विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 849, कुल 1001 में से
संदर्भ में पढ़ेंस्त्रीस्वभावो यदि ज्ञातस्त्वया धर्मविदां वर ॥ ४ ॥ ततोऽहं तव दास्यामि कन्यां बालमृगेक्षणाम् ॥ ॥ अष्टावक्र उवाच ॥ ॥ स्त्रीस्वभावो न विज्ञातो मया ब्राह्मणसत्तम ॥ ५ ॥ कुतश्च तन्मया ज्ञातस्तन्ममाचक्ष्व पृच्छतः ॥ ॥ भार्गव उवाच ॥ ॥ उत्तरां त्वं दिशं पश्य सा ते वक्ष्यति तत्त्वतः ॥ ६ ॥ स्त्रीस्वभावं महाभाग गच्छ शीघ्रममन्दितः ॥ ॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्तः स धर्मात्मा प्रयायादुत्तरां दिशम् ॥ ७ ॥ गङ्गाद्धारकमेणाथ त्वरितो मुनिपुङ्गवः ॥ तीर्थानि सरितश्चैव शैलानि नगराणि च ॥ ८ ॥ विलङ्घ्य धनदावासमाससाद महातपाः ॥ कैलासे पर्वते श्रेष्ठे सर्वकामसमृद्धिमत् ॥ ९ ॥ तत्रासीनं महाभागं स ददर्श धनाधिपम् ॥ वरासनगतं वीरं हारभारविभोतोदरम् ॥ १० ॥ वाम भागे किरीटेन विनीतेन विराजितम् ॥ कुण्डलाभ्यां विचित्राभ्यां केयूरेणोदरेणस्तथा ॥ ११ ॥ गदाधरं महाकायमेकलोचनपिङ्गलम् ॥ तथा च शङ्खपद्माभ्यां निधिभ्यां च विराजितम् ॥ १२ ॥ यक्षैश्च सुमहाभागैर्मणिरूपपराक्रमैः ॥ दीर्घभद्रेण वीरेण पूर्णभद्रेण चाप्यथ ॥ १३॥ मणिभद्रेण वीरेण यक्षभद्रेण चाप्यथ ॥ दीर्घबाहुमहाबाहुपद्मकिञ्जल्क्सुसंज्ञैः ॥ १४ ॥ स्वभद्रेण सुपाश्वेन तथा मणोधरेण च ॥ यक्षैश्चान्यैश्च धर्मज्ञ महा बलपराक्रमैः ॥ १५ ॥ नानावेशैश्च गन्धर्वैर्महासत्त्वैर्महाबलैः ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनेनोऽथ तुम्बुरुः ॥ १६ ॥ पूर्णायुर्नखश्चैव तथा शालि शिराः प्रभुः ॥ शृङ्गारकर्णोऽतिबलो भीमो भीमपराक्रमः ॥ १७ ॥ एते चान्ये च गन्धर्वास्तथैवाप्सरसः शुभाः ॥ उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुसा १८ ॥ विश्वाची च घृताची च पञ्चचूडा मनोरमा ॥ एताभिश्च तथान्याभिर्देवस्त्रीभिः सहस्रशः ॥ १९ ॥ स ददर्श धनाध्यक्षं सम न्तात्परिवारितम् ॥ पाद्यार्थ्याचमनीयाद्यैरर्चनाद्यैश्चलक्षणं पूजितः ॥ २० ॥ वरासनगतो राजंस्तुष्टाव धनदं प्रभुम् ॥ ॥ अष्टावक्र उवाच ॥ ॥ नमोऽस्तु ते धनाध्यक्ष यक्षाध्यक्ष नमोऽस्तु ते ॥ २१ ॥ महाबाहो महासत्त्व राजराजाग्रणीप्रभो ॥ ऋषिसङ्घैस्तुतश्चाचिन्तन्त्य वाममौले वरप्रद ॥ ॥ २२ ॥ पिङ्गल विपुलग्रीव देवश नरवाहन ॥ गदाधर, विशालाक्ष सूर्यतेजःसमप्रभ ॥ २३ ॥ भवाञ्छूलिनसखो नित्यं विष्णोरंशस्तथा भवान् ॥ देवासुरेषु संग्रामे भवता विनिपातिताः ॥ २४ ॥ बहवो दानवा वीरा महाबलपराक्रमाः ॥ लोकान्धारयसे सर्वांस्त्वमेको यक्षपार्थिवः ॥ २५ ॥ भक्तानुकम्पी सततं चोत्तराशामुखः प्रभुः ॥ धर्मसेतुर्जगत्त्वास्मिंस्त्वयि सर्वं प्रतिष्ठितम् ॥ २६ ॥ ॐ मार्कण्डेय उवाच ॥ एवं धनाधि
* “एवं स्तुतस्तु मुनिना प्रीत्वा प्रोवाच वित्तपः ॥ यदस्ति कार्यं कृपया तन्मे वद महामुने” एतादृशमेकपद्यमत्रापेक्षितमस्ति ।