विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 833, कुल 1001 में से
संदर्भ में पढ़ेंवज्रसंवादे महेश्वरव्रतवर्णनो नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ १८८ ॥ मार्कण्डेय उवाच ॥ प्रभास्वरा बर्हिषद अग्निष्वात्तांस्तथैव च ॥ क्रव्यादंश्चोपहूतांश्च आज्यपांश्च सुकालिनः ॥ १ ॥ पूज्याः पितृगणा राजन्नुपवासेन नित्यशः ॥ चैत्रशुक्लदाधारभ्य पञ्चदश्यां नराधिप ॥२ ॥ श्राद्धं तदह्नि कुर्वीत यावत्संवत्सरं भवेत् ॥ गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ ३ ॥ संवत्सरान्ते दद्याच्च तथा धेनुं पय- स्विनीम् ॥ ब्राह्मणाय महाभाग पितृभक्ताय भक्तितः ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं च तथा स तेषाम् ॥ तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषप्रधान ॥५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पितृव्रतवर्णनो नामैकोननवतित्युत्तर- शततमोऽध्यायः ॥१८९॥ मार्कण्डेय उवाच ॥ कृष्णपक्षं पञ्चदश्यां चैत्रादारभ्य यादव ॥ वह्निंसम्पूजनं कृत्वा गन्धमाल्यान्नसम्पदा ॥ १ ॥ तिलैर्होमस्ततः कार्यान्नाम्ना वह्नेर्नराधिप ॥ संवत्सरान्ते दद्याच्च सुवर्णं ब्राह्मणाय च ॥ २ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति वित्तं सततं यशश्च ॥ धर्मे मतिं रूपमनुत्तमं च कामानन्यैष्यान्पुरुषप्रधान ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वह्निव्रतवर्णनो नाम नवतियुत्तरशततमोऽध्यायः ॥ १९० ॥ मार्कण्डेय उवाच ॥ अमावास्यां तु वेलायां सोपवासो नरोत्तम ॥ पद्मद्वयं पूजयंत चंद्रार्कौविकरारिणौ ॥ ॥ १ ॥ आदित्यमष्टकमले चंद्रं षोडशके तथा ॥ आदित्यं सर्वरक्तेन चंद्रं शुक्लेन यादव ॥ २ ॥ माल्यादिना महाभाग होमयतिलतण्डुलैः ॥ घृतक्षीरयुतो राजन्तयोर्नाम्ना यथाविधि ॥ ३॥ व्रतान्ते ब्राह्मणाय कनकं प्रतिपादयेत् ॥ रजतं च महाभाग य इच्छेद्द्भूत्तिमात्मनः ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं दत्त्वा च दीपान्विधिवत्प्रभूतान् ॥ चक्षुः परं प्राप्य विवृद्धतेजा धनन्वितः स्याद्विपदिक्षयादिहस्यः ॥ ५ ॥ इति श्रीविष्णु- धर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चन्द्रद्रवतवर्णनो नामैकोननवत्यधिकशततमोऽध्यायः ॥ १९१ ॥ मार्कण्डेय उवाच ॥ कार्त्तिकात्तु तथारभ्य सम्पूर्णशशलक्षणम् ॥ पूजयेद्बुदरे राजन्सदा नक्षत्रानो भवेत् ॥ १ ॥ लावणं मण्डलं कृत्वा चन्दनेनानुलेपिते ॥ दशनाक्षत्रसहितं तत्र सोमं तु पूजयेत् ॥ २ ॥ कृत्तिकारोहिणीयुक्तं कार्त्तिके मासि पूजयेत् ॥ सौम्यार्द्रासहितं राजन्मासि सौम्ये तथैव च ॥ ३ ॥ आदित्यपुष्यसहितं मासि पौषे च यादव ॥ मघासंयुतं माघे फाल्गुने शृणु पार्थिव ॥ ४ ॥ अर्यम्णभाग्यसावित्रैः सहितं पूजयेद्द्विजम् ॥ चित्रास्वात्तियुतं चैत्रे वैशाखे शृणु पार्थिव ॥ ५ ॥ विशाख्या च मैत्रेण युतं संपूजयेत्तथा॥ ज्येष्ठामूलयुतं ज्येष्ठे आषाढायाममन्तरम् ॥ ६ ॥ श्रावणे श्रवणोपेतं सहितं च श्रविष्ट- या ॥ तथा भाद्रपदे पौष्णामाजाङ्घिसंयुतम् ॥७॥ अश्विनीभरणीयुक्तं तथा चाश्वयुजे विभुम ॥ गन्धमाल्यनमस्कारधूपदीपात्रसंपदा ॥ ८ ॥