विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 89, कुल 1001 में से
संदर्भ में पढ़ेंतस्य वरं प्रादाद्धरं यन्मनसेप्सितम् ॥ १६॥
च्यवन उवाच ॥
वरं वरय भद्रं ते प्रसन्नोऽहं तवानघ ॥
निर्व्याजं तेऽनया राजन्संचर्याऽनघया सदा ॥ १७॥
कुशिक उवाच ॥
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ॥
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम् ॥ १८ ॥
च्यवन उवाच ॥
एतदेवं ध्रुवं भावि तन्मे वच्यसे नृप ॥
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति ॥ १९॥
तव वंशकृतोऽस्माकं क्षत्रधर्मा द्विजोत्तमः ॥
भविष्यति नरेन्द्रेदं चैतत्सुविदितं मम ॥ २० ॥
एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वकुलस्य ते ॥
विक्षोभैः क्रोधनार्थं ते मुहुर्ह्यवसं चिरम् ॥ २१॥
विकारो न ततो दृष्टो मया भाव्यर्थनोदितम् ॥
तस्मात्पुत्रस्त्वया प्राप्तो वरमेतत्सुदुर्लभम् ॥२२॥
कुशाश्वो नाम पुत्रस्ते भविताऽतिस्वधार्मिकः ॥
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः ॥ २३ ॥
विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ॥
कृत्वा वैरं वसिष्ठेन तपसा महता नृप ॥ २४ ॥
त्रीणां च कुलपर्यासाद्द्विशाखस्य संभवः ॥
अस्मत्सेवानुभावेन निर्वृतो भव पार्थिव ॥ २५॥
यत्ते विनाशितं द्रव्यं भविता तद्विशेषवत् ॥
भार्यया सहितश्चैव जराहीनो भविष्यसि ॥२६॥
एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ॥
उवाच सुमुखीं भार्यां जराशोकविवर्जिताम् ॥२७॥
एतत्सूनृतं च्यवनस्य वाक्यं कस्यास्ति शक्तिर्भुवि मानवस्य ॥
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता त्रिलोके ॥ २८ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥
मार्कण्डेय उवाच ॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तम ॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम् ॥ १ ॥
ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम् ॥
ततोऽन्यानपि पुत्रांस्तु गोत्रकारान्पृथक्पृथक् ॥ २ ॥
गाधेरपि तदा भार्या जनयामास पुत्रकम् ॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा ॥ ३ ॥
जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः ॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः ॥४॥
राजा प्रसेनजिन्नाम सुतां तस्योपयेमेऽथ रेणुकाम् ॥
पत्यर्थे प्रतिजग्राह जमदग्निर्महातपाः ॥ ५ ॥
सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने ॥
कदाचिदथ घर्मार्त्ता मध्यं प्राप्ते दिवाकरे ॥ ६ ॥
क्रीडार्थं प्रास्यत शरांश्चिरं जमदग्निर्महातपाः ॥
क्षिप्तान्शरांस्तेन रेणुका चारुलोचना ॥ ७ ॥
आनयामास धर्मज्ञा भर्तुर्वचनकारिणी ॥
अथार्कतप्तां सिकतां दह्यमानाङ्घ्रिपङ्कजा ॥ ८ ॥
पुष्पितस्य च वृक्षस्य छायामासाद्य संस्थिता ॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम् ॥९॥
तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत ॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१०॥
न बिभेषि च मां भद्रे त्वथ वाऽस्य
१ 'वंशे कृते' इति ख०।
२ 'एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वाकुलस्य ते' इति ख०।
३ 'कुशाश्वनामा' इति ख०।
४ 'ब्राह्मण तेजसा' इति ख०।
५ 'धर्मार्त्तो' इति ख०।
६ 'पुष्पितस्य शरीरस्य' इति ख०।