विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 937, कुल 1001 में से
संदर्भ में पढ़ेंतथा दानमशस्तानां महाफलम् ॥ ३२ ॥ माघे श्रवणसंयुक्ता युक्ता स्याद्द्वादशी यदा ॥ तिलदानं महत्पुण्यं विनापि श्रवणेन तु ॥ ३३ ॥ मासि भाद्रपदे शुक्ले नवम्यां द्विजपुङ्गवाः ॥ गोधूमभक्तां सगुडां दत्त्वा पुण्यमवाप्नुयात् ॥ ३४ ॥ एतानि दानानि च कालयोगे प्रोक्तानि पुण्यानि मया द्विजेन्द्राः ॥ देयानि सर्वाणि विनापि योगैर्योगेन पुण्यं त्वधिकं निरुक्तम् ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा- र्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कालयोगे दानविधिवर्णनो नाम सप्तदशाधिकत्रिशततमोऽध्यायः ॥ ३१७ ॥ ऋषय ऊचुः ॥ व्रतं नक्षत्रसन्नाहं सदानं कथयस्व नः ॥ सर्वधर्मभृतां श्रेष्ठ प्रत्यक्षामलदर्शन ॥ १ ॥ हंस उवाच ॥ कृत्तिकासु महाभागाः पायसेन स- सर्पिषा ॥ संतार्य ब्राह्मणांत्साधूंल्लोकान्प्राप्नोत्यनुत्तमान् ॥ २ ॥ रोहिण्यां प्रथितैर्मांसैर्मधुरैश्च परैस्तथा ॥ पयोलुपानं दातव्यं चान्नाद्यार्थं द्वि- जातये ॥ ३ ॥ दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ॥ गच्छेन् मातॄनपोढोऽकान्स्वर्गेवासमनुत्तमम् ॥ ४ ॥ आर्द्रार्या कृसरं दत्त्वा तैलमिश्रं सुपोषितः ॥ नरस्तरति दुर्गाणि क्षुरधारांस्तु पर्वतान् ॥ ५ ॥ पूपान्पुनर्वसौ दत्त्वा तथैवान्नांश्च शोभनम् ॥ यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ॥ ६ ॥ पुष्ये तु कनकं दत्त्वा कृतं वाकृतमेव च ॥ अनालोकेषु लोकेषु सोमवत्स विराजते ॥ ७ ॥ अश्लेषासु च यो रूप्यं वृषभं वा प्रयच्छति ॥ स सर्वभयनिर्मुक्तः शुभं चाप्यधिगच्छति ॥ ८ ॥ मघासु तिलपूर्णानि वर्धमानानि मानवः ॥ प्रदाय पुत्रपशुमानि- ह प्रेत्य च मोदते ॥ ९ ॥ फाल्गुनीपूर्वसमये ब्राह्मणानासुपोषितः ॥ भक्ष्यं फाणितसंयुक्तं दत्त्वा सौभाग्यमृच्छति ॥ १० ॥ घृतक्षीरसमायुक्तं विविधन्पाष्टिकौदनम् ॥ उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ ११ ॥ यद्यत्प्रदीयते दानं चोत्तराविषये नरैः ॥ महाफलमतीतञ्च भवती- ति विनिश्चयः ॥ १२ ॥ हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ॥ नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान ॥ १३ ॥ चित्रायां वृषभं दत्त्वा पुण्यान्गंधांश्च मानवः ॥ चरत्यप्सरसां लोके रमते नन्दने वने ॥ १४ ॥ स्वातीष्वथ धनं दत्त्वा यदिष्टतममात्मनः प्राप्नोति लोकान्सु- शुभानिहैव च महद्यशः ॥ १५ ॥ विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ॥ सप्रासङ्गं च शकटं सधान्यं वस्त्रसंमितम् ॥ १६ ॥ पितॄंश्च देवान्प्रीणाति प्राप्य चानन्त्यमश्नुते ॥ न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ १७ ॥ दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिश्रां स विन्दति ॥ नरकादींश्च स क्लेशांन्न प्राप्नोतीति निश्चयः ॥ १८ ॥ अनुराधासु प्रावारं वस्त्रान्तरसुपोषितः ॥ दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ १९ ॥ कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ॥ ज्येष्ठायमृद्धिमृद्धाम्च गतिमिष्टाम्च गच्छति॥२०॥ मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ॥