विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 832, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥३८१॥
तृ० खं० अ० १८८ ॥३८१॥
कामदेवव्रतवर्णनो नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥ १८३ ॥ मार्कण्डेय उवाच ॥ शुक्लपक्षे महाराज त्रयोदश्यामुपोषितः ॥ फाल्गुनात्तु समारभ्य नित्यं संपूजयेन्नरः ॥ १ ॥ गन्धमाल्यनमस्कार धूपदीपान्नसम्पदा ॥ सुवर्णं ब्राह्मणेन्द्राय व्रतान्ते प्रतिपादयेत् ॥ २ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं यक्षेषु राजन्सुचिरं तथैव ॥ प्राप्नुयान्मासाद्य धनान्वितः स्यात्सोभाग्ययुक्तश्च तथा विरोगः ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे धनव्रतवर्णनो नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ १८४ ॥ शुक्लपक्षचतुर्दश्यां ज्येष्ठया दारभ्य यादव। वायुं संपूजयेद्देवं सोपवासो जितेन्द्रियः ॥ १॥ गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥ संवत्सरान्ते दातव्यं वस्त्रयुग्मं द्विजातये ॥ २॥ कृत्वा व्रतं वत्सरमेतदिष्टं चासाद्य लोकं मरुतां मनुष्यः ॥ सुखानि भुक्त्वा सुचिरं महीप प्राप्नुयान्मासान् भवत्यरोगः ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वायुव्रतवर्णनो नाम पञ्चाशीत्युत्तरशततमोऽध्यायः॥ १८५॥ मार्कण्डेय उवाच ॥ कृष्णपक्षचतुर्दश्यां विरूपाक्षं तु पूजयेत्॥ पौषमासादारभ्य यावत्संवत्सरं व्रतम् ॥१॥ गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥ उष्ट्रं द्विजातये दद्याद्व्रतान्ते च परन्तप ॥२॥ कृत्वा व्रतं वत्सरमेतदिष्टं भयं न चाप्नोति स राक्षसेभ्यः ॥ कामानवाप्नोति भवत्यरोगो भयं च राजन्न च वेत्ति किंचित् ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विरूपाक्षव्रतवर्णनो नाम षडशीत्युत्तरशततमोऽध्यायः ॥ १८६ ॥ मार्कण्डेय उवाच ॥ यत्र क्वचन नद्यां च यत्र कृष्णचतुर्दशी ॥ अनर्काभ्युदिते काले देवं संपूजयेद्यमम् ॥ १॥ धूम्रेण चित्रगुप्तं च कालपाशौ च यादव ॥ मृत्युं स्वगं च धर्मज्ञं गन्ध माल्यान्नसम्पदा ॥ २॥ यमो दधार इत्यर्चा तिलैश्च जुहुयात्ततः ॥ नमो यमोयेति तथा श्रीवृक्षस्य विधीयते ॥ ३॥ कृसरं भोजनं विप्रान्यथा शक्ति नरोत्तम ॥ दद्याद्व्रतान्ते विप्राय तथैव च पयस्विनम् ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं न याति राजन्नरकं मनुष्यः ॥ प्राणाक्षयं प्राप्य स याति नाकं प्राप्नुयान्मासाद्य च धर्मवान्स्यात् ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमव्रतवर्णनो नाम सप्ताशीत्यु त्तरशततमोऽध्यायः ॥ १८७ ॥ शुक्लपक्षादारभ्य फाल्गुनस्य नराधिप ॥ पूजयेत्तु चतुर्दश्यां सोपवासो महेश्वरम् ॥ १॥ गन्धमाल्यनमस्कार धूपदीपान्नसंपदा ॥ व्रतान्ते गां तथा दद्यान्महिषामथफलं लभेत् ॥ २ ॥ एतदेव व्रतं कृत्वा शुक्लपक्षे तु वत्सरम् ॥ पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ३ ॥ चतुर्दशीद्वयं चैतत्कृत्वा संवत्सरं नरः ॥ मासिसि तथा भक्त्या सर्वान्कामानवाप्नुयात् ॥ ४ ॥ आसाद्य कामांश्च महेश्वरस्य तत्रोग्य काले सुचिरं च राजन् ॥ सायुज्यमायाति महेश्वरस्य सर्वेश्वरस्याप्रतिमस्य तत्य ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय