विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 875, कुल 1001 में से
संदर्भ में पढ़ें...मो यैः पापं विप्रणश्यति ॥ प्राप्नोत्यभ्युदयं चैव पुरुषः पक्षिसत्तम ॥ १ ॥ हंस उवाच ॥ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमयाचितम् ॥ त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन्द्विजः ॥ २ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृ- तम् ॥ ३ ॥ एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ॥ त्र्यहं चोपवसेद्यस्त्वतिकृच्छ्रं चरन्द्विजः ॥ ४ ॥ तप्तकृच्छ्रं चरन्विप्रो दधिक्षीर- घृतानिलान् ॥ प्रतित्र्यहं पिबेदुष्णं सकृत्स्नायी समाहितः ॥ ५ ॥ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥ पराको नाम कृच्छ्रोऽयं सर्वपापा- पनोदनः ॥ ६ ॥ यथाकथञ्चित्पिण्डानां तिस्रोऽशीतिः समाहितः ॥ मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ७ ॥ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ॥ अहिंसासत्यमक्रोधमार्जवं च समाचरेत् ॥ ८ ॥ त्रिर्दिने त्रिर्निशायाञ्च सवासा जलमाविशेत् ॥ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ॥ ९ ॥ स्थानासनाभ्यां विहरेदशक्तोऽधःशयीतवा ॥ ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ ॥ १० ॥ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ॥ सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादितः ॥ ११ ॥ कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ॥ नैवं कुर्याम्पुनरिति निवृत्त्या पूयते तु सः ॥ १२ ॥ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ॥ पापकृन्मुच्यते पापात्तथा दानेन चापदः॥१३॥यथास्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ॥ तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥१४॥ पापस्य नाशस्तपसा विधेयो धर्मस्य वृद्धौ तपसा विधिना ॥ पापप्रणाशे त्वथ धर्मवृद्धौ कामाः समृद्ध्यन्ति नरस्य विप्राः ॥ १५ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृच्छ्रसान्तपनादिप्रायश्चित्तवर्णनो नाम षट्त्रिंशाधिकद्विशततमोऽध्यायः ॥२३६॥ ॥ ऋषय ऊचुः ॥ ॥ कर्मणा केन पुरुषः किमाप्नोति महामते ॥ एतन्नः संशयं छिन्धि द्विजानां द्विजसत्तम ॥ १ ॥ ॥ हंस उवाच ॥ दानेन भोगी भवति तपसा विन्दते महः ॥ वृद्धोपसेवया विप्राः प्राज्ञो भवति मानवः ॥ २ ॥ यज्ञेन लोकानाप्नोति पापनाशं हुतेन च ॥ जप्येन कामानाप्नोति सत्येन च परां गतिम् ॥ ३ ॥ स्नानेन शुद्धिमाप्नोति प्राणायामाद्विशोषतः ॥ ध्यानेन धारणाभिश्च पदमाप्नोत्यनुत्तमम् ॥ ४ ॥ दमेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ॥ शौचेन देवाः प्रीयन्ते प्रीयन्ते चोपवासतः ॥ ५ ॥ उपवासव्रतस्नानां कामावाप्तिर्ध्रुवं भवेत् ॥ ददाति विपुलाम्भोगांन्संग्रामेष्वपलायिनाम् ॥ ६ ॥ मधुमांसनिवृत्तोऽपि परं सौख्यमुपाश्नुते ॥ अहिंसया त्वरोगी स्याद्दीर्घायुश्चाप्यहिंसया ॥७॥ रूपलावण्यसौभाग्यधनधान्ययुतः सदा ॥ तीर्थानुसरणाद्विप्राः पापनाशमवाप्नुयात् ॥८॥ सर्वकल्मषहीनश्च याँल्लोकान्मनसेच्छति ॥ प्रतित्रयमदा