विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 804, कुल 1001 में से
संदर्भ में पढ़ेंॐ श्रीगणेशाय नमः ॥ ॥ ॐ नमो नारायणाय ॥ ॥ अथ श्रीविष्णुमहापुराणे विष्णुधर्मोत्तरेतृतीयखण्डप्रारम्भः ॥ ॥ वज्र उवाच ॥ किं कर्तव्यं मनुष्येण किं कुर्वन्सुखमेधते ॥ अस्मिंल्लोके परे चैव केनमोहेति महद्वसृम् ॥ १ ॥ मार्कण्डेय उवाच ॥ ॥ अन्त- र्बाद बहिवैदि पुरुषेण विजानता ॥ देवताद्विजनं कार्यं लोकद्वयमभीप्सता ॥ २ ॥ यक्षेषु देवयजनमन्तर्वेदि प्रकीर्तितम् ॥ बहिर्वेदि तथैवो- क्तमुपवासाद्वितादिकम् ॥ ३ ॥ इष्टापूर्तेन लभ्यन्ते ये लोकास्तान्बुभूषता ॥ ३ ॥ देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ॥ विशेषेण कलौ काले कर्तव्यं देवतार्चनम् ॥ ४ ॥ कृतेत्रेताद्वापरेषु नराः पश्यन्ति देवताम् ॥ तिष्ये प्राये न पश्यन्ति पूजास्त्वर्चिता गताः ॥ ५ ॥ कृता- दिष्वपि दृष्टा च देवासन्दर्शनक्षमम् ॥ अर्चागतास्त्वशेषेण भुञ्जन्ति विधानतः ॥ ६ ॥ चित्रसूत्रविधानेन देवतार्चा विनिर्मिताम् ॥ सुरूपां पूजये- द्विद्वांस्तत्र संनिहिता भवेत् ॥ ७॥ स्वाकारां लक्षणोपेतां यस्तां संपूजयेन्नरः ॥ स सर्वकामानवाप्नोति नात्र कार्या विचारणा ॥ अस्मिंल्लोके परे चैव सुखवान्स भवेत्सदा ॥ ८ ॥ अपार्थां लक्षणैर्हीनां यस्तु पूजयते नरः ॥ तस्यानर्था विवर्धन्ते तस्मात्तां च विवर्जयेत् ॥ ९ ॥ प्रासादकरणं पुण्यं देवार्चाकरणं तथा ॥ सुरार्चापूजनं पुण्यं तत्र पुण्या नमस्क्रिया ॥ १० ॥ तस्मात्सर्वप्रयत्नेन सुरार्चा लक्षणाभ्विताम् ॥ कारयेत्पूजने विद्वांस्त- त्त्वलक्षणसंयुताम् ॥११॥ धर्ममर्थं तथा कामं मोक्षं च यदुनन्दन ॥ प्रयच्छन्ति महाराज नराणामिह देवताः ॥ १२ ॥ कामानिष्टान्प्रयच्छन्ति स्वर्गमप्यत्यतम्भवं च ॥ तस्मात्सर्वप्रयत्नेन नृणां पूज्या दिवौकसः ॥ १३ ॥ नित्यं नराणां सुखपूजकनरा लोका मनोज्ञाः सुलभा भवन्ति ॥ लोके तथास्मिन्धनधान्ययुक्ताः समृद्धिभाजश्च नरा मन्ति ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रथमोऽध्यायः ॥ १॥ वज्र उवाच ॥ देवतारूपनिर्माणं कथयस्व ममानघ ॥ यस्मात्संनिहिता नित्यं शास्त्रवत्सादसहिद्भवेत्॥ १॥ मार्कण्डेय उवाच॥ चित्रसूत्रं न जानाति यस्तु सम्यङ् नराधिप ॥ प्रतिमा लक्षणं वेत्तुं न शक्यन्तेन कर्हिचित् ॥ २ ॥ वज्र उवाच ॥ चित्रसूत्रं समाचक्ष्व भृगुवंश विवर्धन ॥ चित्रसूत्राद्विदेवाथ वेत्ति वाग्गलक्षणं यतः ॥ मार्कण्डेय उवाच॥ विना तु नृत्तशास्त्रेण चित्रसूत्रं सुदुर्विदम् ॥३॥ जगत्पते न क्रिया कार्या द्वयोरपि यतो नृप ॥ वज्र उवाच ॥ नृत्तशास्त्रं समाचक्ष्व चित्रसूत्रं वदिष्यसि ॥ नृत्तशास्त्रविधानेन च चित्रं वेत्ति यतो द्विज ॥४॥ मार्कण्डेय उवाच॥ आतोद्य यो न जानाति तस्य नृत्तं हि दुर्विदम् ॥ आतोद्येन विना नृत्तं विद्यते न कथंचन ॥ ५ ॥ वज्र उवाच ॥ आतोद्यं त्वं हि धर्मज्ञ नृत्तशास्त्रं वदि- ष्यसि ॥ तस्मिन्सुविदिते वेत्ति नृत्तं भार्गवसत्तम॥६॥ मार्कण्डेय उवाच ॥ न गीतेन विना शक्यं ज्ञातुमातोद्यमच्युत ॥ गीतशास्त्रविधानज्ञः सर्व