सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 824, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 824

वि० ध० ॥३८९॥ तृ० खं० अ० १६४

व्रतम् ॥ ४॥ व्रतावसाने दद्याच्च वस्त्रस्थालींश्च विशतिम् ॥ वाचकाय द्विजेन्द्राय सुवर्णं गां च तस्य तु॥ ५ ॥ व्रतेनानेन चीर्णेन सर्वां सागरमेख-
लाम् ॥ भुनक्ति वसुधां राजा वशीकृत्या रिपूनृप ॥ ६ ॥ भोगांश्च भुक्त्वा त्रिदिवे च राजन्मानुष्यमासाद्य यथोक्तमेतत् ॥ प्राप्नोति सर्वं
हि मयेरितं यज्जन्मान्तराप्येव नरेन्द्र सत् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सत्तरशैलव्रतवर्णनो नामैकषष्ट्युत्तरशततमो
ऽध्यायः ॥ १६१ ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि तव लोकव्रतं शुभम् ॥ यास्तु व्याहृतयः सप्त त्रैलोक्यां तु प्रकीर्तिताः ॥
॥ १ ॥ आचरेत्प्रत्यहं स्नानं बहिर्नित्यमतन्द्रितः ॥ चैत्रशुक्लादारभ्य क्रमेण दिनसप्तकम् ॥ २ ॥ गोमूत्रं गोमयं
क्षीरं दधि सर्पिः कुशोदकम् ॥ एकरात्रोपवासश्च क्रमेणैवं समाचरेत् ॥ ३ ॥ महाव्याहृतिभिर्होमतिलैः कार्यों दिनेदिने ॥ संवत्स-
रान्ते दद्याच्च तथा विप्रेषु दक्षिणाम् ॥ ४ ॥ सुवर्णमहतं वासः कांस्यं धेनुं पयस्विनीम् ॥ संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ॥ ५ ॥ सर्व
लोकचरः श्रीमांन्स्वेच्छया स्यान्नराधिप ॥ यावत्कल्पावसानं तु कल्पादौ पार्थिवो भवेत् ॥ ६ ॥ स चक्रवर्ती नृपवर्यपूज्यः सुरासुराणामधिक
प्रभावः ॥ संवत्सराणामयुतं शतानीं सम्पाति पृथ्वीं सकलाभिररामः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्याहृ-
तिसप्तलोकव्रतवर्णनो नाम द्वाषष्ट्युत्तरशततमोऽध्यायः ॥ १६२ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ चैत्रशुक्लादारभ्य प्रत्यहं दिनसप्तकम् ॥
ह्लादिनीं ह्रादिनीं चैव पावनीं चैव पूजयेत् ॥ १ ॥ सीतां रामां तथा सिंधुं तथा भागीरथीं क्रमात् ॥ बहिःस्नानं ततः कुर्यान्नित्यं नक्ताशनो
भवेत् ॥ २ ॥ जले तु जुहुयात्क्षीरं तासां नाम्ना दिनेदिने ॥ क्षीरपूर्णां च दातव्या वारिधान्यो द्विजातिषु ॥ ३ ॥ क्षीराशनस्तु तिष्ठेत्तु तत्तथा
दिनसप्तकम् ॥ एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः ॥ ४॥ द्विजातिषु ततो दद्याद्रजंतस्य फलं प्लवम् ॥ फाल्गुनस्य सिते पक्षे सप्तम्यां दिवस
क्रमात् ॥ ५ ॥ तल्लोकमाप्नोति नरो यत्र पयसकर्दमम् ॥ नद्यः क्षीरवहा दिव्याः सर्वकामफलप्रदाः ॥६॥ तत्रोष्य कालं सुचिरं महात्त्मा मानुष्यमासा-
द्य भवत्यरोगः॥रूपेण शीलेन धनेन युक्तो राजाथ वा ब्राह्मणपुङ्गवश्च॥७॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नदीव्रतवर्णनो नाम
त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ १६३ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ चैत्रशुक्लादारभ्य प्रत्यहं दिनसप्तकम् ॥ सुप्रभां कांचनाक्षीं च
विशालां मानसं हृदम् ॥ १ ॥ तां त्रिनादां सुवेणुं च तथैव विमलोदकाम् ॥ नित्यं संपूज्यदत्त्वा बहिः स्नानं समाचरेत् ॥ २ ॥ तासां च
प्रत्यहं नाम्ना दशा होमं समाचरेत् ॥ ब्राह्मणाम्भोजयेच्चान्नं दध्ना मिश्रं च भोजनम् ॥ ३ ॥ घृतौदनं तथाश्नीयात्सकृदेव तथा निशि ॥ ॥३८९॥