भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 830, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 830

तृतीयखण्डे मार्कण्डेयवज्रसंवादे पर्वताष्टमीव्रतवर्णनो नाम चतुस्सप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥ मार्कण्डेय उवाच ॥ नवम्यां सोपवासस्तु भद्रकालीं तु पूजयेत्॥ शुक्लपक्षे महाराज कार्तिकप्रभृति क्रमात्॥ १॥ गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥ संवत्सरान्ते संपूज्य व्रतान्ते ब्राह्मणाय च ॥ २ ॥ वस्त्रयुग्मं नरो दत्त्वा यथेष्टं काममाप्नुयात् ॥ रोगात्तो मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥ ३ ॥ राजकार्यान्मुक्तिश्च मुच्यते महतो भयात् ॥ न चौरेभ्यो भयं तस्य नारण्येभ्यः कदाचन ॥ ४ ॥ पुत्रानवाप्नोति धनं यथेष्टं स्त्रियश्च मुख्या विविधां च तुष्टिम् ॥ पूजां तु कृत्वा विविधैरवाप्य कामानवाप्नोति तथा यथेष्टान् ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भद्रकालीपूजावर्णनो नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥ मार्कण्डेय उवाच ॥ क्रतुर्दक्षो रिपुः सत्यः कालकामो ध्वनित्तथा ॥ कुलवान्मनुजो विश्वो रोच मानश्च ते दश ॥ १ ॥ विश्वेदेवा समाख्याता दशात्त्या केशवो विभुः ॥ तस्य संपूजनं कार्यं सितपक्षे नराधिप ॥ २ ॥ आरभ्य कार्तिकान्मा साद्दशम्यां नृपपुङ्गव ॥ मण्डलेषु च मुख्येषु यदि वाऽर्चासु यादव ॥ ३ ॥ गन्धमाल्यनमस्कारधूपदीपांनसंपदा ॥ व्रतान्ते कनकं दद्याद्यथाशक्ति द्विजातये ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां रुचिरं च लोकान् ॥ तत्रोष्य लोके पुरुषोत्तमस्य राजा भवेद्ब्राह्मणपुङ्गवो वा ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विश्वेदेवदशमीपूजावर्णनो नाम षट्सप्तत्युत्तरशततमोऽध्यायः ॥१७६॥ मार्कण्डेय उवाच॥ आत्मा ह्यायुर्मनो दक्षो मदः प्राणस्तथैव च ॥ हविष्मांश्च गतींश्चैव ऋतः सत्यश्च ते दश ॥१॥ देवस्त्वाङ्गिँरसो नाम दशम्यां पूजयेन्नरः॥ सोपवासः कृष्णपक्षे पूर्वोक्तविधिना नरः ॥२ ॥ कृत्वा व्रतं वत्सरमेतदिष्टान्प्राप्नोति तेषां रुचिरं च लोकान् ॥ तत्रोष्य लोके पुरुषोत्तमस्य राजा भवेद्ब्राह्मण पुङ्गवो वा॥ ३॥इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०वज्रसंवादे अङ्गिराव्रतवर्णनो नाम सप्तसप्तत्युत्तरशततमोऽध्यायः॥ १७७॥ मार्कण्डेय उवाच ॥ शुक्लपक्षे दशम्यां तु सोपवासस्तथा नरः ॥ मार्गशीर्षादथारभ्य नित्यमेतद्दिनन्दिनेम् ॥ १ ॥ गन्धमाल्यनमस्कारधूपदीपांन्नसंपदा ॥ घृतेन जुहुयाद्वह्निं ब्राह्मणांश्च च पूजयेत् ॥ २ ॥ व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम् ॥ व्रतमैतद्दिनंनिन्येव मभये फलप्रदम् ॥ ३॥ कृष्णपक्ष तथाप्येतत्कृत्वा संवत्सरं व्रतम्॥राजसूयमवाप्नोति फलंसुद्दति स्वकम्॥४॥कृत्वा पक्षद्वयेप्येतदंतं मुजुसत्तम्॥राजसूयाश्वमेधानां फलं प्राप्नोत्यसंशयम्॥५॥स्वर्गलोकेमस्वा प्रीति कुलमुद्धरति स्वकम्॥धर्मे मतिर्भवेत्तस्य धर्मप्राप्तिस्तथैवच॥६॥गवयत्राभिजयेत् तत्र धर्मपरो भवेत्॥प्रधानंतं तथा राजन्यत्र धर्मपरो भवेत् ॥७॥ आरोग्यमायुष्यकरं यशस्यं स्थानप्रदं पापविनाशकारि ॥ कर्तव्यमेतन्नृपवैयथावत्पूजां हि विष्णोर्भगवान्सधर्मः ॥८॥इति श्रीविष्णुधर्मोत्तरे