विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 885, कुल 1001 में से
संदर्भ में पढ़ेंमिथ्याभिभाषिता ॥ रागद्वेषप्रवृत्तस्तु व्यवहारोऽपि पार्थिवः ॥ २४ ॥ ततो दशगुणं कालं नरके वसति ध्रुवम् ॥ उक्ते वचसि धर्म्यं तु सद्यः पापात्प्रमुच्यते ॥ २५ ॥ राजा नरकमवाप्नोति सत्यवाक्यं विलंघयन् ॥ शूद्रविट्क्षत्रविप्राणां यत्रोक्ते प्राप्नुयाद्वधः ॥ २६ ॥ तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ वाग्दैवतैश्च चरुभिर्यजैनेश्च सरस्वतीम् ॥ २७॥ कूष्माण्डैर्वापि जुहुयाद्धृतमग्नौ यथाविधि ॥ उद्धृत्येवं वा वारुणे ऋचा वाग्दैवतेन वा ॥ २८॥ अनृतस्य वशस्तस्य कुर्वाणो निष्कृतिं पराम्॥ बह्वन्वः सुखमेधन्ते यस्मिन्निप्वा निपातिते ॥ वाच्यं तस्य वधे प्राप्ते यथाभूत मिति श्रुतिः ॥ २९ ॥ न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु विप्रा न विवाहकाले ॥ प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनृतदोषवर्णनो नामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१॥
हंस उवाच ॥ सर्वेषामेव पापानां हिंसा परमिरहोच्यते ॥ हिंसा वल्मसाधूनां हिंसा लोकद्वयापहा ॥ १ ॥ अपि कीटः पतङ्गो वा न हन्तव्यः कथञ्चन ॥ महद्दुःखमवाप्नोति पुरुषः प्राणिनाशनात् ॥ २ ॥ आतातायिनमायान्तं पुरुषं यदि वा पशुम् ॥ उपायहीनस्तं हत्वा न तु पापेन बाध्यते ॥ ३ ॥ गुरुं वा बालवृद्धौ वा मान्यं वाप्यथ वा जनम् ॥ आतातायिनमायान्तं हन्याद्विचारयन् ॥ ४ ॥ आतातायिन मायातन्मपि वेदान्तगं रणे ॥ जिघांसन्तं जिघांसीयान्नेन पापं न विद्यते ॥ ५ ॥ रणे प्रहारामिहते शत्रौ नैवास्ति पातकम् ॥ जित्वा गृहीते निहते तस्मिन्नेवास्ति पातकम् ॥ ६ ॥ रणे जितन्तु यः शक्तः पश्चात्पातयते नरः ॥ स याति नरकं घोरं बह्वब्दशुशतानि च ॥ ७ ॥ मुक्त्वा नारकाद्दुःखाद्बह्वब्दशतानि तु ॥ आमगर्भेपु सिच्यन्ते ये नरा नयघातकाः ॥ ८ ॥ यावन्ति पशुरोमाणि तावत्कृत्स्हं मारणम् ॥ वृथापशुघ्नः प्राप्नोति प्रेत्य चेह च निष्कृतिम् ॥ ९ ॥ अपि कीटं नरो हत्वा छित्त्वा तृणमथापि वा ॥ नरकं याति धर्मज्ञाः पुरुषः स्वेन कर्मणा ॥ १० ॥ स्त्रीहिंसा धनहिंसा च प्राणिहिंसा च दारुणा ॥ हिंसा च त्रिविधा प्रोक्ता वर्जिता पण्डितैर्नरैः ॥ ११ ॥ अहिंस्रकस्तु यत्नेन वर्जयेत्तु परस्त्रियम् ॥ विजनेऽपि तथा न्यस्तं परद्रव्यं प्रयत्नतः॥ १२ ॥ अतो वै नैव कर्तव्या प्राणि हिंसा भयावहा ॥ वियोज्य प्राणिनं प्राणैस्तथैकमपि निर्घृणः ॥ १३ ॥ नरकाद्धि विनिर्मुक्तो न किञ्चित्सुखमेधते ॥ यां रात्रिम्प्रधिविनां स्त्री यां चैवाक्षपराजिताम् ॥ १४ ॥ यां च राज्यच्युतो रात्रिं यां च सर्वस्वविच्युतः ॥ इष्टबन्धुवियुक्तश्च यां रात्रिं दुःखमश्नुते ॥ १५ ॥ व्यवहारे जितेश्चैव यद् दुःखं कूटसाक्षिभिः ॥ तत्सर्वं दुःखमाप्नोति हत्वैकमपि तु द्विजाः ॥ १६ ॥ नास्ति पापतरं लोके मनुष्या मांस