विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वज्रसंवादे महेश्वरव्रतवर्णनो नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ १८८ ॥ मार्कण्डेय उवाच ॥ प्रभास्वरा बर्हिषद अग्निष्वात्तांस्तथैव च ॥ क्रव्यादंश्चोपहूतांश्च आज्यपांश्च सुकालिनः ॥ १ ॥ पूज्याः पितृगणा राजन्नुपवासेन नित्यशः ॥ चैत्रशुक्लदाधारभ्य पञ्चदश्यां नराधिप ॥२ ॥ श्राद्धं तदह्नि कुर्वीत यावत्संवत्सरं भवेत् ॥ गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ॥ ३ ॥ संवत्सरान्ते दद्याच्च तथा धेनुं पय- स्विनीम् ॥ ब्राह्मणाय महाभाग पितृभक्ताय भक्तितः ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं च तथा स तेषाम् ॥ तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषप्रधान ॥५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पितृव्रतवर्णनो नामैकोननवतित्युत्तर- शततमोऽध्यायः ॥१८९॥ मार्कण्डेय उवाच ॥ कृष्णपक्षं पञ्चदश्यां चैत्रादारभ्य यादव ॥ वह्निंसम्पूजनं कृत्वा गन्धमाल्यान्नसम्पदा ॥ १ ॥ तिलैर्होमस्ततः कार्यान्नाम्ना वह्नेर्नराधिप ॥ संवत्सरान्ते दद्याच्च सुवर्णं ब्राह्मणाय च ॥ २ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति वित्तं सततं यशश्च ॥ धर्मे मतिं रूपमनुत्तमं च कामानन्यैष्यान्पुरुषप्रधान ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वह्निव्रतवर्णनो नाम नवतियुत्तरशततमोऽध्यायः ॥ १९० ॥ मार्कण्डेय उवाच ॥ अमावास्यां तु वेलायां सोपवासो नरोत्तम ॥ पद्मद्वयं पूजयंत चंद्रार्कौविकरारिणौ ॥ ॥ १ ॥ आदित्यमष्टकमले चंद्रं षोडशके तथा ॥ आदित्यं सर्वरक्तेन चंद्रं शुक्लेन यादव ॥ २ ॥ माल्यादिना महाभाग होमयतिलतण्डुलैः ॥ घृतक्षीरयुतो राजन्तयोर्नाम्ना यथाविधि ॥ ३॥ व्रतान्ते ब्राह्मणाय कनकं प्रतिपादयेत् ॥ रजतं च महाभाग य इच्छेद्द्भूत्तिमात्मनः ॥ ४ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं दत्त्वा च दीपान्विधिवत्प्रभूतान् ॥ चक्षुः परं प्राप्य विवृद्धतेजा धनन्वितः स्याद्विपदिक्षयादिहस्यः ॥ ५ ॥ इति श्रीविष्णु- धर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चन्द्रद्रवतवर्णनो नामैकोननवत्यधिकशततमोऽध्यायः ॥ १९१ ॥ मार्कण्डेय उवाच ॥ कार्त्तिकात्तु तथारभ्य सम्पूर्णशशलक्षणम् ॥ पूजयेद्बुदरे राजन्सदा नक्षत्रानो भवेत् ॥ १ ॥ लावणं मण्डलं कृत्वा चन्दनेनानुलेपिते ॥ दशनाक्षत्रसहितं तत्र सोमं तु पूजयेत् ॥ २ ॥ कृत्तिकारोहिणीयुक्तं कार्त्तिके मासि पूजयेत् ॥ सौम्यार्द्रासहितं राजन्मासि सौम्ये तथैव च ॥ ३ ॥ आदित्यपुष्यसहितं मासि पौषे च यादव ॥ मघासंयुतं माघे फाल्गुने शृणु पार्थिव ॥ ४ ॥ अर्यम्णभाग्यसावित्रैः सहितं पूजयेद्द्विजम् ॥ चित्रास्वात्तियुतं चैत्रे वैशाखे शृणु पार्थिव ॥ ५ ॥ विशाख्या च मैत्रेण युतं संपूजयेत्तथा॥ ज्येष्ठामूलयुतं ज्येष्ठे आषाढायाममन्तरम् ॥ ६ ॥ श्रावणे श्रवणोपेतं सहितं च श्रविष्ट- या ॥ तथा भाद्रपदे पौष्णामाजाङ्घिसंयुतम् ॥७॥ अश्विनीभरणीयुक्तं तथा चाश्वयुजे विभुम ॥ गन्धमाल्यनमस्कारधूपदीपात्रसंपदा ॥ ८ ॥
वि० ध० तृ० खं० अ० १९६ ॥३९०॥
गुडेन परमान्नेन लवणेन घृतेन च। इक्षुणेक्षुविकारैश्च पयसा पायसेन च ॥४॥ पूज्याश्चाश्विभवानांयस्तथा तल्लक्षणैः शुभैः ॥ ततोऽनन्तरमश्नी याद्विधिव्यं प्रयतो नरः ॥ १० ॥ ब्राह्मणानां व्रतान्ते तु महाराजतरंजितम् ॥ शक्त्या च वसनं दद्याद्रात्रौ वा यदि वा नरः ॥ ११ ॥ रूपसौ भाग्यलावण्यधनयुक्तो भवेन्नरः ॥ व्रतेनानेन चीर्णेन स्वर्गलोकं च गच्छति ॥ १२ ॥ सोपवासस्तु यः कुर्याद्व्रतमेतदनुत्तमम् ॥ अश्वमेधसहस्र स्य फलं प्राप्नोति मानवः ॥ १३ ॥ सौभाग्यादि च यत्प्रोक्तं तदामोति विशेषवत ॥ मनसा वाञ्छितान्कामान्सर्वानप्राप्नोत्यसंशयम् ॥ १४ ॥ इति श्री जनाभिरामश्च शशाङ्कवत्स्याच्छादनालाभश्च तथैव लक्ष्म्या ॥ शकेन तुल्यश्च तथैव शक्त्या मानुष्यमासाद्य भवेच्च राजन् ॥ १५ ॥ इति श्री विष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे मासविधेर्पौर्णमासीव्रतवर्णनो नाम द्विनवत्युत्तरशततमोऽध्यायः ॥ १९२ ॥ मार्कण्डेय उवाच ॥ कार्त्तिक के पौर्णमास्यां तु पूर्णं शिशिरदीधितिम्॥ पद्म षोडशपत्रेषु कर्णिकायां तु पूजयेत् ॥ १ ॥ केसरे पूजयत्तत्र नक्षत्राण्यष्टाविंशतिः ॥ पत्रेषु ति थिदेवांश्च तथा ज्योत्स्नां च पूजयेत् ॥ २ ॥ गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥ गुडेन परमान्नेन दध्ना च लवणेन च ॥ ३ ॥ अपूपैश्च महाभाग फलैः कालेोद्भवैस्तथा ॥ व्रतावसाने दद्याच्च वासोयुग्मं द्विजातये ॥ ४ ॥ ब्राह्मणेषु च महाभाग महाराजतरञ्जितम् ॥ पूज्यौच विधि ना शक्त्या कालविद्वाचकावुभौ ॥ ५ ॥ सोपवासोऽथ नक्ताशी व्रतमेतत्समाचरेत् ॥ नक्ताशनो वा धर्मज्ञ तथैव च हविष्यभुक् ॥ ६ ॥ सौ भाग्यदं रूपविवर्धनं च लावण्यदं कीर्तिविभोगदं च ॥ कार्यं प्रयत्नेन नरेन्द्र पुंसा कार्यं तथा स्त्रीभिरदीनसत्त्व ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पौर्णमासीव्रतवर्णनो नाम त्रिनवत्युत्तरशततमोऽध्यायः ॥ १९३ ॥ मार्कण्डेय उवाच ॥ मार्गशीर्षादारभ्य चन्द्रमण्डलं के नरः ॥ सोपवासस्तु संपूज्य पौण्डरीकफलं लभेत् ॥ १ ॥ कृत्वा व्रतं वत्सरमेतदिष्टं प्राप्नोति लोकं स निशाकरस्य ॥ तत्रोष्य राजन्सुचिरं च कालं सायुज्यमाप्नोति ततश्च तस्य ॥ २ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे चन्द्रव्रतवर्णनो नाम चतुर्नवत्युत्तरशततमो ऽध्यायः ॥ १९४ ॥ मार्कण्डेय उवाच ॥ प्रौष्ठपादादारभ्य संपूर्णं शशलाञ्छनम् ॥ संजप्य वरुणं देवं गन्धमाल्यान्नसंपदा ॥ १ ॥ दत्त्वा व्रताव साने तु जलधेनुं द्विजातये ॥ छत्रोपानहसंयुक्तं वासोयुगविभूषिताम् ॥ २ ॥ प्राप्नोति लोकं वरुणस्य राजंस्तत्रोष्य कालं सुचिरं मनुष्यः ॥ मानुष्यमासाद्य भवत्यरोगी रूपान्वितो वित्तयुतस्तथैव ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे वरुणव्रतवर्णनो नाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ १९५ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ अश्वयुक्ते शुक्ले तु पौर्णमास्यां नरः शुचिः ॥
॥३९०॥
सोपवासो नरेन्द्रस्तु देवं सम्पूजयेत्तथा ॥ १ ॥ शचीमैरावतं वज्रं मातलिं च नराधिप ॥ गन्धमाल्यनमस्कारधूप-
दीपान्नसंपदा ॥ २ ॥ संवत्सरान्ते कनकं तु दत्त्वा प्राप्नोति लोके स पुरन्दरस्य ॥ मातुल्यमासाद्य नरेन्द्रपूज्यो राजा भवेद्वा
द्विजपुङ्गवो वा ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शक्रव्रतवर्णनो नाम षण्णवत्युत्तरशततमोऽध्यायः ॥ १९६ ॥
॥ मार्कण्डेय उवाच ॥ ॥ उपोषितश्चतुर्दश्यां पौर्णमास्यां नरोत्तमः ॥ पञ्चगव्यं पिबेत्पक्षाद्विष्याशी तथा भवेत् ॥ १ ॥ संवत्सरं
तथा कृत्वा मासपापात्प्रमुच्यते ॥ तस्मात्सर्वप्रयत्नेन मासिमासि समाचरेत् ॥ २॥ संवत्सरं प्राप्य नरेन्द्रलोकं तत्रोष्य राजन्सुचिरं द्विजेन्द्रः ॥
मातुल्यमासाद्य नरेन्द्रपूज्यो राजा भवेद्वा द्विजपुङ्गवो वा ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मकूर्चवर्णनो नाम
सप्तनवत्युत्तरशततमोऽध्यायः ॥ १९७ ॥ ॥ छ ॥ ॥ छ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ योगभूतं हरिं देवं चतुर्दश्या
मुपोषितः ॥ अर्चयेत्पौर्णमास्यां तु सोऽश्वमेधफलं लभेत् ॥ १ ॥ ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ॥ राजसूयमवाप्नोति कुलमुद्धरति स्व-
कम् ॥ २ ॥ ब्रह्मभूतमुमावस्यां पौर्णमास्यां च पूजयेत् ॥ योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ ३ ॥ अत्यर्थं प्रीतिमायाति मासपक्षान्तयोः
सदा ॥ पूजितः सोपवासेन भक्त्या देववरो हरिः ॥ ४ ॥ महाव्रतमिदं ख्यातं सर्वकल्मषनाशनम् ॥ संवत्सरमिदं कृत्वा नाकपृष्ठे महीयते ॥ ५ ॥
सर्वपापप्रशमनं व्रतमेतत्प्रकीर्तितम् ॥ स्ववित्तशक्तिकोवात्र सर्वकर्मसु कारणम् ॥ ६ ॥ कृत्वा व्रतं द्वादशवत्सराणि प्राप्नोति लोकं पुरुषोत्तमस्य ॥
तत्रोष्य राजन्सुचिरं सुकालं प्राप्नोति मोक्षं पुरुषस्ततोन्ते ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाव्रतं नामाष्ट-
नवत्युत्तरशततमोऽध्यायः ॥ १९८ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन तिर्यग्योनौ न जायते ॥ म्लेच्छदेशे च पुरुषस्तं ममाचक्ष्व पृच्छतः
॥ १ ॥ मार्कण्डेय उवाच ॥ मेषसंक्रमणे भानोः सोपवासो नरोत्तमः ॥ पूजयेद्भगवंतं रामं देवं शक्त्या यथाविधि ॥ २ ॥ कन्यासंक्रमणे प्राप्ते
तथा कृष्णं च पूजयेत् ॥ तथा मिथुनसंक्रान्तौ पूजयेद्भोगशायिनम् ॥ ३ ॥ तथा कुलीरसंक्रान्तौ वराहमपराजितम् ॥ नरसिंहं तथा देवं
सिंहसंक्रमणे विभुम् ॥ कन्यासंक्रमणे देवं श्रीरूपं पूजयेन्नरः ॥ ४ ॥ तुलासंक्रमणे प्राप्ते वामनं नृप पूजयेत् ॥ तथा वृश्चिकसंक्रान्तौ देवदेवं
त्रिविक्रमम् ॥ ५ ॥ धनुःसंक्रमणे देवं तथाथिरसिरं नृप ॥ तथा मकरसंक्रान्तौ रामं दशरथात्मजम् ॥ ६ ॥ कुंभसंक्रमणणे राजाम्नं पाडवन्द-
नन् ॥ मीनसंक्रमे मत्स्यं वासुदेवं तु पूजयेत् ॥ ७ ॥ पटे वा यदि वार्चायां गन्धमाल्यअन्नसंपदा ॥ प्रादुर्भावस्य नाम्नाभ होमं कुर्यात् पार्थिवा ॥ ८ ॥
६६
वि० ध० ॥३९१॥ तृ० खं० अ० ॥३९१॥
व्रतान्ते जलधेनुं च च्छत्रोपानत्समन्विताम्॥ वस्त्रयुग्मयुतां दद्यात्प्रतिमासं च काञ्चनम् ॥ रात्रौ च दीपमालाभिर्देवदेवं तु पूजयेत् ॥ ९ ॥
कृत्वा व्रतं वत्सरोत्थं दिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म ॥ प्राप्नोत्यवाप्नोति चिरं च नाकं कामं तथाप्नोति मनोभिरामम् ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुदेशजन्मप्राप्तिव्रतवर्णनो नाम नवनवत्युत्तरशततमोऽध्यायः॥ १९९॥ वज्र उवाच ॥ इष्टां जातिं मवाप्नोति कर्मणा येन मानवः ॥ तन्ममाचक्ष्व धर्मज्ञ त्वं हि सर्वविदुच्यसे ॥ १ ॥ मार्कण्डेय उवाच ॥ पौरुषेषु सदा ते वै त्रिरात्रोपोषितो नरः ॥ चैत्रमासादारभ्य कार्तिके पूजयेद्धरिम् ॥ २ ॥ पौरुषेण च सूक्तेन ऋग्भिः पुष्पैः फलैस्तथा ॥ धूपैर्दीपेस्तथान्नेन घृताहुतिभिरेव च ॥ ३ ॥ धेनुर्व्रतान्ते दातव्या कृत्वा संवत्सरं व्रतम् ॥ यथेष्टां जातिमाप्नोति नात्र कार्या विचारणा ॥ ४ ॥ न केवलं जातिकरं प्रदिष्टं व्रतोत्तमं यावद्द्दीनस्त्व ॥ कामानां प्राध्यनुरूपस्य दद्यान्मोक्षं च दद्याद्रूपप्रधानं ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे इष्टजात्याप्तिव्रतवर्णनो नाम द्विशततमोऽध्यायः॥ २०० ॥
वज्र उवाच ॥ भगवन्कर्मणा केन कुले जन्म समश्नुते ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ १ ॥
मार्कण्डेय उवाच ॥ बृहद्विशि तु संप्राप्य त्रिरात्रोपोषितो नरः ॥ मार्गशीर्षादारभ्य पूजयेत्तु त्रिविक्रमम् ॥ २ ॥ त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः ॥ त्रयोदशुलपेना दया त्रिसारं धूपमेव तु ॥ ३ ॥ बलिं त्रिमधुरं दद्याच्चैवैव दीपान्घृतप्लुतम् ॥ यवैस्तिलैस्तथा होमः कर्तव्यः सर्षपैर्युतैः ॥ ४ ॥ दद्याद्विप्रेभ्यस्तथा सुवर्णं रजतं च राजन् ॥ न केवलं सत्कुलदं व्रतं तु यथेष्टकामाप्तिकरं प्रदिष्टम् ॥ ५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सत्कुलावाप्तिव्रतवर्णनो नामैकोत्तरीद्विशततमोऽध्यायः॥ २०१ ॥
वज्र उवाच ॥ भवन्कर्मणा केन रूपवाञ्जायते नरः ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ १ ॥
मार्कण्डेय उवाच ॥ फाल्गुन्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ यावच्चैत्री महाराज तावत्स्नातो दिनेदिने ॥ २॥ बहिः सम्पूजयेद्देवं केशवं भोगशायिनम् ॥ एकभक्ताशनो नक्तमथःशायी तथा भवेत् ॥ ३ ॥ त्रिरात्रोपोषितः कुर्यात्पूजां चैत्र्यां तथैव च ॥ स्वशक्त्या रजतं दद्याद्रुक्ययुग्मं तथैव च ॥ ४ ॥ रूपान्वितो मासमिदं मयोक्तं व्रतोत्तमं नित्यमदीनसत्त्व ॥ कृत्वा च नाकं मनुजस्त्ववाप्य मातुष्यमासाद्य च रूपवान्स्यात् ॥ ५ ॥
इति श्रीविष्णु० ध० तृ०ख० मा० व० सं० रूपावाप्तिव्रतवर्णनो नाम द्व्युत्तरोद्विशततमोऽध्यायः ॥२०२॥
वज्र उवाच ॥ भगवन्कर्मणा केन नरो लावण्यमाप्नुयात् ॥ लावण्यरहितं रूपं निष्फलं प्रतिभाति मे ॥१॥
मार्कण्डेय उवाच ॥ कार्तिकायां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पटे वा यदि वार्चायां प्रद्युम्नं
पूजयत्प्रसूनैश्शान्तैः स्नानं सदा कुर्यान्नक्तमश्नीत वाग्यतः ॥ एकभुक्तं महाराज हविष्यं प्रयतः सदा ॥ ३ ॥ मार्गशीर्षे तथा प्राप्य त्रिरात्रोपोषितः शुचिः ॥ संपूज्य देवं प्रद्युम्नं हुत्वाऽग्नौ घृतमेव च ॥ ४ ॥ भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोक्तकम् ॥ चूर्णितस्य ततः प्रस्थं लवणस्य द्विजातये ॥ ५ ॥ महाराजतकृतं च वस्त्रयुग्मं तथा गुरोः ॥ दद्याच्च कनकं राजन्कांस्यपात्रं रसैर्युतम् ॥ ६ ॥ एतद्धि लावण्यकरं प्रदिष्टं व्रतोत्तमं नाकगतिप्रदं च ॥ न केवलं यादववीर कामाभिरामो भवेत्पुरुषप्रधानः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मा० व०सं० लावण्यव्रतवर्णनो नाम त्र्युत्तरद्विशततमोऽध्यायः ॥ २०३ ॥
वज्र उवाच ॥ भगवन्कर्मणा केन सौभाग्यं महदाप्नुयात् ॥ लावण्यहेतुः सौभाग्यं विना ज्ञेयं निरर्थकम् ॥ १ ॥
मार्कण्डेय उवाच ॥ माघ्यां तु समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पटे वा यदि वाऽर्चायां कृष्णं सम्पूजयेत्सदा ॥ २ ॥ पूर्वोक्तं सकलं कुर्याद्धविष्यं च धराधिप ॥ नित्यं समाचरेत्स्नानं तथा गन्धप्रियंगुना ॥ ३ ॥ फाल्गुन्यां तान्ततो दद्याद्विप्रेभ्यः समुपोषितः शुचिः ॥ ४ ॥ वस्त्रे च देये नृप कुंकुमाक्ते सौवर्णं पात्रं च तथैव कांस्यम् ॥ सौभाग्यदं चैतदनुत्तमं ते व्रतं मयैतत्कथितं नृवीर ॥ ५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सौभाग्यवाप्तिव्रतवर्णनो नाम चतुरुत्तरद्विशततमोऽध्यायः ॥ २०४ ॥
वज्र उवाच ॥ भगवन्कर्मणा केन नरस्त्वरोग्यमाप्नुयात् ॥ रूपसौभाग्यलावण्याः सरोगस्य निरर्थकाः ॥ १ ॥
मार्कण्डेय उवाच ॥ प्रौष्ठपद्यामतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पटे वा यदि वाऽर्चायामनिरुद्धं तु पूजयेत् ॥ २ ॥ पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत् ॥ सर्पिषार्चयेद्देवं जातीपुष्पैर्दिनेदिने ॥ ३ ॥ घृतेन जुहुयाद्वह्निं घृतं दद्याद्विजातये ॥ भोजनं गोरसप्रायं तथा विप्रांश्च भोजयेत् ॥ ४ ॥ त्रिरात्रोपोषितः सम्यगाश्वयुज्यां ततो नरः ॥ सघृतं ससुवर्णं च कांस्यपात्रं द्विजातये ॥ ५ ॥ दद्यान्नृपतिशार्दूल नरस्त्वारोग्यवृद्धये ॥ व्रतमेतद्विनिर्दिष्टं स्वर्गलोकप्रदं नृणाम् ॥ ६ ॥ न केवलं रोगहरं प्रदिष्टमायुस्करं रूपविवृद्धिदं च ॥ व्रतोत्तमं ते कथितं नृवीर तथैष्टकामाप्तिकरं नृलोके ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आरोग्यव्रतवर्णनो नाम पञ्चोत्तरद्विशततमोऽध्यायः ॥ २०५ ॥
वज्र उवाच ॥ भगवन्कर्मणा केन प्रज्ञायुक्तो भवेन्नरः ॥ एतद्देव मनुष्याणां मनुष्यत्वमुदाहृतम् ॥ १ ॥
मार्कण्डेय उवाच ॥ चैत्र्यां तु समतीतायां यावन्मासं दिनेदिने ॥ पूर्ववत्पूजयेद्देवं नृसिंहमपराजितम् ॥ २ ॥ होमं च प्रत्यहं कुर्यात्तथा सिद्ध्यर्थकैर्नृप ॥ ब्राह्मणान्भोजयेच्चात्र तथा त्रिमधुरं सदा ॥ ३ ॥ वैशाख्यां कनकं दद्यान्त्रिरात्रोपोषितो नरः ॥ ज्ञानावाप्तिप्रदं ह्येतद्व्रतं बुद्धिविवर्धनम् ॥ ४ ॥ कृत्वा व्रतं मासमिदं मयोक्तमासाद्य नाकं सुचिरं मनुष्यः ॥ मानुष्यमासाद्य च बुद्धियुक्तो ज्ञानेन युक्तश्च तथा भवेत्तु ॥ ५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे
वि० ध० ॥३१२॥
तृ० खं० अ० २११ ॥३१३॥
मार्कण्डेयवज्रसंवादे बुद्ध्यावाप्तिव्रतवर्णनो नाम पञ्चोत्तरद्विशततमोऽध्यायः ॥ २०६ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन विद्यावान्पुरुषो भवेत् ॥ सुविद्य एव विज्ञेयः पुरुषः पशुतान्यथा ॥ १ ॥ मार्कण्डेय उवाच ॥ पौष्यान्तु समतीतायां प्रतिपप्रभृति क्रमात् ॥ प्राग्वत्संपूजयेद्देवं तुंगंणशिरसं हरिम् ॥ २॥ तिलैश्च जुहुयाद्धौ तिलैर्देवं समर्चयेत् ॥ चिरात्रोपोषितो माध्यां तिलान्कनकमेव वा ॥ ३॥ दद्याद्ब्राह्मणमुख्याय सम्यक्प्रयतमानसः ॥ भुक्त्वं यज्ञोपवीतञ्च प्रमृतमपि चेन्मनाम् ॥ ४॥ कृत्वा व्रतं मासमिदं मर्योक्तं विद्यान्वितः स्यात्पुरुषः सदैव ॥ स्वलोकमासाद्य सुखानि भुक्त्वा कामानभीष्टान्पु रूपीभवते चार्द्ध॥ इति विष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे विद्यावाप्तिव्रतवर्णनो नाम सतोत्तरद्विशततमोऽध्यायः ॥२०७॥ वज्र उवाच ॥ भगवन्कर्मणा केन शीलवान्पुरुषो भवेत् ॥ कुलजातिश्रुतिभ्यश्च शीलमेव विशिष्यते ॥ १ ॥ मार्कण्डेय उवाच ॥ आग्रहायण्यामतीतायां मासमेकं दिनेदिने ॥ पूर्ववत्पूजयेद्देवं वराहमपराजितम् ॥ २॥ घृतेन स्नापयेद्देवं घृतेन जुहुयाद्धविः ॥ घृतं द्विजेभ्यो दद्याच्च घृतमेव निवेदयेत् ॥ ३॥ त्रिरात्रोपोषितः पौष्यां घृतपात्रेण च द्विजान् ॥ पूजयेत्ससुवर्णेन यथाशक्ति नराधिप ॥ ४ ॥ कृत्वा व्रतं मासमिदं मर्योक्तं चासाद्य नाकं सुचिरं मनुष्यः ॥ मानुष्यमासाद्य च शीलवान्स्यात्प्राप्नोति पुष्टिं चिरजीवितं च ॥५॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे शीलवाप्ति व्रतवर्णनो नामाष्टोत्तरद्विशततमोऽध्यायः ॥ २०८ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन नित्यं धर्मपरो भवेत् ॥ धर्मोद्विज महाराज धर्मस्य फल्यकारणात् ॥ १ ॥ मार्कण्डेय उवाच ॥ आषाढ्यां समतीतायां प्रतिपप्रभृति क्रमात् ॥ पूर्ववत्पूजयेद्देवं धर्मविद्यद्गधारिणम् ॥२॥ मासस्य चान्ते नृप पौर्णमास्यां कृत्वा त्रिरात्रं कनकञ्च दद्यात् ॥ व्रतोत्तमं धर्मकरं तवोक्तं सर्वार्थदं नात्र विचारणास्ति ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धर्मप्राप्तिव्रतवर्णनो नाम नवोत्तरद्विशततमोऽध्यायः ॥ २०९ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन धनवान्पुरुषो भवेत् ॥ धनवानेव लोकेषु पूज्यो भवति मानवः ॥ १ ॥ मार्कण्डेय उवाच ॥ श्रावण्यां समतीतायां प्रतिपप्रभृति क्रमात् ॥ पूर्ववत्पूजयेद्विष्णुं देवं सङ्कर्षणं प्रभुम् ॥ २ ॥ नीलोत्पलैस्तथा पद्मैश्च भृंगिराजस्य च ॥ घृतेन परमान्नेन तथा विल्वेक्ष शक्तिसः ॥ ३ ॥ त्रिरात्रोपोषितः सम्यक् प्रौष्ठपद्यां ततो नरः ॥ गां च दद्याद्विजेन्द्राय व्रतान्ते मनुजोत्तमः ॥ ४ ॥ कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः ॥ मानुष्य मासाद्य धनान्वितः स्याद्व्रतेन चीर्णेन नरैन्द्रसिंह ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धनावाप्तिव्रतवर्णनो नाम दशोत्तर द्विशततमोऽध्यायः ॥ २१० ॥ वज्र उवाच ॥ श्रीविहीनस्य लोकेऽस्मिन्किं धनेन महाद्युते ॥ तस्माद्व्रतं समाचक्ष्व येन स्याच्छ्रीयुतो
नरः ॥ १ ॥ मार्कण्डेय उवाच ॥ वैशाख्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पूर्ववत्पूजयेद्देवं श्रीमत्सहायं दिनेदिने ॥ २ ॥ पुष्पमूलैः फलैश्चैव जुहुयादक्षतांस्तथा ॥ बिल्वांश्च वह्नौ सततं गौरैस्सर्षपैररिष्टजान् ॥ ३ ॥ त्रिरात्रोपोषितो ज्येष्ठे कनकं प्रतिपादयेत् ॥ वस्त्रयुग्मं च राजेन्द्र तेन साफल्यमश्नुते ॥ ४ ॥ कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः ॥ मानुष्यमासाद्य विवृद्धतेजाः श्रिया युतः स्याज्जाति प्रधानः ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे श्रीलब्धिव्रतवर्णनो नामैकादशोत्तरद्विशततमोऽध्यायः ॥ २११ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन भोगानवाप्नोति मानवः ॥ किन्तु भोगविहीनस्य कार्यमस्ति धनैर्द्विज ॥ १ ॥ मार्कण्डेय उवाच ॥ ज्येष्ठायां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पूर्ववत्पूजयेद्देवं विश्वरूपधरं हरिम् ॥ २ ॥ कृत्वा व्रतान्ते च तथा त्रिरात्रं दत्त्वा सुयुक्तं शयनं द्विजाय ॥ स्वलोकमासाद्य चिरं तथोष्य मानुष्यमासाद्य च भोगवान्स्यात् ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे भोगावाप्तिव्रतवर्णनो नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥ २१२ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन सर्वत्र जयमाप्नुयात् ॥ व्यवहारे रणे द्यूते विवादे च द्विजोत्तम ॥ १ ॥ जयावाप्तिः परं नास्ति सौख्यं लोकेषु सत्तम ॥ जयावाप्तिः परं सौख्यं तदात्वित्युच्यताम् ॥ २ ॥ मार्कण्डेय उवाच ॥ आश्वयुज्यामतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पूर्ववत्पूजये- द्विष्णुं देवदेवं त्रिविक्रमम् ॥ ३ ॥ त्रिरात्रान्ते तु कार्त्तिक्यां दद्यात्कृष्णाजिनोत्तमम् ॥ सर्वसस्यवरं कृत्वा शक्त्या रत्नैरलंकृतम् ॥ ४ ॥ कृत्वा व्रतं मासमिदं यथोक्तं प्राप्नोति नाकं सुचिरं नृवीरः ॥ तत्रोष्य कालं सुचिरं मनुष्यः प्राप्नोति सर्वत्र जयं त्रिलोके ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे जयावाप्तिव्रतवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥ वज्र उवाच ॥ व्रतान्यन्यानि मे ब्रूहि काम्यानि द्विज- पुङ्गव ॥ नारीणां पुरुषाणां वा सर्वशस्तत्वं मतो मम ॥ १ ॥ मार्कण्डेय उवाच ॥ कृत्तिकासु त्वर्चयेद्देवं कार्त्तिकप्रभृतिक्रमात् ॥ यावत्स्यात्का- र्तिकं भूयो नरसिंहमुपोषितः ॥ २ ॥ अनुलेपनपुष्पाद्यैः सर्वैरूपैस्तथैव तु ॥ व्रतावसाने दत्त्वा च चन्दनं तगरं द्विजे ॥ ३ ॥ चर्म चैवाशुभं मुख्यं वासांसि विविधानि च ॥ सर्वत्र जयमाप्नोति यत्रयत्राभिजायते ॥ ४ ॥ मार्गशीर्षात्समारभ्य मृगशीर्षे तथाऽर्चयेत् ॥ यावद्भाद्रपदी भूयो रामं दशरथात्मजम् ॥ ५ ॥ अनुलेपनपुष्पाद्यैः सर्वरत्नैः सदैव तु ॥ व्रतावसाने दद्याद्गां तथा श्वेतां द्विजातये ॥ ६ ॥ श्वेतं वस्त्रयुगं चैव रजतं च तथा नृप ॥ उपोषितः सदा कृत्वा व्रतं स्याच्छत्रुवर्जितः ॥ ७ ॥ पौषमासादारभ्य पुष्ये नित्यमुपोषितः ॥ यावत्पौषी भवेद्भूयो बल- भद्रमथार्चयेत् ॥ ८ ॥ अनुलेपनपुष्पैः सर्वरत्नैस्तथैव च ॥ व्रतावसाने सघृतं कांस्यं कनकमेव च ॥ ९ ॥ दत्त्वा विप्राय भवति नित्यं पुष्टि
वि० ध० ॥३१३॥ बृ० सं० अ० २१५
युतो नरः ॥ माघमासादारभ्य मघासु सततं नरः ॥ १० ॥ वाराहमर्चयेद्देवं तथा नित्यमुपोषितः ॥ घृताभ्यङ्गेन विधिवच्चन्दनेन सुगन्धि- ना ॥ ११ ॥ तथा च परमान्नेन घृतेहोमेन चाप्यथ ॥ दद्याद्व्रतावसाने च क्षितिं गां वा नराधिप ॥ १२ ॥ पितृन्साद्माप्नोति कृत्वा चैतद्व्रतोत्त- मम् ॥ फाल्गुनात्तु तथारभ्य फाल्गुनीषु समर्चयेत् ॥ १३ ॥ नरनारायणौ देवौ यावत्स्यात्फाल्गुनी पुनः ॥ व्रतावसाने शयनं स्वास्तीर्णं प्रति- पादयेत् ॥ १४ ॥ व्रतावसाने नारी स्यात्सुभगां समलं कृता ॥ भार्या नरस्तथाप्नोति रूपद्रविणसंयुताम् ॥ १५ ॥ अनुकूलां श्रियं नित्यं तथा पक्षवतीं नृप ॥ अवियोगोभवेच्चैव करोत्येतन्महाव्रतम् ॥ १६ ॥ चैत्रमासादारभ्य नित्यं चित्रास्वथार्चयेत् ॥ व्रतावसाने दद्याच्च चित्रं वस्त्रं द्वि- जन्मने ॥ १७ ॥ व्रतेनानेन पुरुषः पुत्रानाप्नोत्यभीप्सितान्॥ नारी वा पुरुषव्याघ्र नात्र कार्या विचारणा ॥ १८॥ वैशाखोदस्तथारभ्य विशाखासु तथार्चयेत् ॥ यावद् भूपस्तु वैशाखी सोपवासः पृथग्विभुम् ॥ १९॥ दत्त्वा व्रतान्ते कनकं ज्ञातिश्रैष्ठ्यमवाप्नुयात्॥ ज्येष्ठमासादारभ्य ज्येष्ठासु सततं नरः॥२०॥अर्चयेद्भागवं रामं यावज्ज्येष्ठं पुनर्भवेत् ॥ व्रतावसाने दद्याच्च छत्रोपानहमेव च ॥२१॥ व्रतेनानेन भवति सर्वश्रेष्ठो नरोत्तम ॥ आषा- ढीस्तथारभ्य दिनद्वयमुपोषितः ॥ २२ ॥ आषाढायां त्वर्चयेद्देवं प्रद्युम्नमपराजितम् ॥ भूयः स्याद्यावदाषाढी दद्याच्च शयनं ततः ॥ २३ ॥ स्वास्तीर्णं तेन चाप्नोति नित्यं रूपयुताः स्त्रियः ॥ श्रावणीतस्तथारभ्य श्रवणे सततं हरिम् ॥ २४ ॥ अर्चयेत्सोपवासं तं यावत्स्याच्छ्रावणी पुनः ॥ व्रतावसाने दद्याच्च कांस्यं रूप्यं घृतं तथा॥ २५॥व्रतान्येतानि मया नरेन्द्र प्रोक्तानि ते पापहराणि नित्यम् ॥ नक्रप्रदान्युत्तमपूरुषाणां पाञ्कामाप्रदानि यथेष्टमत्रा ॥२६॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे द्वादशमाससंवत्सरव्रतवर्णनो नाम चतुर्दशोत्तरद्विशततमोऽध्यायः ॥ २१४ ॥ वज्र उवाच ॥ आराधनार्थं देवस्य विष्णोरमिततेजसः ॥ व्रतान्यन्यानि मे ब्रूहि भृगुवंशविवर्धन ॥ १ ॥ मार्कण्डेय उवाच ॥ गङ्गाद्वारे सुखासीनः पुलस्त्यऋषिसत्तमः ॥ व्रतानि यानि दाल्भ्याय जगाद शृणु तानि मे ॥ २ ॥ दाल्भ्य उवाच ॥ आराधना- र्थं देवस्य विष्णोरमिततेजसः ॥ व्रतानि त्वं समाचक्ष्व सर्वधर्मभृतां वर ॥ ३ ॥ पुलस्त्य उवाच ॥ एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः ॥ जपेत्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ॥ ४ ॥ देवाग्रे चाक्षतं कुर्व्वंस्तत्र जपेच्छुचिः ॥ स्नातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ॥ ५ ॥ पाषण्डान्पतितांश्चैव तथैवान्त्यावसायिनः ॥ नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः ॥ ६ ॥ इदं चोदाहरेत्कृष्णं मनः सन्धाय तत्परः ॥ कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव ॥ ७ ॥ संसारार्णवमग्नानां प्रसीद मधुसूदन ॥ एवं
प्रसाद्योपवसेत्कृत्वा नियतमानसः ॥ ८ ॥ पूर्वेहि चान्येद्युश्चापि गव्यं संप्राश्य वै सकृत् ॥ स्नातोतोयाचम्यैवा कृष्णस्य नाम प्रकीर्तयेत् ॥ ९ ॥
वारिधाराव्रते चैव विक्षिपेद्देवपादयोः ॥ चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे च पूजयेत् ॥ १० ॥ मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः ॥
उत्क्रान्तिकाल कृष्णस्य स्मरणं च तथाऽश्नुते ॥ ११ ॥ आषाढे श्रावणे चैव मासि भाद्रपदे तथा ॥ तथैवाश्वयुजे मासि अनेन विधिना नरः
॥ १२ ॥ उपोष्य संपूज्य तथा केशवेति च पूजयेत् ॥ गोमूत्रप्राशनातपूतः स्वर्गलोकगतिं व्रजेत् ॥ १३ ॥ आराधितस्य जगतामीश्वरस्याव्यय
स्य च ॥ उत्क्रान्तिकाल स्मरणं केशवस्य तथाप्नुयात ॥ १४ ॥ क्षीरस्य प्राशनं यस्तु विधि चेमं यथोदितम् ॥ कार्तिकादि यथान्यायं कुर्या
न्मासचतुष्टयम् ॥ १५ ॥ तेनैव विधिना ब्रह्मन्विष्णोर्नाम प्रकीर्तयेत् ॥ स याति विष्णुसालोक्यं विष्णुं स्मरति चाक्षयम् ॥ १६ ॥ प्रतिमासं
द्विजातिभ्यो दद्याद्दानं यथाविधि ॥ चातुर्मास्ये च संपूर्णे पुण्यश्रवणकीर्तनम् ॥ १७ ॥ अथ वा वासुदेवस्य तद्गीतं चापि कारयेत् ॥ एवमेति
गतिं श्रेष्ठां देवमानुष्यकीर्तनात् ॥ १८ ॥ कथितं पारणं चैते कार्यं मासचतुष्टयम् ॥ आधिपत्यं तथा भोगांस्तेन प्राप्नोति चाक्षयान ॥ १९ ॥
द्वितीयेन तथा भोगान्नन्दिनाप्नोति मानवः ॥ विष्णुलोके तृतीयेन पारणेन तथाप्नुयात ॥ २० ॥ एवमेतन्मयाख्यातं गतिप्रापकमुत्तमम् ॥
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ॥ २१ ॥ सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः ॥ उपोषयति तथा नारी प्राप्नोति विविधां गतिम्
॥ २२ ॥ एषा तिथिः पापहरातिधन्या नाकप्रदा नाकरकी तथोक्ता ॥ आराधनार्थं त्रिदशेश्वरस्य देवस्य विष्णोर्द्विजसंघपूज्य ॥ २३ ॥ इति
श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिद्वादशीव्रतवर्णनो नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥ २१५ ॥ पुलस्त्य उवाच ॥
पञ्चदश्यां तु शुक्लस्य फाल्गुनस्यैव सत्तम ॥ पाषण्डान्यपतितांश्चैव तथैवान्यावसायिनः ॥ १ ॥ नास्तिकान्भिन्नवृत्तींश्च पापानन्यांश्च नालपेत् ॥
नारायणं त्वेकमनाः पुरुषो नियतेन्द्रियः ॥ २ ॥ तिष्ठन्व्रजन्स्रवल्लिते क्षुते चापि जनार्दनम् ॥ कीर्तयेत् तत्क्रियाकाले समक्तूल्वः प्रकीर्तयेत् ॥ ३ ॥
लक्ष्म्या समन्वितं देवं त्वर्चयेच्च जनार्दनम् ॥ सन्ध्याद्यापरमे चेन्दुस्वरूढं हरिमीश्वरम् ॥ ४ ॥ रात्रौ लक्ष्मीं च संचिन्त्य सम्यगर्घ्येण पूजयेत् ॥
नक्तं च भुञ्जीत नरस्तैलेक्षारविवर्जितम् ॥ ५ ॥ तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम ॥ अर्चयेत् तथा प्रोक्तं प्रतिप्राप्ते तु तद्दिने ॥ ६ ॥
निष्पादितं भवेदेकं पारणं दाल्भ्य भक्तिः ॥ द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम ॥ ७ ॥ आषाढे श्रावणे चापि प्राप्ते
भाद्रपदे तथा ॥ तथैवाश्वयुजेमर्च्य श्रीधरं वै श्रिया सह ॥ सम्यक्चन्द्रमसो दत्त्वा भुञ्जीताधं यथाविधि ॥ ८ ॥ द्वितीयमेतद्दा
ख्यातं तृतीयं पारणं शृणु ॥ कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ॥ ९ ॥ भूम्या समन्वितं दद्याच्छाङ्खार्घ्यहणं निशि ॥ भुञ्जीत च यथाख्यातं तृतीयमिति पारणम् ॥ १० ॥ प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् ॥ प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ॥ ॥ ११ ॥ प्रथमांश्चतुरो मासानपश्वाग्न्यासुदाहतान् ॥ कुशौदकं तथैवान्युक्तं मासचतुष्टयम् ॥ १२ ॥ सूर्यांशुतप्तं तद्वच्च जले मासचतुष्टयम् ॥ गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथाम् ॥ १३ ॥ कारयेत्तु च देवस्य पारणं पारणे गते ॥ एवं संपूज्य विधिवत्पत्नीकं जनार्दनम् ॥ ॥ १४ ॥ नाप्नोतीष्टवियोगोर्त्तिं पुमान्योषित्तथापि वा ॥ जनार्दनं सलक्ष्मीकमर्चयेत्प्रथमं ततः ॥ १५ ॥ सश्रीकं श्रीधरं भक्त्या तृतीये भक्तिकेशवौ ॥ यावन्त्येताद्वधानेन पारणान्यर्चयेत्प्रभुम् ॥ तावन्ति जन्मानि सुखं प्राप्नोतीष्टवियोगजम् ॥ १६ ॥ प्राप्नोति देवस्मरणं च मृत्यौ तदापि चाप्नोति मनोऽनुकूलाम् ॥ गतिं द्विजश्रेष्ठ ततोपि काले सायुज्यमायाति जनार्दनस्य ॥ १७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिपौषमासिकल्पवर्णनो नाम षोडशोत्तरद्विशततमोऽध्यायः ॥२१६॥ ॥ छ ॥
॥ पुलस्त्य उवाच ॥ शृणु दाल्भ्य परं कामं व्रतं सन्ततिदं नृणाम् ॥ यदुपोष्य न विच्छेदः पितृपिण्डस्य जायते ॥ १ ॥ कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः ॥ कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते नरः ॥ २ ॥ निराहारो जपन्नाम कृष्णस्य जगतः पतेः॥ उपविष्टो व्रजन्स्नातः श्रुतमस्त्वलनादिषु ॥ ३ ॥ पूजायां चापि कृष्णस्य सप्तवारान्प्रकीर्तयेत् ॥ पाषण्डिनो विकर्मस्थांश्चलेपश्चैव नास्तिकान् ॥ ४ ॥ प्रभाते च ततः स्नातो दत्त्वा विप्राय दक्षिणाम् ॥ भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ॥ ५॥ वैशाखज्येष्ठयोश्चैवं पारणं हि त्रिमासिकम् ॥ उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ॥ ६ ॥ आषाढे श्रावणे चैव मासि भाद्रपदे तथा ॥ उपोष्यते द्वितीयं वै घृतेन स्नापयेद्धरिम् ॥७॥ आषाढे श्रावणे चैव मासि भाद्रपदे तथा ॥ उपोष्यते द्वितीयं वै पारणं पूर्ववद्भवेत् ॥ ८ ॥ आश्विने कार्तिके सौम्ये तृतीयं पारणं तथा ॥ पौषे माघे फाल्गुने च चतुर्थं द्विजसत्तम ॥ ९ ॥ पारणे पारणे पूर्णे घृतेन स्नापयेद्धरिम् ॥ ब्राह्मणेभ्यो घृतं दद्यात्तथैव प्रतिपारणम् ॥ १० ॥ कृत्वा व्रतं नाकमनुप्रयाति मातृव्यपाप्ताश्च च निर्वृतः स्याता॥सन्तानवृद्धिंश्च तथाप्नुतेऽसौ यावन्मही सागरमेखलान्ता ॥ ११॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सन्तानाष्टमीव्रतवर्णनो नाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥ २१७ ॥
पुलस्त्य उवाच॥ आषाढशुक्लपक्षे तु भगवान्मधुसूदनः ॥ भोगिभागे निजां मायां योगनिद्रां च मानयेत्॥ १॥ शेतेऽसौ चतुरो मासान्यावद्भवति कार्तिकम् ॥ विविधेद्य न प्रवर्तन्ते तदा
यज्ञादिकाः क्रियाः ॥ २ ॥ तत्राषाढसितान्ते च यो नरो दिनपञ्चकम् ॥ अधःशायी बहिः स्नायी मांसाभ्यङ्गविवर्जितः ॥ ३ ॥ वृन्ताकलाबुकूष्मा- ण्डमधुक्षारविवर्जितः ॥ समस्तमदिरावर्जी सद्भक्तस्तारको भवेत् ॥ ४ ॥ ब्रह्मचारी जितक्रोधो जपहोमपरायणः ॥ हरिं संपूजयेन्नित्यं गन्धमाल्यान्नसंपदा ॥ ५ ॥ गीतैर्वाद्यैस्तथा नृत्यैर्दीपमालामभिरेव च ॥ पात्राणां जलधेनूनां प्रदानेन तथैव च ॥ ६ ॥ तथा कार्तिकशुक्लान्ते तृतीयं पारणं भवेत् ॥ ७ ॥ हिंसात्मकैस्तु किं तस्य यज्ञैः कार्यं महात्मनः ॥ प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥ ८ ॥ दशाहेमेतत्कृत्वा तु व्रतं विष्णुपुरो नरः ॥ अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ ९ ॥ कार्तिकश्चाग्निदेवतो मासो देवकुलैः स्तुतः ॥ आश्वयुज्यामतीतायां यावत्स्यादिह कार्तिकी ॥ १० ॥ व्रतं दशाहाभिहितं कृत्वा स्वर्गे महीयते ॥ पौण्डरीकमवाप्नोति कुलमुद्धरति स्वकम् ॥ ११ ॥ प्रत्यहं दीपदानेन कार्तिकाभिमुखो भवेत् ॥ चक्षुष्मान्ब्राह्मणश्रेष्ठ तथा सर्वत्र पूजितः ॥ १२ ॥ एतावन्तं तथा कालं सर्वमांसविवर्जितः ॥ स्वर्गलोकात्परिभ्रष्टो मानुषे सुखमाप्नुयात् ॥ १३ ॥ आरोग्यसुखसम्पत्त्या युक्तश्च सुभगो भवेत् ॥ प्रसुप्ते देवदेवेशे सर्वान्कामानवाप्नुयात् ॥ १४ ॥ दशाहुतिहुतं कृत्वा खड्गधाराव्रतं नरः ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ १५ ॥ मासं च कार्त्तिके कृत्वा पौण्डरीकमवाप्नुयात् ॥ कृत्वा मासं यथेष्टं च वह्निष्टोममवाप्नुयात् ॥ १६ ॥ कृत्वा च चतुरो मासान्सुप्ते मधुनिषूदने ॥ अश्वमेधफलं प्राप्य नाकपृष्ठे महीयते ॥ १७ ॥ असिधाराव्रतं कृत्वा तथा संवत्सरं नरः ॥ सर्वयज्ञफलं प्राप्य विष्णुलोके च गच्छति ॥ १८ ॥ येनेयं तु कामेन खड्गधाराव्रतं चरेत् ॥ तं तं काममवाप्नोति विष्णुलोके महीयते ॥ १९ ॥ तथा समर्थो भवति दाने च वरशापयोः ॥ आदित्यतेजा भवति नात्र कार्या विचारणा ॥ २० ॥ दालभ्य उवाच ॥ असिधाराव्रतविधिः समाचक्ष्व महाद्युते ॥ एतन्मे संशयं च्छिन्धि त्वं हि सर्वविदुच्यसे ॥ २१ ॥ पुलस्त्य उवाच ॥ स्नातः स्वलंकृतः स्रग्वी मुक्तवान्मांसवर्जितम् ॥ कृतदैवत- पूजस्तु स्त्रीसहायः स्वपेन्निशि ॥ २२ ॥ ब्रह्मचारी द्विजश्रेष्ठ खड्गधाराव्रतं चरन् ॥ अपूर्वां चाप्यपूर्वांश्च समालिंग्य स्वपेन्निशि ॥ २३ ॥ ब्रह्मचारी शतगुणं फलमाप्नोत्यसंशयम् ॥ अतीव दुष्करमिदं खड्गधाराव्रतं स्मृतम् ॥ २४ ॥ कृत्वा व्रतं द्वादशवत्सराणि त्रैलोक्यराज्यं ध्रुवमाप्नुयाच्च ॥ भुक्त्वा चिरं तद्दिवसुखञ्च चान्ते सायुज्यमायाति जनार्दनस्य ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० दालभ्यं प्रति पुलस्त्यकथा स्वधाराव्रतवर्णनो नामाष्टादशोत्तरद्विशततमोऽध्यायः ॥ २१८ ॥ पुलस्त्य उवाच ॥ मासि प्रौष्ठपदे शुक्ले द्वादश्यां जलशायिनम् ॥ प्रणम्य नन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः ॥ १ ॥ पाषण्डादिभिरालापमकुर्व्वन्नियमात्मवान् ॥ जलधेनुं द्विजे दत्त्वा नक्तं भुञ्जीत वाग्यतः ॥ २ ॥
वि० ध० | तृ० खं० ॥३९५॥ | अ० २२१
तिष्ठन्स्थितौ व्रजंश्चैव श्रुतस्मरणलादिषु ॥ अनन्तनामस्मरणं कुर्वन्नुच्चारणं नरः ॥ ३ ॥ अनेनैव विधानेन मासद्वादश वै क्रमात् ॥ उपोष्य पारणे पूर्णे दद्याद्विप्रेषु दक्षिणाम् ॥ ४ ॥ कृत्वा व्रतं द्वादशमेतदिदं प्राप्नोत्यनन्तानि फलानि विप्र ॥ सम्यक्कृतानां नियमव्रतानां चानन्तमा राज्य न संशयोत्र ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दालभ्यं प्रति पुलस्त्यवाक्येऽनन्तद्वादशीव्रतवर्णनो नामैको नविंशत्युत्तरद्विशततमोऽध्यायः॥२१९॥पुलस्त्य उवाच ॥ पौषमासे सिते पक्षे द्वादश्यां शर्करादेवतुम् ॥ नक्षत्रेणायोगं विष्णुं च प्रथमं तु समर्चयेत् ॥१॥ ततः प्रभृति विप्रेन्द्र मासिमासि जनार्दनम् ॥ उपोषितः पूजयते यावत्संवत्सरं गतम् ॥ २ ॥ मासेय मासे विधिनानेदितेन रम्यां तिथौ दान मथ ब्रवीमि ॥ प्राच्यं यथावद्विधिवत्क्रमेण तदुच्यमानं निखिलं निबोध ॥ ३॥ घृतं यथा श्रीहृदयं हिरण्यं यवान्क्रमशः कनकानुपानेम् ॥ छत्रं पयोन्नं गुडफाणिताढ्यं सचन्दनं वस्त्रमनुक्रमेण ॥ ४ ॥ गोमूत्रमंभो घृतमांशमार्कं दूर्वादधिश्चैत्रीहृदयं तिलाश्च ॥ मूत्राद्यंगृतं जलमाशु दूर्वं क्षीरं च मासं क्रमशः प्रयुञ्ज्यात्॥५॥कुले प्रधानेधनधान्यपूर्णे विवेकवान्यस्तु समस्तदुःखैः॥प्राप्नोति जन्माविकलेंद्रियश्च भवत्यरोगो मतिमान्सुखी च ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे दालभ्यं प्रति पुलस्त्यवाक्येषु बह्मद्वादशीव्रतवर्णनो नाम विंशत्युत्तरद्विशत तमोऽध्यायः ॥ २२० ॥ समाप्तः पुलस्त्यदालभ्यसंवादः ॥ ॥ वज्र उवाच ॥ किं तु कृत्यतमं लोके मनुष्याणां प्रकीर्तितम् ॥ एतत्पृष्टो ममाचक्ष्व सर्वधर्मभृतां वर ॥ १॥ मार्कण्डेय उवाच ॥ अन्तर्वेदि बहिर्वेदि पूजा कार्या दिवौकसाम् ॥ एतत्कृत्यतमं लोके पुरुषस्य विपश्चितः ॥ ॥ २ ॥ अन्तर्बद्धां च यजनं बहुवित्तस्य कीर्तितम् ॥ स्वल्पवित्तस्य धर्मज्ञ बहिर्वेदि प्रकीर्तितम् ॥ ३॥ पुष्पाक्षताद्यैर्नानोवस्त्राद्यध्ययनान्कर्मणा ॥ धूपदीपनमस्कारैर्नित्यं पूज्या दिवौकसः ॥ ४॥ ततोऽपि नियतैश्चैव ब्राह्मणानां च तर्पणैः ॥ बहिः शुश्रूषया चैव दानेन विविधेन चा॥ ५॥ सदैव पूजिता देवास्तृप्तिमायान्ति यादव ॥ स्वेस्वे कालविशेषेण कालः पूर्वोदितो मया ॥ ६ ॥ वज्र उवाच ॥ देवताः काश्च कस्मंस्तु काले नृप जयेत्सदा ॥ देवतापूजने कार्यं विशेषान्नम कीर्तय ॥ ७ ॥ मार्कण्डेय उवाच ॥ कालं तथाहं वक्ष्यामि देवतापूजने पृथक् ॥ संवत्सरेण धर्मज्ञ सोपवासस्य सर्वदा ॥ ८ ॥ ब्रह्माणं पूजयेद्देवं सततं प्रथमेशहनि ॥ पक्षद्वये महाभाग पञ्चदश्यामुपोषितः ॥ ९ ॥ संवत्सरेण धर्मज्ञ विग्नाडहुसुवर्ण कम् ॥ हंसयुक्तेन यानेन ब्रह्मलोके च गच्छति॥ १०॥चैत्रमासस्य या शुक्ले प्रथमा प्रतिपद्भवेत्॥तदहि ब्रह्मणः कृत्वा सोपवासस्तु पूजनम्॥ ११॥ संवत्स रप्रवाप्नोति सौख्यानि भृगुनन्दन ॥ कालस्यावयवाः सर्वे तस्मिन्नहनि पूजिताः॥ १२॥ प्रदद्यादक्षिणां च धर्मज्ञ सौवर्णं दद्यादुत्तमम् ॥ संवत्सरार्चनं नाग
॥३९५॥
तस्मिन्नहनि पूजयेत्॥ १३॥ शङ्खेभ्यः सौख्यमाप्नोति स्वास्थ्यमग्र्यं तथैव च। अत्रापि हि ब्रह्मणा सृष्टं त्रैलोक्यं प्रथमं द्विज॥ १४॥ इदं प्रजापतिं नित्यं द्विती यायामार्चयेत्त तु फलमाप्नोति धर्मज्ञ गोसवस्य न संशयः ॥ १५॥ तथा नासत्ययोः कृत्वा तस्मिन्नहनि पूजनम् ॥ नित्यमारोग्यमाप्नोति तथा रूपं च भार्गव॥ १६॥ शुक्लपक्षद्वितीयायां बालचन्द्रस्य पूजनम्॥ कृत्वा दत्त्वा च लवणं प्राश्नात्रौ सुभगो भवेत्॥ १७॥ साध्या द्वादश ये प्रोक्ता स्तेषां कृत्वा तु पूजनम्॥ तृतीयास्यां महाभाग द्वादशाहफलं लभेत्॥ १८॥ तृतीयायां तथाभ्यर्च्य ब्रह्मविष्णुमहेश्वरान्॥ पृथक्पृथङ् महाभाग त्रिवर्गफलभाग्भवेत् ॥ ॥ १९॥ व्रीहीन्कांश्च तदा राम सम्यक्संपूजयेन्नरः ॥ ऐश्वर्यं महदाप्नोति गतिमग्र्यां च विन्दति ॥ २०॥ तृतीया श्रावणे कृष्णा या स्याच्छ्रवणसंयु ता ॥ तस्यां संपूज्य गोविन्दं पृष्टिमभ्याभवाप्नुयात् ॥२१॥ वैशाखशुक्लपक्षे तु तृतीयायामथोपोषितः॥ अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य तु ॥ २२॥ सा तथा कृत्तिकोपेता विशेषेण च पूजिता ॥ तत्र दत्तं हुतं ततं सर्व सफ़लमुच्यते ॥ २३ ॥ अक्षया सा तिथिर्यस्मात्तस्मात्सुकृतमक्षयम् ॥ अक्षतैः पूज्यते विष्णुस्तेन साऽक्षता स्मृता ॥ २४॥ अक्षतैस्तु नरः स्नातो विष्णोर्दत्त्वा तथाक्षतान् ॥ सक्तून्सुसंस्कृतैश्चैव हुत्वा चैव तथाक्षतान् ॥ २५॥ विप्रेषु दत्त्वा तानेव तथा सक्तुं सुसंस्कृतम् ॥ यवान्प्रसृङ् महाराज फलमक्षय्यमश्नुते ॥२६॥ एकाग्रमप्युकृत्वा तृतीयां भृगुनन्दन ॥ एषामब्दतृतीयानां सर्वासां तत्फलं भवेत् ॥२७॥ प्रोक्तास्तु भृगवो नाम देवा द्वादश ये पुरा ॥ चतुर्थ्यां पूजनं तेषां कृत्वा दिवमवाप्नुयात् ॥ २८ ॥ यमस्य पूजनं कृत्वा चतुर्थ्यामेव धार्मिकः ॥ नाप्नोति नारकं दुःखं तुष्टे रविसुते नरः ॥ २९ ॥ विनायकमथाभ्यर्च्य चतुर्थ्यां यदु नन्दन ॥ सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात् ॥ ३० ॥ निद्रां रतिं तथा श्रद्धां कीर्ति मेधां सरस्वतीम् ॥ प्रज्ञां तुष्टिं तथा कान्तिं तस्मि न्नहनि पूजयेत् ॥ ३१ ॥ तत्प्रसादामवाप्नोति यथेष्टं मनुजोत्तम ॥ विद्याकामो विशेषेण पूजयेत्तु सरस्वतीम् ॥ ३२ ॥ देवानां मातरः सर्वास्तथा तत्रापि पूजिताः ॥ सर्वकामप्रदा ज्ञेयाः पुरुषस्य विपश्चितः ॥ ३३ ॥ पञ्चम्यां पूजनं कृत्वा तथा चन्द्रमसो नरः ॥ सौभाग्यं महदाप्नोति यशश्चाग्र्यं च विन्दति ॥ ३४ ॥ पञ्चम्यां पृथिवीं देवीं तथा सम्पूजयेन्नरः ॥ तामेवाप्नोत्ययत्नेन नात्र कार्या विचारणा ॥ ३५ ॥ विश्वेदेवास्तु ये प्रोक्ताः पूर्वमेव मया दश ॥ तेषां सम्पूजनं कृत्वा पञ्चम्यां दिवमाप्नुयात् ॥ ३६ ॥ इष्टगन्धैरभ्यर्च्य पञ्चम्यां सुभगो भवेत् ॥ तथा चित्ररथं तेषां राजानं च विशेषतः ॥ ३७॥ देवभार्या तथा भार्यां सम्पूज्य सुभगो भवेत् ॥ इष्टमप्सरसं चैव तथा रूपमवाप्नुयात् ॥ ३८ ॥ इष्टं नागं तथाभ्यर्च्य श्रियमाप्नोत्यनुत्तमाम ॥ वारुणैः पुष्करस्थार्चां पञ्चम्यां यः समाचरेत् ॥ ३९ ॥ सर्वकामसमृद्धस्य सोमयज्ञफलं भवेत् ॥ तथा च
वि० ध० | तृ० खं० ॥३१६॥ | अ० २१
पूजयन्कांस्तथा वै नलकूबरम् ॥ ४० ॥ श्रियः सम्पूजनं कृत्वा पञ्चम्यां प्रयततः सदा ॥ श्रियमवाप्नोति विपुलां मतिमग्र्यां च विन्दति ॥ ४१॥
चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा तथा श्रियम्॥४२॥सकृद्वाप्यनुपाद्यान्नं फलं संवत्सरोदितम् ॥ सर्व्वस्यां नृप पञ्चम्यां रतिं प्रीतिं सरस्वतीम्॥४३॥
उमां मेनां भद्रकालीं तथा कात्यायनीमपि ॥ धृतिं स्वाहां सुधांबुद्धिमनुसूयां तथा क्षमाम्॥४४॥सुभोगां देवसेनां च दलां ज्योत्स्नां तथा शचीम्॥
गौरीं वरुणपत्नीं च यमपत्नीं तथैव च ॥ ४५ ॥ धूमोर्णां सुमहाभागां मृत्युच्छायां तथैव च ॥ ४६ ॥ अभीष्टां देवजननीं देवपत्नीं तथैव च ॥
पूजयन्कामानवाप्नोति तस्या ह्येकप्रशंसयम् ॥ ऐरावतं वा गरुडुञ्चैवः श्वसममेव वा ॥४७॥हारस्य रूपं चैव शस्त्राण्यस्त्राणि यानि च॥ तदा सम्पूजयन्न्रोजा
विजयं तद्यथाप्नुते ॥४८॥ तथा भाद्रपदे मासि शुक्लपक्षस्य पञ्चमीम् ॥ नागानाम्पूजनं कृत्वा धनभागी भवेन्नरः ॥ ४९ ॥ कुमारश्च तथा स्कन्दो
विशाखश्च गुहस्तथा ॥ चतुरात्मा विनिर्दिष्टो भगवान्क्रोञ्चदारणः॥ ५० ॥ तमभ्यर्च्य नरः षष्ठ्यां पुत्रानप्राप्नोत्यभीप्सितान् ॥ बालकानां गृहे
श्रेयो नरः प्राप्नोत्यसंशयम् ॥ ५१ ॥ ऋतूनां पूजनं कृत्वा तत्र क्षेममवाप्नुयात् ॥ स्कन्दाश्वचरान्राजन्भीमपार्श्वचरांस्तथा ॥ ५२ ॥
यमपार्श्वचरांश्चैव रोगमुक्तिमवाप्नुयात् ॥ कालपाशौ तथाभ्यर्च्य ज्वरव्याधींशमेव च ॥ ५३ ॥ रोगमोक्षमवाप्नोति वायुवीर्य्यन्वस्तथा ॥
चैत्रषष्ठ्यां विशेषेण स्कन्दमभ्यर्चयेन्नरः॥५४॥पूर्वोक्तफलमाप्नोति स्वर्गलोकं च गच्छति ॥ सप्तम्यां च समभ्यर्च्य सूर्यपत्नीं सुवर्चलाम् ॥५५॥
इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ॥ देवा एकोनपञ्चाशन्मरुतो नाम कीर्तिताः ॥ ५६ ॥ तेषां संपुजनं कृत्वा सप्तम्यां दिवमाप्नुयात् ॥
इष्टपूजां च शैलस्य तदा कृत्वा सुखी भवेत् ॥ ५७ ॥ पूजयित्वा तथाभोष्टां सरितं पुण्यभागभवेत् ॥ वह्निसंपूजनं कृत्वा वह्निहोमफलं लभेत्
॥ ५८ ॥ वायोः संपूजनं कृत्वा प्राप्नोति परमाङ्गतिम् ॥ संपूज्य च ऋषीन्सप्त सोमसंस्थास्तु ये स्मृताः ॥ ५९ ॥ सप्त प्राप्नोति लोकान्वे
गतिमुग्र्यां च विन्दति ॥ सप्तम्यां यदुशार्दूल दृष्टमभ्यर्च्यनुष्टिनिद् ॥ ६० ॥ स्वाध्यायफलमाप्नोति तद्धस्तफलमश्नुते ॥ पूजयित्वा समुद्रांश्च
द्वीपनाथ तथा नरः ॥ ६१ ॥ पातालञ्चा महाभाग भुवमाप्नोत्यभीप्सिताम् ॥ सतलोकांस्तथा तत्र पूजयित्वा सुखी भवेत् ॥ ६२ ॥
तेष्वेव च तथैवाग्र्यां गतिमग्र्यतमां लभेत् ॥ गङ्गां सप्तप्रकारां च तथा देवीं सरस्वतीम् ॥ ६३ ॥ सप्तज्ञानमवाप्नोति नरः संपुजयन्नृवम् ॥
आदित्यं पूजयेद्देवं शीघ्रं रोगैर्विमुच्यते ॥ ६४ ॥ सप्तम्यां यादृशश्रेष्ठ गतिमग्र्यां च विन्दति ॥ एवं पूजनं कृत्वा गतिमग्र्यां तथा लभेत् ॥ ६५ ॥ ॥३१७॥
१ 'सुवर्चसाम्' इति ख० ।
जयन्तं शक्रतनयं पूजयित्वा सुखी भवेत् ॥ अष्टम्यां पूजनं कृत्वा वसूनां धर्मसत्तम ॥ ६६ ॥ नाकलोकमवाप्नोति गतिमग्र्यां च विन्दति ॥ एकानंशां तदा देवीं तथा संपूजयेन्नरः ॥ ६७ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ महादेवं समभ्यर्च्य सर्वान्कामानवाप्नुयात् ॥ ६८ ॥ वीरभद्रं सनन्दीशं लगुडेशं तथैव च ॥ भद्रकालीं तथाभ्यर्च्य नवम्यां यदुनन्दन ॥ ६९ ॥ काममेकमवाप्नोति यं कञ्चिन्मनसेप्सितम् ॥ चतुष्पथेषु रम्येषु तथैवाहाटकेषु च ॥ ७० ॥ गिरिशृङ्गेषु रम्येषु नदीतीरेषु चाप्यथ ॥ गुहासु चैव रम्यासु पिशाचानां बलिं हरेत् ॥ ७१ ॥ शक्रादीनां च देवानां ये च पार्श्वचराः सुराः ॥ तेषां बलिमुपाहृत्यकुर्वन्क्षेममवाप्नोति मानवः ॥ ७२ ॥ आयुधं पूजयित्वा च तथा विजयमाप्नुयात् ॥ विद्यामाप्नोति विपुलां पूजयित्वा सरस्वतीम् ॥ ७३ ॥ विद्याकामस्तु कुर्वीत तदा पुस्तकपूजनम् ॥ तथैवाश्वयुजे शुक्ले भद्रकालीं विशेषतः ॥ ७४ ॥ नवम्यां पूजयित्वा तु सर्वान्कामानवाप्नुयात् ॥ दशम्यां पूजयन्नागान्विद्वेद्वेवांस्तथा दश ॥ ७५ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ तदा संपूजयन्नागांस्तथैव च दिशो दश ॥ ७६ ॥ क्रियासाफल्यमाप्नोति यत्र यत्राभिजायते ॥ धर्मं संपूज्य देवेशं सर्वसत्त्वसुखा वहम् ॥ ७७ ॥ धर्मे मतिमवाप्नोति धर्मसाफल्यमेव चाएकादश्यां तु संपूज्य रुद्रानैकादशैव च ॥ ७८ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥ तथा सर्वगतान्द्रांस्तदा सर्वत्र पूजयेत् ॥ ७९ ॥ सर्वान्कामानवाप्नोति सर्वानपराजितान् ॥ तथा च द्वादशादित्यान्दशम्यां पूजयेन्नरः ॥ ८० ॥ द्वादशाहमवाप्नोति गतिमग्र्यां च विन्दति ॥ द्वादश्यां देवद्देशं पूजयित्वा जलाधिपम् ॥ ८१ ॥ पौण्डरीकमवाप्नोति वरुणं यादसां पतिम् ॥ सर्वदेवेश्वरं शक्रं पूजयित्वा तथा नरः ॥ ८२ ॥ सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ॥ विष्णोः संपूजनं कृत्वा कामानाप्नोत्य भीप्सितान् ॥ ८३ ॥ इष्टयज्ञफलं प्राप्य गतिमग्र्यां च विन्दति ॥ त्रयोदश्यामथाम्भ्यर्थ्य कामदेवं समर्चयेत् ॥ ८४ ॥ अयत्नात्सर्व माप्नोति फलं संवत्सरोदितम् ॥ यक्षाणां राक्षसानां च चतुर्दश्यां तु पूजनम् ॥ ८५ ॥ कृत्वा क्षेममवाप्नोति क्रिया साफल्यमेव च ॥ पूजयित्वा धनाध्यक्षं तदा वैश्रवणं प्रभुम् ॥ ८६ ॥ बहुवित्तमवाप्नोति फलं संवत्सरोदितम् ॥ शंख पद्मौ तथाभ्यर्च्य निधानौ यक्षपूजितौ ॥ ८७ ॥ मणिभद्रं तथाभ्यर्च्य धनमाप्नोत्यसंशयम् ॥ पूजयित्वा महादेवं सर्वान्कामानवाप्नुयात् ॥ ॥ ८८ ॥ माघमासचतुर्दश्यां कृष्णपक्षे विशेषतः ॥ तथा पितृगणान्नान्दीशोणे चन्द्रे च पूजयेत् ॥ ८९ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलम् श्नुते ॥ श्रद्धां कृत्वा तथा राजन्सर्वान्कामानवाप्नुयात् ॥ ९० ॥ पूर्णिमन्दुं तथाभ्यर्च्य सौभाग्यं महदाप्नुयात् ॥ इष्टयज्ञमथाम्यर्च्य नक्षत्रमथ
६७
वि० ध० तृ० खं० ॥३१७॥ अ० २२१ ॥३१७॥
वार्चयेत् ॥ ९१ ॥ तस्मात्काममवाप्नोति कामं च यदुनन्दन ॥ मासनाम सनक्षत्रं पूर्णिमायोगि यच्च वा ॥ ९२ ॥ पूजयित्वा तथा राजन्सौभाग्यं महदाप्नुयात् ॥ सोपवासस्तु नक्षत्रं नक्षत्रेणमथार्चयेत् ॥ ९३ ॥ नक्षत्रं वा महाभाग तस्मात्काममवाप्नुयात् ॥ कार्त्तिकेयं महाभाग कृत्तिकासु त्वर्चयेन्नरः ॥ ९४ ॥ वह्निहोममवाप्नोति कुलं चैव समुद्धरेत् ॥ कृत्तिकासु तथाम्यर्थ्य खड्गं विजयमाप्नुयात् ॥ ९५ ॥ भौमंज्ञं नाग मभ्यर्थ्य श्रियं प्राप्नोत्यनुत्तमाम् ॥ कामदेवमथाम्भ्यर्थ्य भार्ये सौभाग्यवान्भवेत् ॥ ९६ ॥ सावित्रं च तथा हस्ते श्रियं प्राप्नोत्यनुत्तमाम् ॥ दृश्याह्लामितेदं तस्मान्माध्यस्थ्यसेवया ॥ ९७ ॥ गन्धर्वं वा गृहं वापि तस्मात्कामानवाप्नुयात् ॥ कृष्णपक्षचतुर्दश्यां महाकालमथाचयेत् ॥ ९८ ॥ तैस्तत्काममवाप्नोति यथेष्टं नात्र संशयः ॥ माहेश्वरं मातृगणं तथा तत्राभिपूजयेत् ॥ ९९ ॥ एकवासान्तरं राजन्कामानाव्प्नोत्यभीप्सितम् ॥ १०० ॥ तथा तुम्बुरुसम्बद्धं पञ्चकं पूजयेन्नरः ॥ सर्वत्र जयमाप्नोति नात्र कार्या विचारणा ॥ १०१ ॥ कृत्तिकासु नरोऽभ्यर्च्य स्कन्दपार्श्वचरींस्तथा ॥ आरोग्यं महदाप्नोति सदा वा मनसेप्सितम्॥१०२॥ नाहिंसितस्त्विति बद्ध्वा तु पूर्णे चन्द्रे तथार्चयेत्। नरो मातृगणं चार्च्य सर्वान्कामानवाप्नुयात्॥ १०३॥ एकां वा मातरं राजन्कामानाप्नोत्यभीप्सितान् ॥ वानस्पत्यमवाप्नोति पूजयित्वा वनस्पतिम् ॥ १०४ ॥ दृप्तानां दानवानां वा तत्पक्षा ये तथापरे ॥ तेषां संपुजनं कृत्वा चतुर्दशीं सुखी भवेत् ॥ १०५ ॥ करणे वा मुहूर्त्ते वा यथावेहक्रमं भवेत् ॥ तस्मात्काममवाप्नोति पूजितव्यं च विन्दति ॥ १०६ ॥ चैत्रमासादारभ्य यथोक्तेन नरः सदा ॥ इष्टं दैवमथाम्यर्थ्य यथोक्तं फलमश्नुते ॥ १०७ ॥ संवत्सरेण धर्मज्ञ तदिष्टं च दिवा वा तिथौ ॥ गृहे वा सर्वधर्मज्ञ सोपवासस्समाहितः ॥ १०८ ॥ संवत्सरे वाप्ययने ऋतौ मासे च तद्दले ॥ नक्ताशी सततं पूजां कृत्वा तस्त्वामिनः सदा ॥ तावत्कालं महाभाग तस्मात्काममवाप्नुयात् ॥ १०९ ॥ चैत्रात्समारभ्य महासुभाव रेचितं रोचेशमथाचियालः ॥ रोचेशतो पात्यसमं स कामं प्राप्नोत्यलञ्चाबुधश्चन्द्र ॥ ११० ॥ इति श्रीविष्णुध० तृ० ख० मा० सं० तिथ्युपवासदेवतार्चनवर्णनो नामैकविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२१ ॥ वज्र उवाच ॥ भगवञ्छ्रोतुमिच्छामि रोचञ्च पृथक्पृथक् ॥ उपोपितेन किं कार्यं किं फलं च तथ भवेत् ॥ ॥ १ ॥ मार्कण्डेय उवाच ॥ इतिहास तथाइंमं निबोध गदतो मम ॥ धनाध्यक्षस्य संवादमष्टवक्रस्य चाप्यथ ॥ २ ॥ अष्टावक्रः पुरा कन्यां प्रार्थयामास धर्मवित् ॥ ऋषेर्भगवतो वदान्यस्य तु सुप्रभाम् ॥ ३ ॥ रूपद्रविणसम्पन्नां स चोवाच मुनिं मुनिः ॥
१ 'माघे' इति ख० ।
स्त्रीस्वभावो यदि ज्ञातस्त्वया धर्मविदां वर ॥ ४ ॥ ततोऽहं तव दास्यामि कन्यां बालमृगेक्षणाम् ॥ ॥ अष्टावक्र उवाच ॥ ॥ स्त्रीस्वभावो न विज्ञातो मया ब्राह्मणसत्तम ॥ ५ ॥ कुतश्च तन्मया ज्ञातस्तन्ममाचक्ष्व पृच्छतः ॥ ॥ भार्गव उवाच ॥ ॥ उत्तरां त्वं दिशं पश्य सा ते वक्ष्यति तत्त्वतः ॥ ६ ॥ स्त्रीस्वभावं महाभाग गच्छ शीघ्रममन्दितः ॥ ॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्तः स धर्मात्मा प्रयायादुत्तरां दिशम् ॥ ७ ॥ गङ्गाद्धारकमेणाथ त्वरितो मुनिपुङ्गवः ॥ तीर्थानि सरितश्चैव शैलानि नगराणि च ॥ ८ ॥ विलङ्घ्य धनदावासमाससाद महातपाः ॥ कैलासे पर्वते श्रेष्ठे सर्वकामसमृद्धिमत् ॥ ९ ॥ तत्रासीनं महाभागं स ददर्श धनाधिपम् ॥ वरासनगतं वीरं हारभारविभोतोदरम् ॥ १० ॥ वाम भागे किरीटेन विनीतेन विराजितम् ॥ कुण्डलाभ्यां विचित्राभ्यां केयूरेणोदरेणस्तथा ॥ ११ ॥ गदाधरं महाकायमेकलोचनपिङ्गलम् ॥ तथा च शङ्खपद्माभ्यां निधिभ्यां च विराजितम् ॥ १२ ॥ यक्षैश्च सुमहाभागैर्मणिरूपपराक्रमैः ॥ दीर्घभद्रेण वीरेण पूर्णभद्रेण चाप्यथ ॥ १३॥ मणिभद्रेण वीरेण यक्षभद्रेण चाप्यथ ॥ दीर्घबाहुमहाबाहुपद्मकिञ्जल्क्सुसंज्ञैः ॥ १४ ॥ स्वभद्रेण सुपाश्वेन तथा मणोधरेण च ॥ यक्षैश्चान्यैश्च धर्मज्ञ महा बलपराक्रमैः ॥ १५ ॥ नानावेशैश्च गन्धर्वैर्महासत्त्वैर्महाबलैः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनेनोऽथ तुम्बुरुः ॥ १६ ॥ पूर्णायुर्नखश्चैव तथा शालि शिराः प्रभुः ॥ शृङ्गारकर्णोऽतिबलो भीमो भीमपराक्रमः ॥ १७ ॥ एते चान्ये च गन्धर्वास्तथैवाप्सरसः शुभाः ॥ उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुसा १८ ॥ विश्वाची च घृताची च पञ्चचूडा मनोरमा ॥ एताभिश्च तथान्याभिर्देवस्त्रीभिः सहस्रशः ॥ १९ ॥ स ददर्श धनाध्यक्षं सम न्तात्परिवारितम् ॥ पाद्यार्थ्याचमनीयाद्यैरर्चनाद्यैश्चलक्षणं पूजितः ॥ २० ॥ वरासनगतो राजंस्तुष्टाव धनदं प्रभुम् ॥ ॥ अष्टावक्र उवाच ॥ ॥ नमोऽस्तु ते धनाध्यक्ष यक्षाध्यक्ष नमोऽस्तु ते ॥ २१ ॥ महाबाहो महासत्त्व राजराजाग्रणीप्रभो ॥ ऋषिसङ्घैस्तुतश्चाचिन्तन्त्य वाममौले वरप्रद ॥ ॥ २२ ॥ पिङ्गल विपुलग्रीव देवश नरवाहन ॥ गदाधर, विशालाक्ष सूर्यतेजःसमप्रभ ॥ २३ ॥ भवाञ्छूलिनसखो नित्यं विष्णोरंशस्तथा भवान् ॥ देवासुरेषु संग्रामे भवता विनिपातिताः ॥ २४ ॥ बहवो दानवा वीरा महाबलपराक्रमाः ॥ लोकान्धारयसे सर्वांस्त्वमेको यक्षपार्थिवः ॥ २५ ॥ भक्तानुकम्पी सततं चोत्तराशामुखः प्रभुः ॥ धर्मसेतुर्जगत्त्वास्मिंस्त्वयि सर्वं प्रतिष्ठितम् ॥ २६ ॥ ॐ मार्कण्डेय उवाच ॥ एवं धनाधि
* “एवं स्तुतस्तु मुनिना प्रीत्वा प्रोवाच वित्तपः ॥ यदस्ति कार्यं कृपया तन्मे वद महामुने” एतादृशमेकपद्यमत्रापेक्षितमस्ति ।
वि० ध० तृ० खं० अ० २२३
पेनोक्तः प्रत्युवाच महामुनिः ॥ धर्मं महाफलं त्वत्तः श्रोतुमिच्छामि वित्तप ॥ २७ ॥ ॥ वैश्रवण उवाच ॥ ॥ ब्रह्मस्वविषयस्य च रुचौ देवतायाश्च पूजनम् ॥ धर्मं महाफलं विप्र तन्मे निगदतः शृणु ॥ २८ ॥ सर्वेषु विप्र रोचेषु सोपवासो जितेन्द्रियः ॥ देवतापूजनं कृत्वा यथोक्तं फलमश्नुते ॥ ॥ २९ ॥ चैत्रशुक्लसमारम्भोचे व्रतमनुत्तमम् ॥ रोचे यथैधं गृह्णीयात्संवत्सरमतन्द्रितः ॥ ३० ॥ त्रिंशद्रात्रानि विप्रेन्द्र मासमेकं समाहितः ॥ संवत्सरेण नक्तार्शी पूजयेद्रोचदेवताम् ॥ ३१ ॥ प्रत्यहं सुमहाभाग तेन काममवाप्नुयात् ॥ आषाढमासे यः कुर्याच्छ्रोत्रव्रतमनुत्तमम् ॥ ३२ ॥ नक्तभोजी प्रतिदिनं चैककालाशनो द्विजः ॥ आहारकालदानेन तोयपानं विवर्जयेत् ॥ ३३ ॥ ब्राह्मणोचादधारम्य यावद्धोत्रं तु पौरुषम् ॥ रोचे तु पौरुषे प्राप्ते कृत्वा ब्राह्मणतर्पणम् ॥ ३४ ॥ वासांसि दत्त्वा विप्रेभ्यः सुवर्णं रजतं तथा ॥ स्वर्गलोकमवाप्नोति दीर्घकालं द्विजोत्तम ॥ ३५ ॥ जन्म चासाद्य मानुष्यं रूपवानभिजायते ॥ विरोगो बलवांस्त्रित्यं शत्रुझिद्बलवानपि ॥ ३६ ॥ श्रियश्च मुख्याः प्राप्नोति कुले जन्म तथोत्तमे ॥ सौभाग्यं महदाप्नोति लावण्यमपि चोत्तमम् ॥ ३७ ॥ सङ्ग्रामैत्रीं तथा विद्यां धर्मं चैवोत्तमों गतिम् ॥ वाहनान्यपि मुख्यानि यश्चान्य दभिवाञ्छति ॥ ३८ ॥ रोचेषु मासे सफलं तथोक्तं नक्ताशिनो देववरस्य विप्र ॥ अतः परं ते कथयामि रोचे पृथक्फलं सम्ब्वृणोपवित्स्य ॥ ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रोचेषु मासोपवासफलानिरूपणो नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥ २२२ ॥ ॥ ॥ वैश्रवण उवाच ॥ ॥ ब्राह्मे ब्राह्मणमभ्यर्च्य ब्रह्मलोकं प्रपद्यते ॥ अश्वमेधमवाप्नोति प्रजापत्ये प्रजापतिम् ॥ १ ॥ स्वर्गरोचे तथा स्वर्गं स्वर्गलोकं प्रपद्यते ॥ चक्ररोचे तथा चक्रं वैष्णवन्तु सुदर्शनम् ॥ २ ॥ द्वादशारं नरः कृत्वा वर्णकैः ससुगन्धिभिः ॥ सम्पूज्य वत्सरस्या न्ते सौवर्णं विनिवेदयेत् ॥ ३ ॥ वासुदेवाय देवाय द्वितीयं ब्राह्मगाय च ॥ रिपूंस्स जयते सर्वान्व्वाहानान्यन्तरानपि ॥ ४ ॥ चक्रम्प्रतिमं तस्य सर्वं च तथा भवेत् ॥ नाप्नोति नारकं दुःखं स्वर्गलोकं च गच्छति ॥ ५ ॥ वानस्पत्ये तथा रोचे पूजयित्वा वनस्पतिम् ॥ ६ ॥ उद्यानफल माप्नोति वाजपेयस्य मानवः ॥ वानस्पत्यं च सफलं तथा सर्वत्र विन्दति ॥ ७ ॥ आग्नेरोचे तथैवान्नं वासुदेवं समर्चयेत् ॥ क्षेत्रमध्यगतस्सत्त्वं प्राप्नोति बहु मानवः ॥ ८ ॥ परलोके तथा तृप्तिं स्वर्गलोके तथैव च ॥ अह्नेते वासरे चाप्ति वासरं पूज्य मानवः ॥ ९ ॥ निवेद्य वासुदेवाय देवं सङ्कर्षणं विभुम् ॥ आरोग्यरूपलावण्यसौभाग्यानि समश्नुते ॥ १० ॥ कालरौचे नरः कालं सम्यक्सम्पूज्य धर्मवित् ॥ मरणे स्मृति
॥३९८॥ ॥३९८॥
१ 'स्वेवेषे रोचे महाभाग' इति क० ख० । २ 'योगेषु' इति ख० ।
माप्नोति मृतश्च परमां गतिम् ॥ ११ ॥ आग्नेये पूजयद्वह्निं सर्वांल्लोकान्समाप्नुयात् ॥ सर्वाणि वाभिकर्माणि सिद्ध्यन्त्यस्य न संशयः ॥ १२॥ अपः
संपूज्यन्नावै रत्नमाप्नोत्यथाम्बुजम् ॥ जलकर्म्माणि सर्वाणि सिद्ध्यन्त्यस्य न संशयः ॥ १३ ॥ सौरे सूर्यमथाभ्यर्च्य विरोगत्वमवाप्नुयात् ॥
चैन्द्रे चन्द्रं समभ्यर्च्य परमां निर्वृतिं लभेत् ॥ १४॥ गोरोचे गां समभ्यर्च्य सुरभिं लोकमातरम् ॥ गाः समाप्नोति धर्मज्ञ तथा तल्लोकमेव च ॥ १५॥
रोचं निर्यतः प्राप्य निर्यतिं तु समर्चयन् ॥ दीर्घजीवितवमाप्नोति यत्रयत्राभिजायते ॥ १६॥ वैष्णवे विष्णुमभ्यर्च्य विष्णुलोकं प्रपद्यते ॥ रौद्रे रुद्र
मथाभ्यर्च्य तल्लोकं प्रतिपद्यते ॥ १७॥ पुत्रान्प्राप्नोति कौमारे कुमारं चार्चयन्नरः ॥ पितॄणामर्चनं कृत्वा पितृलोके समाहितः ॥ १८॥ पूजामथार्यम्णश्चाप्नो-
ति पितृलोकं च गच्छति ॥ वारुणे वरुणं देवमब्धानाप्नोति पूजयन् ॥ १९ ॥ अनन्तं च तथानन्तं पूजयित्वा महीधरम् ॥ अनन्तं फलमा-
प्नोति कर्म्मणः सुकृतस्य च ॥ २० ॥ वायव्ये वायुमभ्यर्च्य वाणिज्ये लाभमाप्नुयात् ॥ याम्ये यममथाभ्यर्च्य नाप्नोति नरकाद्भयम् ॥ २१ ॥
सारस्वतेन चाभ्यर्च्य द्विज देवीं सरस्वतीम् ॥ विद्यां यथेष्टमाप्नोति तथा वाग्मी च जायते ॥ २२॥ श्रीरोचे श्रियमभ्यर्च्य श्रियं विन्दति शोभनाम् ॥
मदीये च तथा रोचे मां च सम्पूज्यन्नरः ॥ २३ ॥ धनवान्भवते सो हि यत्रयत्राभिजायते ॥ शैलरोचे तथा शैलं पूजयित्वा सुखी भवेत् ॥
॥ २४ ॥ भूरोचे भुवमभ्यर्च्य भुवमाप्नोत्यनुत्तमाम् ॥ वेदनामर्चनं कृत्वा वेद्रोचे समाहितः ॥ २५ ॥ वेदमाप्नोति पुरुषो ज्ञानानि च नरा-
धिपः ॥ पौरुषे च तथा रोचे जलं पुरुषमर्चयन् ॥ २६ ॥ सर्वान्कामानवाप्नोति मोक्षोपायं च विन्दति ॥ रूपेण हीनं स्पर्शेन हीनं गन्धेन
हीनं च रसेन हीनम् ॥ शब्देन हीनं पुरुषं पुराणं सम्पूज्यन्मोक्षपथं प्रयाति ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे प्रति-
रोचफलानिरूपणो नाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२३ ॥ मार्कण्डेय उवाच ॥ इति रोचव्रतं श्रुत्वा भुक्त्वा धनदेववेश्मनि ॥ श्रुत्वा
गीतं च वाद्यं च दृष्ट्वा नृत्तं मनोहरम् ॥ १ ॥ तत्रोष्य रजनीमेकां धनाध्यक्षेण पूजितः ॥ उदग्जगाम धर्मात्मा हिमशैलस्य स द्विजः ॥ २ ॥
स शैलदेशे कस्मिंश्चिद्ददर्श रुचिरां गृहम् ॥ शीतांशुशुभ्रसञ्जालाभं सर्वकामसमृद्धिमत् ॥ ३ ॥ तस्मिन्गृहे ददर्शार्य वृद्धां रूपवतीं स्त्रियम् ॥
सर्वाभरणसम्पन्नां बहीभिः परिवारिताम् ॥ ४ ॥ तरुणीभिर्वराङ्गीभिश्छत्रचामरिभिरेव च ॥ सा च तं पूजयामास पाद्यादिभिरुपक्रमात् ॥ ५ ॥
गन्धतैलेन चाभ्यर्च्य स्नापयामास यादव ॥ सुखस्पर्शैश्च पवनैर्गन्धैश्च विविधैस्तथा ॥ ६ ॥ लिलेप चास्य गात्राणि चन्दनेन सुगन्धिना ॥
वस्त्राण्यलङ्कारांस्तैस्तैश्च पूजयामास तं तथा ॥ ७ ॥ भोजयामास चान्नं सर्वकामसमुद्दिना ॥ ताम्बूलं प्रददौ चास्मै सुगन्धि सुमनोहरम् ॥ ८ ॥
वि० ध० | नृ० खं० ॥३९॥ | अ० २२४
श्वेतोत्तरच्छदं चित्रं स्वास्तीर्णं परमर्द्धिमत् ॥ गृहे विचित्रं शयनं प्रददौ सुमनोहरम् ॥ ९ ॥ तादृग्विधे परे तत्र सा च सुष्वाप भामिनी ॥ विसर्जयित्वा नारीस्ताः सर्वा बालमृगेक्षणाः ॥ १० ॥ शीतापादंशने ततो विरोजे शयनात्तत्क्षणात् ॥ अथाकस्माच्च शयनं जगाम वरवर्णिनी ॥ ११ ॥ दृष्ट्वा शयनसम्प्राप्तां किमेतदिति सोऽब्रवीत् ॥ नानुरूपमिदं तवे वयश्श्लाघाह्लादिनि ॥ १२ ॥ अभ्रभ्रंशचलेऽस्मि परदारविवर्जकः ॥ स्वच्छन्दं मामवज्ञाय किमिदं कर्तुमीहसे ॥ १३ ॥ दिशोवाच ॥ न वयं द्विज तारुण्ये चपलाः केवलं स्त्रियः ॥ वयसोन्तेऽपि चापल्यं भजामः कामचोदिताः ॥ १४ ॥ न अनं तत्त्वया मन्ये स्त्रीशीलं द्विजसत्तम ॥ नैता वयसि रज्यन्ते न रूपे न कुले श्रुते ॥ १५ ॥ शीले वेशे धने शौर्ये रज्यन्ते क्वचिदेव तु ॥ कामयन्त्येव पुरुषं यथालाभमिति श्रुतिः ॥ १६ ॥ यासां हि रक्षा महती ताभिर्यः कुञ्जवायनैः ॥ प्रेष्यैर्वापिहि सज्जन्ते पुंसामिति भार्गव ॥ १७ ॥ नाग्निस्तृप्यति काष्ठैर्वा नापगाभिर्महोदधिः ॥ नान्तकः सर्वभूतैर्वा न पुंभिर्विमलोचनाः ॥ १८ ॥ लीलयेव कुलं घ्नन्ति स्मयमानास्तु योषितः ॥ दुर्लभा हि क्षिरण्णास्त्वंभावेन भूयुतन्म ॥ १९ ॥ रहो नास्ति क्षणो नास्ति नास्ति चोपनिमन्त्रणम् कः ॥ तेन धर्मेण नारीणां सतीत्वमुपजायते ॥ २० ॥ प्रेषितस्त्वं महाभाग मत्समपं महात्मना ॥ स्त्रीणां शीलमिह ज्ञातुमस्मद्हं तथा श्रुतम् ॥ ॥ २१ ॥ एतज्ज्ञात्वा जुगुप्सां च स्त्रीणां कार्यं न च त्वया ॥ मूले धर्माथंकामानां यतस्ता एव योषितः ॥ २२ ॥ बहिरन्तं जलं चैव नराणां धृतयेहतवः ॥ धातकाश्च त एवोक्तास्तथा ज्ञेयाश्च योषितः ॥ २३ ॥ वृत्तिर्नैके यथा नास्ति वह्निश्चास्रलिलेविना ॥ गृहाश्रमस्तथा नास्ति विना स्त्रीभिः कथञ्चन ॥ २४ ॥ तस्मात्ताः प्रज्ञया रक्ष्या नोपेण्या मुढना न च ॥ स्त्रियो मूलमनर्थानां त्रिर्वगस्य च साधनम् ॥ २५ ॥ तासां न गच्छेद्विश्वासं मपिस्नेहोपयेत्तु ताः ॥ गृहकृत्यांद्यधायाः कृत्वा रक्ष्यास्ता भुतिममिच्छता ॥ २६ ॥ एतच्छ्रुत्वा द्विती चेति पूजितः स तया क्रिया ॥ जगाम धन्गदावासं ततोऽपि श्वशुरालयम् ॥ २७ ॥ ततः श्वशुरामासाद्य सर्वं तस्मै न्यवेदयत् ॥ ह च पप्रच्छ तं विप्रं श्रुत्वा स्त्रीणां विचेष्टितम् ॥ २८ ॥ बुद्धिनिर्दग्धुं सज्ञाता न वा जाता वदस्व तत् ॥ एतच्छ्रुत्वोत्तरोत्तरं वाक्यमष्टावक्रोऽब्रवीन्मुनिम् ॥२९॥ न चाप्येषा गतिः क्षम्या न चान्या विद्यते गतिः ॥ तस्मात्प्रयच्छ धर्मेज्ञ पन्यन्थे स्वसुतां मम ॥ ३० ॥ एतच्छ्रुत्वा ददौ तस्मै स्वसुतां मार्ग वो मुनिः ॥ तिथौ दिवसनाक्षत्रे मुहूर्ते चाभिपुजिते ॥ ३१ ॥ त्रिवर्गेण्हतं सम्प्राप्य तां भार्यामसितेक्षणाव् ॥ जगाम परमां र्तीदं तुष्टुदे च तया सह ॥३२॥ ररक्ष चैनां स ततो महात्मा कृत्वा च नित्यं गृहकार्ययुक्ताम् ॥ आराधयामास च सा द्विजेन्द्रं धर्मे निविष्टा परमा च साध्वी ॥ ३३ ॥ ॥३९॥