भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 90, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 90
**वि०ध०** | **प्र०सं०**
--- | ---
**॥ २० ॥** | **अ० ३६**

वपन्यसे ॥ ११ ॥ रेणुकोवाच ॥ अर्काभितापसंतप्ता क्षणमात्रं महाव्रत ॥ अपारयन्ती विश्रान्ता तस्मात्त्वं क्षन्तुमर्हसि ॥ १२ ॥  
॥ मार्कण्डेय उवाच ॥ रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः ॥ जातेरपस्तदा सूर्ये सायकान्धनुषासृजत् ॥ १३ ॥ एत-  
स्मिन्नेव काले तु विप्ररूपो दिवाकरः ॥ श्रीशमागम्‍य तेजस्वी जमदग्निमभाषत ॥ १४ ॥ सूर्य उवाच ॥ स्वभाव एष मे ब्रह्मन्  
यदहं दहनात्मकः ॥ वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि ॥ १५ ॥ पुनस्तेऽहं भविष्यामि त्वय्यासेव द्विजोत्तम ॥ सुकार्यं  
कारिष्यामि लोकानाञ्च हितं महत् ॥ १६ ॥ इयञ्च पत्नी धर्मज्ञा रेणुका तव साम्प्रतम् ॥ छत्रोपानहमेतन्मे गृहीत्वा वर्णविनी ॥ १७ ॥  
तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्पदानहौ ॥ मया सृष्टौ जगत्यां स्त्रिस्त्रितयमेव भविष्यतः ॥ १८ ॥ छत्रोपानहयोर्दाने लोके श्रेष्ठं भविष्यति ॥ छत्रोपा-  
नहदानेन नरः स्वर्गं गमिष्यति ॥ १९ ॥ एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः ॥ संपूज्य सूर्य जग्राह सवितुः सकलं वचः ॥ २० ॥ ततः सूर्ये  
गते देवी सूर्यपुत्रा पुरा सती ॥ पुत्रं कनीयसं रामं जनयामास रेणुका ॥ तनयाश्चाभवन्पूर्वे वसुर्विश्वावसुस्तथा ॥ २१ ॥ तेषां जघन्यजो रामो  
विष्णुर्मानुषरूपधृक् ॥ २२ ॥ अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव ॥ हतांश्च मेने दितिजानजातां पीडां नृणां स्वल्पां च सा धरित्री  
॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ मार्कण्डेय उवाच ॥  
अथ बाल्ये समुत्तीर्णे रामो भृगुकुलोद्वहः ॥ शुश्रूषमाणः पितरं नित्यमास्ते महायशाः ॥ १ ॥ एतस्मिन्नेव काले तु गते वनगते तदा ॥ आजगाम  
महातेजा राजा चित्राङ्गदो वनम् ॥ २ ॥ विहर्तुं सह गन्धर्विर्देवराजसमद्युतिः ॥ तं दृष्ट्वा रेणुका चक्रे स्पृहां भोगेषु भामिनी ॥ ३ ॥ जगाम  
मनसा तं सा राजानं कामसन्निभम् ॥ तस्मिन्नेव क्षणे सा तु भ्रष्टा ब्राह्मणतेजसा ॥ ४ ॥ गताश्रियं तु तां दृष्ट्वा जमदग्निर्महातपाः ॥  
पुत्रानुवाच तत्क्रूरो वध्यतां जननी स्वका ॥ ५ ॥ ते विचार्य ततः सर्वे मातृगौरवमुत्तमाम् ॥ नैव चक्रुः पितुर्वाक्यं  
ताञ्छशाप स भार्गवः ॥ ६ ॥ यूयं तिर्यक्त्वमधमा नपुंसंज्ञा भविष्यथ ॥ इध्माभारमुपादाय रामो गतिकरः पितुः ॥  
॥ ७ ॥ अथाऽऽश्रममगात्प्रातः पितरं तं समवन्दत ॥ जहीमां मातरं क्षुद्रां राम मा त्वं चिरं कृथाः ॥ ८ ॥ एवमुक्तस्तु पित्रा तु तद्वाक्यं ॥ १ ॥ २ ॥

---
१ 'सूर्येण' इति ख० । २ 'परं स्वर्गे गमिष्यति' इति ख० । ३ 'मनुपुत्रा' इति क० । ४ 'अनेन' इति क० । ५ 'हतञ्च तेने तन्महे च जन्म नृणाँ मने सुनिर्वृताभूदभूत्त' इति ख० । ६ 'मभवत्' इति ख० । ७ 'प्रथः' इति ख० । ८ 'पितरस्' इति क०