्॥ १५॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वाक्यप