विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 941, कुल 1001 में से
संदर्भ में पढ़ेंश्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् ॥ यत्र तत्राभिषेकेन युज्यते ज्ञातिवर्धनः ॥ १८ ॥ प्रौष्ठपादन्तु यो मासं यः कुर्यादेकभोजनम् ॥ धनाढ्यः स्फीतममुलं वैश्यं प्रतिपद्यते ॥ १९ ॥ तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ॥ मेधावी वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ २० ॥ कार्तिकन्तु नरो मासं यः कुर्यादेकभोजनम् ॥ शूरश्च बहुभार्य्यश्च कीर्त्तिमांश्चैव जायते ॥ २१ ॥ मार्गशीर्षन्तु वै मासमेकभक्तेन यः क्षिपेत् ॥ कृषिभागी बहुधनो बहुधान्यश्च जायते ॥ २२ ॥ पौषमासन्तु विप्रेन्द्रा भक्तैकेन यः क्षिपेत् ॥ सुभगो दर्शनीयश्च यशोभागी च जायते ॥ २३ ॥ माघन्तु नियतं मासमेकभक्तेन यः क्षिपेत् ॥ कृषिभागी बहुधनो धान्यवानभिजायते ॥ २४ ॥ भगोदवन्तु यो मासमेकभक्तेन यः क्षिपेत् ॥ श्रीमत्कुले ज्ञातिमुख्ये स महत्त्वं प्रपद्यते ॥२५॥ स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ यथोक्तफलदाह्येते वर्षद्वादशभिः स्मृताः॥२६॥ यस्तु संवत्सरं पूर्ण मेकहारी भवेत्सदा ॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥२७॥ तथा संवत्सरं पूर्णमेकान्तरितभोजनः ॥ यज्ञं बहुसुवर्णञ्च ध्रुवमाप्नोति वै द्विजाः ॥२८॥ अब्दमर्द्धं तृतीयेह्नि भुंजानश्च तथा नरः ॥ वाजपेयस्य यज्ञस्य कथितं द्विजसत्तमाः ॥ २९ ॥ एककालं तु भुञ्जानस्त्वब्दमर्द्धं तु पञ्चमे ॥ स्वर्गे द्वादशपद्मानि वर्षाणां स च मोदते॥ ३० ॥ षष्ठेपष्ठे तथैवाऽहं त्वशानः प्रयतो नरः ॥ अष्टादश पदानि वर्षाणां दिवि मोदते ॥ ३१ ॥ दिवसे सप्तमे चाब्दं भुञ्जानस्त्वेकभोजनम् ॥ षट्त्रिंशत्स तु पद्मानि वर्षाणां दिवि मोदते ॥ ३२ ॥ अष्टमे दिवसे चाब्दं भुञ्जानः प्रयततः सदा ॥ पद्मानि नाके पञ्चाशद्वर्षाणां दिवि मोदते ॥ ३३ ॥ यस्तु संवत्सरं भुङ्क्ते दशमे दशमेऽहनि ॥ कल्पमेकं स विप्रन्द्र देववद्दिवि मोदते ॥ ३४ ॥ एकादशे तु दिवसे यः प्रातं प्राश्नुते हविः ॥ शतकल्पद्वयं नाके मोदते देववद्दिवि ॥ ३५ ॥ दिवसे द्वादशे यस्तु प्रांते वै प्राश्नुते हविः ॥ त्रीणि कल्पान्यसौ नाके भुंक्ते देवसुखान्त्रितः ॥ ३६ ॥ त्रयोदशे तु दिवसे यः प्रातं प्राश्नुते हविः ॥ तस्य कल्पानि चत्वारि गतिर्नार्क प्रकीर्तिता ॥ ३७ ॥ चतुर्दशी तु दिवसे यः प्रातं प्राश्नुते हविः ॥ सप्त तस्य तु कल्पानि गतिर्नार्क प्रकीर्तिता ॥ ३८ ॥ संवत्सरं तु भुञ्जानो नरः पञ्चदशे हविः ॥ नाके वसति धर्मात्मा देशे कल्पान्यसंशयम् ॥ ३९ ॥ अब्दमर्द्धं तथाऽष्टादश फलं दिनयुतेन यः ॥ स तु कल्पशतं विप्रा देववद्दिवि मोदते ॥ ४० ॥ दिने सप्तदशे प्राप्ते यः प्राशेदेकभोजनम् ॥ स्वर्गे स मोदते विप्राः पञ्च कल्पशतानि च ॥ ४१ ॥ अष्टादशे च दिवसे यः प्राशेदेकभोजनम् ॥ नाके कल्पं सहस्रं तु नरः कतर्भामोदते ॥ ४२ ॥ एकोनविंशे दिवसे यो भुंक्ते चैकभोजनम् ॥ स तु कल्पसहस्रन्तु सार्धं नाके च मोदते ॥४३॥ एककालं च भुञ्जानः प्राप्ते विंशतमे दिने ॥ कल्पानां तु सहस्रे द्वे नाकस्थः पूज्यते सुरैः ॥४४॥