विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 845, कुल 1001 में से
संदर्भ में पढ़ेंतस्मिन्नहनि पूजयेत्॥ १३॥ शङ्खेभ्यः सौख्यमाप्नोति स्वास्थ्यमग्र्यं तथैव च। अत्रापि हि ब्रह्मणा सृष्टं त्रैलोक्यं प्रथमं द्विज॥ १४॥ इदं प्रजापतिं नित्यं द्विती यायामार्चयेत्त तु फलमाप्नोति धर्मज्ञ गोसवस्य न संशयः ॥ १५॥ तथा नासत्ययोः कृत्वा तस्मिन्नहनि पूजनम् ॥ नित्यमारोग्यमाप्नोति तथा रूपं च भार्गव॥ १६॥ शुक्लपक्षद्वितीयायां बालचन्द्रस्य पूजनम्॥ कृत्वा दत्त्वा च लवणं प्राश्नात्रौ सुभगो भवेत्॥ १७॥ साध्या द्वादश ये प्रोक्ता स्तेषां कृत्वा तु पूजनम्॥ तृतीयास्यां महाभाग द्वादशाहफलं लभेत्॥ १८॥ तृतीयायां तथाभ्यर्च्य ब्रह्मविष्णुमहेश्वरान्॥ पृथक्पृथङ् महाभाग त्रिवर्गफलभाग्भवेत् ॥ ॥ १९॥ व्रीहीन्कांश्च तदा राम सम्यक्संपूजयेन्नरः ॥ ऐश्वर्यं महदाप्नोति गतिमग्र्यां च विन्दति ॥ २०॥ तृतीया श्रावणे कृष्णा या स्याच्छ्रवणसंयु ता ॥ तस्यां संपूज्य गोविन्दं पृष्टिमभ्याभवाप्नुयात् ॥२१॥ वैशाखशुक्लपक्षे तु तृतीयायामथोपोषितः॥ अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य तु ॥ २२॥ सा तथा कृत्तिकोपेता विशेषेण च पूजिता ॥ तत्र दत्तं हुतं ततं सर्व सफ़लमुच्यते ॥ २३ ॥ अक्षया सा तिथिर्यस्मात्तस्मात्सुकृतमक्षयम् ॥ अक्षतैः पूज्यते विष्णुस्तेन साऽक्षता स्मृता ॥ २४॥ अक्षतैस्तु नरः स्नातो विष्णोर्दत्त्वा तथाक्षतान् ॥ सक्तून्सुसंस्कृतैश्चैव हुत्वा चैव तथाक्षतान् ॥ २५॥ विप्रेषु दत्त्वा तानेव तथा सक्तुं सुसंस्कृतम् ॥ यवान्प्रसृङ् महाराज फलमक्षय्यमश्नुते ॥२६॥ एकाग्रमप्युकृत्वा तृतीयां भृगुनन्दन ॥ एषामब्दतृतीयानां सर्वासां तत्फलं भवेत् ॥२७॥ प्रोक्तास्तु भृगवो नाम देवा द्वादश ये पुरा ॥ चतुर्थ्यां पूजनं तेषां कृत्वा दिवमवाप्नुयात् ॥ २८ ॥ यमस्य पूजनं कृत्वा चतुर्थ्यामेव धार्मिकः ॥ नाप्नोति नारकं दुःखं तुष्टे रविसुते नरः ॥ २९ ॥ विनायकमथाभ्यर्च्य चतुर्थ्यां यदु नन्दन ॥ सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात् ॥ ३० ॥ निद्रां रतिं तथा श्रद्धां कीर्ति मेधां सरस्वतीम् ॥ प्रज्ञां तुष्टिं तथा कान्तिं तस्मि न्नहनि पूजयेत् ॥ ३१ ॥ तत्प्रसादामवाप्नोति यथेष्टं मनुजोत्तम ॥ विद्याकामो विशेषेण पूजयेत्तु सरस्वतीम् ॥ ३२ ॥ देवानां मातरः सर्वास्तथा तत्रापि पूजिताः ॥ सर्वकामप्रदा ज्ञेयाः पुरुषस्य विपश्चितः ॥ ३३ ॥ पञ्चम्यां पूजनं कृत्वा तथा चन्द्रमसो नरः ॥ सौभाग्यं महदाप्नोति यशश्चाग्र्यं च विन्दति ॥ ३४ ॥ पञ्चम्यां पृथिवीं देवीं तथा सम्पूजयेन्नरः ॥ तामेवाप्नोत्ययत्नेन नात्र कार्या विचारणा ॥ ३५ ॥ विश्वेदेवास्तु ये प्रोक्ताः पूर्वमेव मया दश ॥ तेषां सम्पूजनं कृत्वा पञ्चम्यां दिवमाप्नुयात् ॥ ३६ ॥ इष्टगन्धैरभ्यर्च्य पञ्चम्यां सुभगो भवेत् ॥ तथा चित्ररथं तेषां राजानं च विशेषतः ॥ ३७॥ देवभार्या तथा भार्यां सम्पूज्य सुभगो भवेत् ॥ इष्टमप्सरसं चैव तथा रूपमवाप्नुयात् ॥ ३८ ॥ इष्टं नागं तथाभ्यर्च्य श्रियमाप्नोत्यनुत्तमाम ॥ वारुणैः पुष्करस्थार्चां पञ्चम्यां यः समाचरेत् ॥ ३९ ॥ सर्वकामसमृद्धस्य सोमयज्ञफलं भवेत् ॥ तथा च