विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 831, कुल 1001 में से
संदर्भ में पढ़ेंतृतीयखण्डे मार्कण्डेयवज्रसंवादे धर्मव्रतवर्णनो नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ १७८॥ मार्कण्डेय उवाच ॥ अङ्गारकं तथा सूर्यं निर्ऋतिं वाथ शस्तथा ॥ ह्यनं चेश्वरं मृत्युं कपालिमथ किंकिणम् ॥ १ ॥ तत्र चैकादशींरस्तु देवांस्त्रिभुवनेश्वरान् ॥ एकादश्यां सोपवासः सोमं संपूज्येत्तथा ॥ २ ॥ गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ मार्गशीर्षादारभ्य यावत्संवत्सरं भवेत् ॥ ३ ॥ संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ॥ कृत्वा व्रतं वत्सरमेतदिष्टं भङ्कत्वामामंति नरस्तु राजन् ॥ रुद्रेण सार्धं सुचिरं रमित्वा कामानवाप्याथ मनोभिरामान् ॥ ४ ॥ इति श्रीविष्णुधर्मो- त्तरे तृ० ख० मां०व०सं० रुद्रव्रतवर्णनो नामैकोनाशीत्युत्तरशततमोऽध्यायः॥ १७९॥ मार्कण्डेय उवाच ॥ भुवने भानवश्चैव सुजन्यः सुजन- स्तथा ॥ ऋतुः सर्वश्च मूर्धा च त्याजश्च व्यन्कस्तथा ॥ १ ॥ प्रस्रवश्चाप्यथैवैव दक्षो द्वादशकरस्तथा ॥ भृगवो नाम निर्दिष्टा देवा द्वादश या- ज्ञियाः ॥ २ ॥ तेषां सम्पूजनं कुर्याद्द्वादश्यां नित्यमेव तु ॥ मार्गशीर्षादारभ्य कृष्णपक्षे सदैव तु ॥ ३ ॥ गन्धमाल्यनमस्कारधूपदीपान्नसं- म्पदा ॥ संवत्सरान्ते दद्याच्च ब्राह्मणाय पयस्विनीम् ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां च सलोकमेव ॥ तत्रोग्र्य कालं सुचिरं मनुष्यो राजा भवेद्वा द्विजपुङ्गवो वा ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मां० व० सं० भृगुव्रतवर्णनो नामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥ मार्कण्डेय उवाच ॥ मनो मन्तस्तथा प्राणो नरो यानश्च वीर्यवान् ॥ चित्तिर्हव्यो नयश्चैव हंसो नारायणस्तथा ॥ १ ॥ विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥ पूजयेच्छुक्लपक्षे तान्द्वादश्यां मार्गशीर्षतः ॥ २ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति तेषां तु सलोकमेव ॥ तत्रोग्र्य कालं सुचिरं नरेन्द्र राजा भवेद्ब्राह्मणपुङ्गवो वा ॥ ३ ॥ इति श्रीविष्णु०ध० तृतीयखण्डे मां०व०सं० साध्यव्रतवर्णनो नामैकाशीत्युत्तर- शततमोऽध्यायः ॥ १८१ ॥ मार्कण्डेय उवाच ॥ धाता मित्रोथमा पूषा शक्रोथो वरुणो भगः ॥ त्वष्टा विवस्वान्सविता विष्णुर्द्वादशकरस्तथा ॥ १ ॥ पूजयेद्द्वादशादित्याञ्छुक्लपक्षे ह्युपोषितः ॥ मार्गशीर्षादारभ्य गन्धमाल्यान्नसम्पदा ॥ २ ॥ दत्वा व्रतान्ते पुरुषः सुवर्णमप्राभोति लोकां- न्सवितुर्नृवीर ॥ मानुष्यमासाद्य भवेन्नरौगो जितेन्द्रियश्चैव धनान्वितश्च ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे काम- देवव्रतवर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ १८२ ॥ मार्कण्डेय उवाच ॥ शुक्लपक्षे महाराज त्रयोदश्यामुपोषितः ॥ पूजयत्कामदेवन्तु वैशाखात्प्रभृति प्रभो ॥ १ ॥ गन्धमाल्यनमस्कारधूपदीपात्रसम्पदा ॥ दद्याद्व्रतान्ते विप्राय गन्धवस्त्रयुगं तथा ॥ २ ॥ कृत्वा व्रतं वत्सरमेतदिष्टृ मासाद्य लोके सुचिरं मनुष्यः ॥ मानुष्यमासाद्य भवेन्नरोगो सुवान्वितो रूपस्वरूपता च ॥ ३ ॥ इति श्रीवि०ध० तृ०ख० मां०व०सं०