सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 836, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 836

वि० ध० ॥३९१॥ तृ० खं० अ० ॥३९१॥

व्रतान्ते जलधेनुं च च्छत्रोपानत्समन्विताम्॥ वस्त्रयुग्मयुतां दद्यात्प्रतिमासं च काञ्चनम् ॥ रात्रौ च दीपमालाभिर्देवदेवं तु पूजयेत् ॥ ९ ॥
कृत्वा व्रतं वत्सरोत्थं दिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म ॥ प्राप्नोत्यवाप्नोति चिरं च नाकं कामं तथाप्नोति मनोभिरामम् ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुदेशजन्मप्राप्तिव्रतवर्णनो नाम नवनवत्युत्तरशततमोऽध्यायः॥ १९९॥ वज्र उवाच ॥ इष्टां जातिं मवाप्नोति कर्मणा येन मानवः ॥ तन्ममाचक्ष्व धर्मज्ञ त्वं हि सर्वविदुच्यसे ॥ १ ॥ मार्कण्डेय उवाच ॥ पौरुषेषु सदा ते वै त्रिरात्रोपोषितो नरः ॥ चैत्रमासादारभ्य कार्तिके पूजयेद्धरिम् ॥ २ ॥ पौरुषेण च सूक्तेन ऋग्भिः पुष्पैः फलैस्तथा ॥ धूपैर्दीपेस्तथान्नेन घृताहुतिभिरेव च ॥ ३ ॥ धेनुर्व्रतान्ते दातव्या कृत्वा संवत्सरं व्रतम् ॥ यथेष्टां जातिमाप्नोति नात्र कार्या विचारणा ॥ ४ ॥ न केवलं जातिकरं प्रदिष्टं व्रतोत्तमं यावद्द्दीनस्त्व ॥ कामानां प्राध्यनुरूपस्य दद्यान्मोक्षं च दद्याद्रूपप्रधानं ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे इष्टजात्याप्तिव्रतवर्णनो नाम द्विशततमोऽध्यायः॥ २०० ॥

वज्र उवाच ॥ भगवन्कर्मणा केन कुले जन्म समश्नुते ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ १ ॥
मार्कण्डेय उवाच ॥ बृहद्विशि तु संप्राप्य त्रिरात्रोपोषितो नरः ॥ मार्गशीर्षादारभ्य पूजयेत्तु त्रिविक्रमम् ॥ २ ॥ त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः ॥ त्रयोदशुलपेना दया त्रिसारं धूपमेव तु ॥ ३ ॥ बलिं त्रिमधुरं दद्याच्चैवैव दीपान्घृतप्लुतम् ॥ यवैस्तिलैस्तथा होमः कर्तव्यः सर्षपैर्युतैः ॥ ४ ॥ दद्याद्विप्रेभ्यस्तथा सुवर्णं रजतं च राजन् ॥ न केवलं सत्कुलदं व्रतं तु यथेष्टकामाप्तिकरं प्रदिष्टम् ॥ ५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सत्कुलावाप्तिव्रतवर्णनो नामैकोत्तरीद्विशततमोऽध्यायः॥ २०१ ॥

वज्र उवाच ॥ भवन्कर्मणा केन रूपवाञ्जायते नरः ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ १ ॥
मार्कण्डेय उवाच ॥ फाल्गुन्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ यावच्चैत्री महाराज तावत्स्नातो दिनेदिने ॥ २॥ बहिः सम्पूजयेद्देवं केशवं भोगशायिनम् ॥ एकभक्ताशनो नक्तमथःशायी तथा भवेत् ॥ ३ ॥ त्रिरात्रोपोषितः कुर्यात्पूजां चैत्र्यां तथैव च ॥ स्वशक्त्या रजतं दद्याद्रुक्ययुग्मं तथैव च ॥ ४ ॥ रूपान्वितो मासमिदं मयोक्तं व्रतोत्तमं नित्यमदीनसत्त्व ॥ कृत्वा च नाकं मनुजस्त्ववाप्य मातुष्यमासाद्य च रूपवान्स्यात् ॥ ५ ॥
इति श्रीविष्णु० ध० तृ०ख० मा० व० सं० रूपावाप्तिव्रतवर्णनो नाम द्व्युत्तरोद्विशततमोऽध्यायः ॥२०२॥

वज्र उवाच ॥ भगवन्कर्मणा केन नरो लावण्यमाप्नुयात् ॥ लावण्यरहितं रूपं निष्फलं प्रतिभाति मे ॥१॥
मार्कण्डेय उवाच ॥ कार्तिकायां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पटे वा यदि वार्चायां प्रद्युम्नं