विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 837, कुल 1001 में से
संदर्भ में पढ़ेंपूजयत्प्रसूनैश्शान्तैः स्नानं सदा कुर्यान्नक्तमश्नीत वाग्यतः ॥ एकभुक्तं महाराज हविष्यं प्रयतः सदा ॥ ३ ॥ मार्गशीर्षे तथा प्राप्य त्रिरात्रोपोषितः शुचिः ॥ संपूज्य देवं प्रद्युम्नं हुत्वाऽग्नौ घृतमेव च ॥ ४ ॥ भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोक्तकम् ॥ चूर्णितस्य ततः प्रस्थं लवणस्य द्विजातये ॥ ५ ॥ महाराजतकृतं च वस्त्रयुग्मं तथा गुरोः ॥ दद्याच्च कनकं राजन्कांस्यपात्रं रसैर्युतम् ॥ ६ ॥ एतद्धि लावण्यकरं प्रदिष्टं व्रतोत्तमं नाकगतिप्रदं च ॥ न केवलं यादववीर कामाभिरामो भवेत्पुरुषप्रधानः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मा० व०सं० लावण्यव्रतवर्णनो नाम त्र्युत्तरद्विशततमोऽध्यायः ॥ २०३ ॥
वज्र उवाच ॥ भगवन्कर्मणा केन सौभाग्यं महदाप्नुयात् ॥ लावण्यहेतुः सौभाग्यं विना ज्ञेयं निरर्थकम् ॥ १ ॥
मार्कण्डेय उवाच ॥ माघ्यां तु समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पटे वा यदि वाऽर्चायां कृष्णं सम्पूजयेत्सदा ॥ २ ॥ पूर्वोक्तं सकलं कुर्याद्धविष्यं च धराधिप ॥ नित्यं समाचरेत्स्नानं तथा गन्धप्रियंगुना ॥ ३ ॥ फाल्गुन्यां तान्ततो दद्याद्विप्रेभ्यः समुपोषितः शुचिः ॥ ४ ॥ वस्त्रे च देये नृप कुंकुमाक्ते सौवर्णं पात्रं च तथैव कांस्यम् ॥ सौभाग्यदं चैतदनुत्तमं ते व्रतं मयैतत्कथितं नृवीर ॥ ५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सौभाग्यवाप्तिव्रतवर्णनो नाम चतुरुत्तरद्विशततमोऽध्यायः ॥ २०४ ॥
वज्र उवाच ॥ भगवन्कर्मणा केन नरस्त्वरोग्यमाप्नुयात् ॥ रूपसौभाग्यलावण्याः सरोगस्य निरर्थकाः ॥ १ ॥
मार्कण्डेय उवाच ॥ प्रौष्ठपद्यामतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पटे वा यदि वाऽर्चायामनिरुद्धं तु पूजयेत् ॥ २ ॥ पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत् ॥ सर्पिषार्चयेद्देवं जातीपुष्पैर्दिनेदिने ॥ ३ ॥ घृतेन जुहुयाद्वह्निं घृतं दद्याद्विजातये ॥ भोजनं गोरसप्रायं तथा विप्रांश्च भोजयेत् ॥ ४ ॥ त्रिरात्रोपोषितः सम्यगाश्वयुज्यां ततो नरः ॥ सघृतं ससुवर्णं च कांस्यपात्रं द्विजातये ॥ ५ ॥ दद्यान्नृपतिशार्दूल नरस्त्वारोग्यवृद्धये ॥ व्रतमेतद्विनिर्दिष्टं स्वर्गलोकप्रदं नृणाम् ॥ ६ ॥ न केवलं रोगहरं प्रदिष्टमायुस्करं रूपविवृद्धिदं च ॥ व्रतोत्तमं ते कथितं नृवीर तथैष्टकामाप्तिकरं नृलोके ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आरोग्यव्रतवर्णनो नाम पञ्चोत्तरद्विशततमोऽध्यायः ॥ २०५ ॥
वज्र उवाच ॥ भगवन्कर्मणा केन प्रज्ञायुक्तो भवेन्नरः ॥ एतद्देव मनुष्याणां मनुष्यत्वमुदाहृतम् ॥ १ ॥
मार्कण्डेय उवाच ॥ चैत्र्यां तु समतीतायां यावन्मासं दिनेदिने ॥ पूर्ववत्पूजयेद्देवं नृसिंहमपराजितम् ॥ २ ॥ होमं च प्रत्यहं कुर्यात्तथा सिद्ध्यर्थकैर्नृप ॥ ब्राह्मणान्भोजयेच्चात्र तथा त्रिमधुरं सदा ॥ ३ ॥ वैशाख्यां कनकं दद्यान्त्रिरात्रोपोषितो नरः ॥ ज्ञानावाप्तिप्रदं ह्येतद्व्रतं बुद्धिविवर्धनम् ॥ ४ ॥ कृत्वा व्रतं मासमिदं मयोक्तमासाद्य नाकं सुचिरं मनुष्यः ॥ मानुष्यमासाद्य च बुद्धियुक्तो ज्ञानेन युक्तश्च तथा भवेत्तु ॥ ५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे