सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 847, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 847

जयन्तं शक्रतनयं पूजयित्वा सुखी भवेत् ॥ अष्टम्यां पूजनं कृत्वा वसूनां धर्मसत्तम ॥ ६६ ॥ नाकलोकमवाप्नोति गतिमग्र्यां च विन्दति ॥ एकानंशां तदा देवीं तथा संपूजयेन्नरः ॥ ६७ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ महादेवं समभ्यर्च्य सर्वान्कामानवाप्नुयात् ॥ ६८ ॥ वीरभद्रं सनन्दीशं लगुडेशं तथैव च ॥ भद्रकालीं तथाभ्यर्च्य नवम्यां यदुनन्दन ॥ ६९ ॥ काममेकमवाप्नोति यं कञ्चिन्मनसेप्सितम् ॥ चतुष्पथेषु रम्येषु तथैवाहाटकेषु च ॥ ७० ॥ गिरिशृङ्गेषु रम्येषु नदीतीरेषु चाप्यथ ॥ गुहासु चैव रम्यासु पिशाचानां बलिं हरेत् ॥ ७१ ॥ शक्रादीनां च देवानां ये च पार्श्वचराः सुराः ॥ तेषां बलिमुपाहृत्यकुर्वन्क्षेममवाप्नोति मानवः ॥ ७२ ॥ आयुधं पूजयित्वा च तथा विजयमाप्नुयात् ॥ विद्यामाप्नोति विपुलां पूजयित्वा सरस्वतीम् ॥ ७३ ॥ विद्याकामस्तु कुर्वीत तदा पुस्तकपूजनम् ॥ तथैवाश्वयुजे शुक्ले भद्रकालीं विशेषतः ॥ ७४ ॥ नवम्यां पूजयित्वा तु सर्वान्कामानवाप्नुयात् ॥ दशम्यां पूजयन्नागान्विद्वेद्वेवांस्तथा दश ॥ ७५ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ तदा संपूजयन्नागांस्तथैव च दिशो दश ॥ ७६ ॥ क्रियासाफल्यमाप्नोति यत्र यत्राभिजायते ॥ धर्मं संपूज्य देवेशं सर्वसत्त्वसुखा वहम् ॥ ७७ ॥ धर्मे मतिमवाप्नोति धर्मसाफल्यमेव चाएकादश्यां तु संपूज्य रुद्रानैकादशैव च ॥ ७८ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥ तथा सर्वगतान्द्रांस्तदा सर्वत्र पूजयेत् ॥ ७९ ॥ सर्वान्कामानवाप्नोति सर्वानपराजितान् ॥ तथा च द्वादशादित्यान्दशम्यां पूजयेन्नरः ॥ ८० ॥ द्वादशाहमवाप्नोति गतिमग्र्यां च विन्दति ॥ द्वादश्यां देवद्देशं पूजयित्वा जलाधिपम् ॥ ८१ ॥ पौण्डरीकमवाप्नोति वरुणं यादसां पतिम् ॥ सर्वदेवेश्वरं शक्रं पूजयित्वा तथा नरः ॥ ८२ ॥ सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ॥ विष्णोः संपूजनं कृत्वा कामानाप्नोत्य भीप्सितान् ॥ ८३ ॥ इष्टयज्ञफलं प्राप्य गतिमग्र्यां च विन्दति ॥ त्रयोदश्यामथाम्भ्यर्थ्य कामदेवं समर्चयेत् ॥ ८४ ॥ अयत्नात्सर्व माप्नोति फलं संवत्सरोदितम् ॥ यक्षाणां राक्षसानां च चतुर्दश्यां तु पूजनम् ॥ ८५ ॥ कृत्वा क्षेममवाप्नोति क्रिया साफल्यमेव च ॥ पूजयित्वा धनाध्यक्षं तदा वैश्रवणं प्रभुम् ॥ ८६ ॥ बहुवित्तमवाप्नोति फलं संवत्सरोदितम् ॥ शंख पद्मौ तथाभ्यर्च्य निधानौ यक्षपूजितौ ॥ ८७ ॥ मणिभद्रं तथाभ्यर्च्य धनमाप्नोत्यसंशयम् ॥ पूजयित्वा महादेवं सर्वान्कामानवाप्नुयात् ॥ ॥ ८८ ॥ माघमासचतुर्दश्यां कृष्णपक्षे विशेषतः ॥ तथा पितृगणान्नान्दीशोणे चन्द्रे च पूजयेत् ॥ ८९ ॥ सर्वकामसमृद्धस्य यज्ञस्य फलम् श्नुते ॥ श्रद्धां कृत्वा तथा राजन्सर्वान्कामानवाप्नुयात् ॥ ९० ॥ पूर्णिमन्दुं तथाभ्यर्च्य सौभाग्यं महदाप्नुयात् ॥ इष्टयज्ञमथाम्यर्च्य नक्षत्रमथ

६७