सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 822, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 822

रात्रौ भूतानां कर्तव्यं च तथाऽर्चनम् ॥ १६ ॥ पृष्ठवृक्षेषु चैत्येषु चैत्यप्रासादकेषु च ॥ चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च ॥ १७ ॥ नदीतीरेषु शैलेषु देवत्वायतनेषु च ॥ तेषां संमार्जनं कृत्वा स्वगृहे तान्समर्चयेत् ॥ १७ ॥ तत्र कृत्वा ततो वाच्याः प्रमथा भुजुजा स्वयम् ॥ वासुदेवस्य देवस्य तथा लोकपतेस्तथा ॥ १८ ॥ मधुसूदनसिंहस्य ब्रह्मणः शङ्करस्य च ॥ क्रोनागणशक्रेशषण्णवेनांशुनेशानां तु ये गणाः ॥ १९ ॥ वायव्ये नैर्ऋतेनैवेतेशान्यं चोर्ध्वमध्यमे ये ॥ ब्रह्माणामाथ रुद्राणां स्कन्दस्य च महाबलाः ॥ २० ॥ विनायकस्य देवस्य देवतानां गणाश्च ये ॥ दैत्यानां राक्षसानां च सर्वेषामनुगाश्च ये ॥ २१ ॥ महाबला महाकाया महासत्त्वा महामनाः ॥ अणिमा महिमा प्राप्तिः प्राकाम्येन च संयुताः ॥ २२ ॥ ईशित्वेन वशित्वेन प्रातिभानां तथैवच ॥ ये च कामावसायित्वान्वयाश्चैव विचेष्टते ॥ २३ ॥ एवमष्टगुणैश्चैवसंयुता भीमविक्रमाः ॥ नानाशस्त्रस्रग्विभूषा नानाप्रहरणाद्युधाः ॥ २४ ॥ नानाविरागवसना नानासत्त्ववपुर्धराः ॥ तथा नानाविधाहारा महोदर्या महाबलाः ॥ २५ ॥ भक्तानुभाविनो वीरा वरदाः कामरूपिणः ॥ प्रमथाः परितुष्यन्तु उपकार नमोऽस्तु वः ॥ ससुतामात्यसैन्योऽहं सदारः शरणं गतः ॥ २६ ॥ रक्षन्तु मां महाभागा युद्धे युद्धे तथाध्वनि ॥ शत्रूणां पृष्ठतो गत्वा नाशयध्वं तथा रिपून् ॥ २७ ॥ स्वप्ने शुभाशुभं वापि कथयध्वं समाहिताः ॥ विनिहत्य द्रक्ष्यामि तथाऽभ्यधिकं बलिम् ॥ २८ ॥ विनिवृत्तेन दातव्यः स च यत्नेन भूभुजा ॥ पूर्ववच्च तथा रात्रौ स्वमग्नेश्चाभिमन्त्रयेत् ॥ ॥ २९ ॥ षडहानि जपस्नानं कर्तव्यं च तथा भवेत् ॥ विधिवत्स्यादभिषेकार्थः सर्वमेव विधीयते ॥ ३० ॥ ततो यात्रादिने प्राप्ते क्षौरकर्म विवर्ज- येत् ॥ मुहूर्त्ते मर्दने चैव तथा च नखकृन्तनम् ॥ ३१ ॥ अभ्यङ्गं गृहकृत्यं च क्रोधशोकौ च मैथुनम् ॥ यातव्यं येन तेनाथ तद्युक्तं स्नानमा- चरेत् ॥ ३२ ॥ स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः ॥ चित्राभरणवान्राजा दूर्वापल्लवलाञ्छनः ॥ ३३ ॥ पूजयित्वा महाभागं देवदेवं त्रिविक्रमम् ॥ अनुज्ञाप्य तथा वह्नौ सुसमिद्धे पुरोहितः ॥ ३४ ॥ आयुष्यं मन्त्रयेच्चैव तथा स्वस्त्ययनं गणम् ॥ शर्मवर्मगणं चैव तथा प्रतिरथं शुभम् ॥ ३५ ॥ शकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च ॥ तथाप्यलक्ष्मीनिरसनं सूक्तं गायेन्महीपतिः ॥ ३६ ॥ नक्षत्त्रस्य दिशञ्चैव नैवेद्यं प्रतिकल्पि- तम् ॥ दत्त्वैवं नृपतिः प्राच्यां यात्रां विद्याद्यथाविधि ॥ ३७ ॥ अन्नं मक्षिकाकेशकीटयुक्तं विवर्जयेत् ॥ दग्धे च वर्जयेत्तत्र देवा भवन्ति चाप्यथ ॥ ३८ ॥ ततस्तु राजलिङ्गानि चाऽऽयुधानां तथैव च ॥ नीराजनोक्तमन्त्रैस्तु सर्वास्तानभिमन्त्रयेत् ॥ ३९ ॥ देववत्प्रयतो भूत्वा राजा


१ 'गोपुरद्वारकेषु' इत्यपिपाठः ।