सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 825, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 825

एवं संवत्सरं कृत्वा पूर्णं संवत्सरे नरः ॥ ४ ॥ फाल्गुनामलपक्षे तु प्रत्यहं दिवसक्रमात् ॥ वस्त्राणां सप्तकं दद्यात्तीर्थस्नाने द्विजोत्तमे ॥ ५ ॥
एवं संवत्सरं कृत्वा व्रतं सारस्वतं जपेत् ॥ तत्रोष्य सुचिरं कालं मनुष्यो जायते तदा ॥ ६ ॥ तदा नरेन्द्रो विजितारिपक्षो द्विजोत्तमो वा बहु-
यज्ञयाजी ॥ रूपेण शीलेन धनेन युक्तः श्रुतान्वितः स्याच्च जनाभिरामः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सारस्वत
व्रतवर्णनो नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥ १६४ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ चैत्रशुक्लादारभ्य प्रत्यहं दिनसप्तकम् ॥ मरीचिं
मत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥ १ ॥ वसिष्ठं च महाभाग पूजयेद्दिवसक्रमात् ॥ कालोद्भवैः फलैः पुष्पैर्गन्धैश्च पृथक्पृथक् ॥ २ ॥
आचरेत्प्रत्यहं स्नानं बर्हिर्निक्ताशनो भवेत् ॥ मह्नाव्याहृतिभिर्होमं फलैर्मूलैः सगौरसैः ॥ ३ ॥ वारिधान्यञ्च दातव्यः क्षीरपूर्णा द्विजातिषु ॥ एवं
संवत्सरं कृत्वा व्रतान्ते चाहिताग्नये ॥ ४ ॥ दद्यात्कृष्णाजिनं राजन्यथा पूर्वं मयोदितम् ॥ व्रतमेतन्नरः कृत्वा मोक्षोपायं च विन्दति ॥ ५ ॥ मोक्षा-
पायं समासाद्य मोक्षं प्राप्नोत्यसंशयम् ॥ ६ ॥ प्राप्नोति लोकं यदि वा मुनीनां देवस्य विष्णोर्यदि वेश्वरस्य ॥ पितामहस्याप्रतिमस्य वापि व्रतेन
चीर्णेन महानुभाव ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तर्षिव्रतवर्णनो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥ १६५ ॥
॥ ॥ मार्कण्डेय उवाच ॥ ॥ चैत्रशुक्लस्य पक्षे तु सम्यक्पष्ठयामुपोषितः ॥ सप्तम्यामर्चनं कुर्यान्मरुतां पार्थिवोत्तम ॥ १ ॥ सप्तश्रेणीगतं
सप्तमण्डलं नृप कारयेत् ॥ श्रेणीश्रेणी तथा कार्या सप्तमण्डलकान्विता ॥ २ ॥ गन्धैर्मण्डलकाः कार्या नामभिस्ताः पृथक्पृथक् ॥ एकज्योतिर-
श्व द्विज्योतिस्त्रिज्योतिश्च महाबल ॥ ३ ॥ एकद्वित्रिवचःशक्तिकिक्रमेण च तथा नृप ॥ विन्यसेत्प्रथमं श्रेण्यां यथान्वनृपसत्तम ॥ ४ ॥ इन्द्रञ्च
गत्वा दृश्वश्च ततः प्रतिशकृत्तथा ॥ मितश्च समितश्चैव अमितश्च महाबलः ॥ ५ ॥ द्वितीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत् ॥ ऋतजि-
त्सत्यजिच्चैव सुषेणश्चैव वीर्यवान् ॥ ६ ॥ अतिमित्रोऽनमित्रश्च पुरुमित्रस्तथैव च ॥ तृतीयायां तथा श्रेण्यां देवानेतांश्च विन्यसेत् ॥ ७ ॥
ऋतश्च ऋतवान्धर्ता विधर्ता वरुणो ध्रुवः ॥ विधारणं चतुर्थ्यां तु श्रेण्या पार्थिव विन्यसेत् ॥ ८ ॥ ईदृक्षश्च सदृक्षश्च एतादृगमिताशनः ॥
कीर्तितः प्रसद्दक्षश्च शरभश्च महायशाः ॥ ९ ॥ विन्यसेत्पञ्चमीश्रेण्यां सप्तदेवान्नराधिप ॥ धर्ता दुर्धो ध्वनिर्भीमो अतियुक्ः क्षमासहः ॥ १० ॥
षष्ठ्यां च विन्यसेद्धीमन् सतदेवान्यथाक्रमम् ॥ द्युतिर्विसुरनाधृष्यो वासः कामो जयो विराद् ॥ ११ ॥ सप्तम्यां च तथा श्रेण्यां विन्यसेत्सप्त
पार्थिवान् ॥ प्रथमा तु भवेच्छ्रेणी शुक्ला पार्थिवसत्तम ॥ १२ ॥ द्वितीया पद्मपत्राभा तृतीया हरिदोषमा ॥ पीतवर्णा चतुर्थी स्यात्पञ्चमा शुक-