विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 883, कुल 1001 में से
संदर्भ में पढ़ेंकालं न संशयः ॥६॥ नास्तिक्यमेकं पुरुषस्य लोके विनाशने विप्रवराः प्रदिष्टम् ॥ तस्मात्प्रयत्नेन विवर्जनीयो नास्तिक्यभावः सुखमीप्समानैः ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनिन्नति हंसगीतासु नास्तिक्यदोषवर्णनो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥ हंस उवाच ॥ अहङ्कारात्परं नास्ति लोके किञ्चिद्विनाशनम् ॥ अहङ्कारेण भूपालाः शतशो निधनङ्गताः ॥ १ ॥ अहङ्कृतास्तथा नष्टा ब्राह्मणाश्च सहस्रशः ॥ मान्यामान्यान जानन्ति कार्याकार्यं त्वहङ्कृताः ॥ २ ॥ अहङ्कृतस्तथा लोके न विद्यामधिगच्छति ॥ विषण्णकार्यश्च तथा न प्राज्ञान्परिपृच्छति ॥ ३ ॥ न शृणोति तथान्यान्दर्पपूर्णो विचक्षणः ॥ पातान्यैन्यमभैषज्यं दर्पान्नास्त्येह कीर्तनम् ॥ ४ ॥ स्थिते बलाधिकैस्तथा वीरैर्गुरुभिश्च तथैव च ॥ मरणे संनिकृष्टेपि मरणस्य विचक्षणः ॥ ५ ॥ हेतुभूतानि कर्माणि निन्दितानि निषेवते ॥ स्थिते स्थितांस्तथा प्राज्ञान्भाषमाणान्निन्दति ॥ ६ ॥ अहङ्कृतानां नरके प्रदिष्टा गतिर्ध्रुवं लोकविगर्हितानाम् ॥ प्राज्ञेन तस्मात्परिवर्जनीयो दर्पो विनाशैककरः सदैव ॥७॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतास्वहङ्कारदोषवर्णनो नामाष्टचत्वारिंशदुत्तरद्विशतत मोऽध्यायः ॥ २४८ ॥ हंस उवाच ॥ दत्तं यच्छौचहीनेन न तद्गृह्णन्ति देवताः ॥ भुक्तस्रवश्च धर्मज्ञाः शुचिकामश्च देवताः ॥ १ ॥ यज्ञैश्च राक्षसैश्चैव पिशाचैश्च निशाचरैः ॥ डाकिनीभिश्च धर्मज्ञाः शौचहीनोऽभिभूयते ॥ २ ॥ शौचहीनमभ्यर्च्य स्वयं निन्दन्ति के द्विजाः ॥ व्याधि हीनो ह्यशौचश्च सर्वैरेवाभिसूयते ॥ ३ ॥ वर्धते च तथानर्थः समर्थाश्च व्रजन्ति च ॥ शौचहीनस्य रिपवो यान्ति वृद्धिं परां द्विजाः ॥ ४ ॥ शौचोचमर्थशौचं च वाक्छौचमपि च द्विजाः ॥ एतानि यस्य शौचानि स शुचिः परिकीर्तितः ॥ ५ ॥ शौचं शुचिः स हि शुचिनं शुद्धांरेशुचिः शुचिः ॥ तत्तश्चाप्यधिकं शौचमहिंसा परिकीर्तिता ॥ ६ ॥ शौचेन हीना नरकं व्रजन्ति शौचेन हीना विभजन्त्य नर्थान् ॥ शौचेन हीनाश्च भवन्ति निन्द्यास्तस्मादशौचं परिवर्जनीयम् ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्र ति हंसगीतासु शौचवर्णनो नामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २४९ ॥ हंस उवाच ॥ आचारहीनाः पुरुषा भवन्त्यल्पायुषो द्विजाः ॥ आचारहीनश्च तथा राक्षसैर्विभूयते ॥ १ ॥ यक्षैः पिशाचैर्गन्धर्वैस्तथा चान्यैर्निशाचरैः ॥ डाकिनीभिः सुराणां च तथा पार्षणगाः पृथक् ॥२॥ न दत्तमाचारहीनेन न प्रतीच्छन्ति देवताः ॥ पितरश्च महाभाग ऋषयश्च तपोधनाः ॥ ३ ॥ सर्वलक्षणयुक्तोऽपि नरस्त्वाचारवर्जितः ॥ न प्राप्नोति तथा विद्यां न च किञ्चिद्भीप्सितम् ॥ आचारहीनः पुरुषो नरकं प्रतिपद्यते ॥ ४ ॥ आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह