सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 826, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 826

वि० ध० ॥४२६॥ तृ० खं० अ० १६६

सन्निभा ॥ १३ ॥ आकाशसन्निभा षष्ठी कृष्णवर्णा च सप्तमी ॥ माल्यानुलेपनं देयं तासां वर्णसमं नृप ॥ १४ ॥ एकोनास्तत्र दातव्या दीपाः पञ्चाशदेव तु ॥ पृथक्पृथक्तु देवानां नैवेद्यं विनिवेदयेत् ॥ १५ ॥ घृतं च जुहुयाद्वह्लौ नामभिश्च पृथक्पृथक् ॥ भोजयेद्ब्राह्मणांश्चात्र सुरसंख्यां समन्वितान् ॥ १६ ॥ संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ॥ सुवर्णसहितं वासो गां च दद्यात्तथैव च ॥ १७ ॥ पौराणिकाय विप्राय व्रतान्ते विनिवेदयेत् ॥ व्रतस्यास्य तु राजेन्द्र सम्यग्विप्रो विधानवित् ॥ १८ ॥ आरोग्यकामः कुर्वीत व्रतमेतदनुत्तमम् ॥ पुत्रकामोऽथवैकामश्च धनकामोऽथ वा पुनः ॥ १९ ॥ सर्वकामप्रदं ह्येतत्पवित्रं पापनाशनम् ॥ मङ्गल्यं स्वर्गदं प्रोक्तं व्रतानामुत्तमं व्रतम् ॥२०॥ व्रतेनानेन चीर्णेन चिरं स्वर्गं सम- श्नुते ॥ मानुष्यमासाद्य भवेत्स्वशत्रुभ्रंशस्तथाचिरात् ॥ २१ ॥ धनेन रूपेण बलेन युक्तो जनाभिरामः प्रमदाप्रियश्च ॥ विरोगदेहः शतशत्रुपक्षो वाग्मी तथा शास्त्रधरश्च लोके ॥ २२ ॥ इति श्रीवि०ध० तृ०ख० मा०वृ०सं० मरुद्गतवर्णनो नाम षट्पञ्चादुत्तरशततमोऽध्यायः ॥ १६६ ॥ ॥ मार्कण्डेय उवाच ॥ चैत्रशुक्लस्य पक्षे तु सम्यक्पञ्चदशावुपोषितः ॥ सप्तम्यांमर्चनं कुर्याद्देवदेवस्य गोपतेः ॥ १ ॥ बहिः स्नानं नरः कृत्वा गोमयेनोपलेपितम् ॥ लेपयिस्थण्डिलं सम्यक्कुतो गौरमृदा नृप ॥ २ ॥ तत्राष्टपत्रं कमलं वर्णकैस्तु समालिखेत् ॥ कर्णिकायां न्यसेत्तत्र देवदेवं विभावसुम ॥ ३ ॥ पूर्वपक्षे न्यसेद्देवौ द्वौ राजन्नुत्तरे दले ॥ आग्नेये च न्यसेत्पद्मे गन्धर्वौ ऋतुकार्किकौ ॥ ४॥ दक्षिणे च न्यसेत्पत्रे तथैवाप्सरसौ द्वयम् ॥ राक्षसौ द्वौ महाराज पत्रे नैर्ऋतके न्यसेत् ॥ ५ ॥ काद्रवेयौ महानागौ पश्चिमे ऋतवारिकौ ॥ वायव्ये यातुधानौ द्वौ तथैव नृपसत्तम ॥ ६ ॥ उत्तरे च तथा पत्रे विन्यसेच्च ऋषिद्वयम् ॥ ऐशान्ये विन्यसेत्पत्रे ग्रहकर्मके नरोत्तम ॥ ७ ॥ तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः ॥ धूपैर्दीपैश्च नैवेद्यैः पृथक्पृथगारिन्दम ॥ ८ ॥ एवं सम्पूजनं कृत्वा सर्वेषां तदनन्तरम् ॥ घृतेन होमं कुर्वीत सूर्यस्याष्टशतेन च ॥ ९ ॥ अर्घ्यपां च तथा दद्याद्भास्कराव्रौ नरेश्वर ॥ नाम्ना तथैव सर्वेषां चैकैकं भोजयेद्द्विजम् ॥ १० ॥ शक्त्या च दक्षिणा देया तेषां मेव यदृतम् ॥ एवं संवत्सरं कृत्वा व्रतमेतदनुत्तमम् ॥ ११ ॥ पौराणिकाय विप्राय व्रतस्यान्ते पयस्विनीम् ॥ विधिवच्च ततो दद्यात्सुवर्णं च यदत्तम ॥ १२॥ सर्वकामप्रदं चैव व्रतमुक्तं स्वयम्भुवा ॥ व्रतेनानेन चीर्णेन सूर्यलोकमवाप्नुयात् ॥ १३॥ अथ द्वादशवर्षाणि करोत्येतन्महाव्रतम् ॥ भित्त्वाकर्ममण्डलं राजा विष्णोः सायुज्यतां व्रजेत् ॥ १४॥ एतद्व्रतं पापविनाशकारि धन्यं यशस्यं रिपुनाशकारि। लोके तथास्मिंश्च परे च राजन्वर्गप्रदं मोक्षकरं तथैव॥ १५॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख०मा०संवादे सूर्यव्रतवर्णनो नाम सप्तषष्ट्य-

॥४२६॥