सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 839, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 839

नरः ॥ १ ॥ मार्कण्डेय उवाच ॥ वैशाख्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पूर्ववत्पूजयेद्देवं श्रीमत्सहायं दिनेदिने ॥ २ ॥ पुष्पमूलैः फलैश्चैव जुहुयादक्षतांस्तथा ॥ बिल्वांश्च वह्नौ सततं गौरैस्सर्षपैररिष्टजान् ॥ ३ ॥ त्रिरात्रोपोषितो ज्येष्ठे कनकं प्रतिपादयेत् ॥ वस्त्रयुग्मं च राजेन्द्र तेन साफल्यमश्नुते ॥ ४ ॥ कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः ॥ मानुष्यमासाद्य विवृद्धतेजाः श्रिया युतः स्याज्जाति प्रधानः ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे श्रीलब्धिव्रतवर्णनो नामैकादशोत्तरद्विशततमोऽध्यायः ॥ २११ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन भोगानवाप्नोति मानवः ॥ किन्तु भोगविहीनस्य कार्यमस्ति धनैर्द्विज ॥ १ ॥ मार्कण्डेय उवाच ॥ ज्येष्ठायां समतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पूर्ववत्पूजयेद्देवं विश्वरूपधरं हरिम् ॥ २ ॥ कृत्वा व्रतान्ते च तथा त्रिरात्रं दत्त्वा सुयुक्तं शयनं द्विजाय ॥ स्वलोकमासाद्य चिरं तथोष्य मानुष्यमासाद्य च भोगवान्स्यात् ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे भोगावाप्तिव्रतवर्णनो नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥ २१२ ॥ वज्र उवाच ॥ भगवन्कर्मणा केन सर्वत्र जयमाप्नुयात् ॥ व्यवहारे रणे द्यूते विवादे च द्विजोत्तम ॥ १ ॥ जयावाप्तिः परं नास्ति सौख्यं लोकेषु सत्तम ॥ जयावाप्तिः परं सौख्यं तदात्वित्युच्यताम् ॥ २ ॥ मार्कण्डेय उवाच ॥ आश्वयुज्यामतीतायां प्रतिपत्प्रभृति क्रमात् ॥ पूर्ववत्पूजये- द्विष्णुं देवदेवं त्रिविक्रमम् ॥ ३ ॥ त्रिरात्रान्ते तु कार्त्तिक्यां दद्यात्कृष्णाजिनोत्तमम् ॥ सर्वसस्यवरं कृत्वा शक्त्या रत्नैरलंकृतम् ॥ ४ ॥ कृत्वा व्रतं मासमिदं यथोक्तं प्राप्नोति नाकं सुचिरं नृवीरः ॥ तत्रोष्य कालं सुचिरं मनुष्यः प्राप्नोति सर्वत्र जयं त्रिलोके ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे जयावाप्तिव्रतवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः ॥ २१३ ॥ वज्र उवाच ॥ व्रतान्यन्यानि मे ब्रूहि काम्यानि द्विज- पुङ्गव ॥ नारीणां पुरुषाणां वा सर्वशस्तत्वं मतो मम ॥ १ ॥ मार्कण्डेय उवाच ॥ कृत्तिकासु त्वर्चयेद्देवं कार्त्तिकप्रभृतिक्रमात् ॥ यावत्स्यात्का- र्तिकं भूयो नरसिंहमुपोषितः ॥ २ ॥ अनुलेपनपुष्पाद्यैः सर्वैरूपैस्तथैव तु ॥ व्रतावसाने दत्त्वा च चन्दनं तगरं द्विजे ॥ ३ ॥ चर्म चैवाशुभं मुख्यं वासांसि विविधानि च ॥ सर्वत्र जयमाप्नोति यत्रयत्राभिजायते ॥ ४ ॥ मार्गशीर्षात्समारभ्य मृगशीर्षे तथाऽर्चयेत् ॥ यावद्भाद्रपदी भूयो रामं दशरथात्मजम् ॥ ५ ॥ अनुलेपनपुष्पाद्यैः सर्वरत्नैः सदैव तु ॥ व्रतावसाने दद्याद्गां तथा श्वेतां द्विजातये ॥ ६ ॥ श्वेतं वस्त्रयुगं चैव रजतं च तथा नृप ॥ उपोषितः सदा कृत्वा व्रतं स्याच्छत्रुवर्जितः ॥ ७ ॥ पौषमासादारभ्य पुष्ये नित्यमुपोषितः ॥ यावत्पौषी भवेद्भूयो बल- भद्रमथार्चयेत् ॥ ८ ॥ अनुलेपनपुष्पैः सर्वरत्नैस्तथैव च ॥ व्रतावसाने सघृतं कांस्यं कनकमेव च ॥ ९ ॥ दत्त्वा विप्राय भवति नित्यं पुष्टि