विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 876, कुल 1001 में से
संदर्भ में पढ़ेंनेन स्थानमाप्नोत्यनुत्तमम् ॥९॥ पूज्यपूजयिता विप्रा यशसा युज्यते नरः ॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः॥१०॥समं कृत्वा विवर्धन्ते कीर्तिरायुर्यशो बलम् ॥ ११ ॥ ऋतुकालादृते भार्यां तथैव परिवर्जयेत् ॥ सर्वकामानवाप्नोति ब्रह्मलोकं च गच्छति ॥ १२ ॥ उभौ कालौ तु भुञ्जानस्त्वन्तरा परिवर्जयेत् ॥ पानीयमपि विप्रेन्द्रा ब्राह्मं लोकं प्रपद्यते ॥ १३ ॥ अनेनैव विधानेन देशकालाशनो नरः ॥ सर्वान्कामानवा- प्नोति गतिमाप्नोत्यभीप्सिताम् ॥ १४ ॥ तथा भोजनकाले तु मौनं यस्तु समाचरेत् ॥ उपवासफलन्तस्य प्रत्यहं भोजने स्मृतम् ॥ १५ ॥ सर्वान्कामानवाप्नोति मौनी नक्ताशनस्सस्कृत ॥ नाप्नोति नारकं दुःखं नित्यस्नायी नरो बहिः ॥१६॥ यो दद्यात्परिक्लृप्तमन्नमध्वनि वर्तते ॥ श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ १७ ॥ पाद्यमासनमेवाथ दीपंमन्नं प्रतिश्रयम् ॥ दद्यादतिथिपूजार्थं यज्ञाः पञ्च सुदक्षिणाः॥ १८ ॥ चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ॥ अनुव्रजेदुपासीत यज्ञाः पञ्च सुदक्षिणाः ॥१९॥ स्थण्डिलेषु शयानानां गृहाणि शयनानि च ॥ चीर वल्कलसंवीतवासांस्याभरणानि च ॥२०॥ वाहनान्यनयानानि योगात्मनि तपोधने ॥ अग्नीनुपशयानस्य राजार्षोपसुच्यते ॥ २१॥ रसानां प्रति संहारे सौभाग्यमधिगच्छति ॥ आमिषप्रतिसंहारे सर्वान्कामानवाप्नुयात् ॥२२॥ अर्वाक्शिरास्तु यो लम्बत्तोयवासं च यो वसेत् ॥ सततं चैक शायी च लभते चेप्सितां गतिम् ॥२३॥ वीरसनं वीरशय्यां वीरस्थानमुपासतः ॥ अक्षयास्तस्य वै लोकाः सर्वकामप्रदाः स्मृताः ॥ २४ ॥ धनं भवति दानेन मौनेनाज्ञां प्रयच्छति ॥ उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ २५ ॥ रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ॥ फलं फलाशिनो राज्यं स्वर्गः पर्णाशिनां फलम् ॥२६॥ पुष्पाशिनां तथैश्वर्यं धनं शाकाशिनां महत् ॥ पयोभक्ष्या दिवं यांति अभ्रभक्ष्याश्शमितां गतिम् ॥२७॥ दंतोलूखलिको विप्रो यश्चाश्मकुट्टनो जीवति ॥ कापोतीमाश्रितो वृत्तिं यथेष्टाङ्काङ्क्षितामाप्नुयात् ॥ २८ ॥ प्रायोपवेशनाद्राज्यं सर्वत्र फलमश्नुते॥ स्वयं सयेन लभते दीक्ष्या कुलमुत्तमम् ॥ २९ ॥ गवोद्वाः शाकदीक्षायाः स्वर्गकामी हुताशनः ॥३०॥ त्र्यहक्षिप्रेणवणं ज्ञात्वा वायुं पीत्वा क्रतुं लभेत ॥ यज्ञयाजी तथाप्नोति याँल्लोकान्मनसेच्छति ॥ ३१ ॥ उपवासं च दीक्षां चाप्यभिषेकं च वै द्विजाः ॥ कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥३२॥ अधीत्य सर्ववेदान्वै सर्वदुःखाद्विमुच्यते ॥ मानसं हि धनं धर्मः स्वर्गलोकमवाप्नुयात् ॥ ३३॥येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः॥ प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ ३४॥ येन प्रीणात्युपाध्यायन्तेन स्याद्ब्रह्म पूजितम्॥ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः॥ ३५॥ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ गुरुशुश्रूषया विद्या नित्यं श्राद्धेषु सन्ततिः॥३६॥ नित्यस्नायी भवेद्दक्षः संध्यं तु द्वे जपन्सदा॥