विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 943, कुल 1001 में से
संदर्भ में पढ़ेंप्रतिग्रहान्निवृत्ताश्च वसूनामपि मानवाः ॥ ९ ॥ वायुलोके महीयन्ते रोगिणां परिचारकाः ॥ लोकं गच्छन्त्यथामेयं वह्निंशुश्रूषणे रताः ॥ १० ॥ यांति ते नैर्ऋतं लोकं प्रपारक्षणतत्पराः ॥ भृगूणामपि लोकेषु मोदन्त्याकाशशायिनः ॥ ११ ॥ यांति चाङ्गिरसं लोकं व्रतेनानेन मानवाः ॥ मरुतां च तथा लोकं यांति यानप्रदा नराः ॥ १२ ॥ नासत्यलोके मोदन्ते तथौषधदायिनः ॥ रुद्रलोकं प्रपद्यन्ते गोविप्रनरवत्सलाः ॥ १३ ॥ स्वाचारनिरता यांति वैश्वदेवमसंशयम् ॥ आदित्यैः सह मोदंते दयावन्तस्तु ये नराः ॥ १४ ॥ ब्रह्मलोकं विष्णुलोकं रुद्रलोकं तथैव च ॥ तद्द्भक्तैरेव लभ्यन्ते नान्यथा द्विजसत्तमाः॥१५॥यस्य देवस्य यो भक्तिं सदा वहति मानवः॥सम्पदस्तस्य सालोक्यं यांति नास्त्यत्र संशयः॥ १६॥ लोकेषु दिव्येषु गतिर्मयोक्ता कर्मानुरूपा पुरुषस्य विप्राः ॥ अतः परं किं कथयाम्यहं वै तन्मे गदध्वं तपसि प्रधानाः ॥ १७ ॥ इति श्रीविष्णु- धर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोकविभागवर्णनो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ॥ ३२१ ॥ ॥ ऋषय ऊचुः ॥ कथयस्वामिताप्राज्ञ स्त्रीणां धर्ममतः परम् ॥ तद्वयं श्रोतुमिच्छामस्त्वं हि सर्वविदुच्यसे ॥ १ ॥ ॥ हंस उवाच ॥ स्त्रीधर्मः पूर्व एवार्य विवाहे बन्धुभिः कृतः ॥ सधर्मचारिणी भर्तुर्भव द्विजसत्तमः॥२॥सा तु स्वभावा सुविमना सुविभक्ता सुदर्शना ॥ अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ ३ ॥ पुत्रवत्क्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षती ॥ या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ ४ ॥ अस्त्वेदं पतिधर्मं वै महाश्रमकृतं शिवम् ॥ या भवेद्धर्मपरमा नारी भर्तृसमव्रता॥५॥ देववत्सततं साध्वी भर्तारमनुपश्यति॥ शुश्रूषां परिचर्याञ्च देवतुल्यं प्रकुर्वती ॥६॥ वश्यभावेन सुमनाः सुव्रता सुसमाहिता ॥ अनन्यचित्ता सुमना भर्तुः सा धर्मभागिनी ॥७॥ पारुष्यमपि वोक्ता या हृष्टा वा क्रूरचक्षुषा ॥ सुप्र- सन्नमुखी भर्तुर्यानारी सा पतिव्रता॥८॥न चन्द्रसूर्यौ तद्रूपं नैव या च निरीक्षते॥ भर्तुर्वक्त्रं वरारोहा सा भवेद्धर्मभागिनी॥९॥दारिद्र्ये व्याधितं दीनं याचिना परिकीर्तितम् ॥ पतिम्पुत्रमिवारक्षेत्सा नारी धर्मभागिनी ॥ १० ॥ या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ॥ पतिव्रता पतिप्राणा सा नारी धर्मभागिनी ॥ ११ ॥ शुश्रूषां परिचर्याञ्च करोत्यविमनाः सदा ॥ सुप्रतीता सुमनाः सा नारी धर्मभागिनी ॥ १२ ॥ न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ॥ स्पृहा यस्या यथा भर्तुः सा नारी धर्मभागिनी ॥ १३ ॥ कामार्थान्न ब्रता नित्यं गृहशुश्रूषणे रता ॥ सुसम्पृष्ट क्षया चैव गोशकृत्कृतलेपना ॥ १४ ॥ अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ॥ देवतातिथिभृत्यानां निरूप्य पतिना सह ॥ १५ ॥ शेषात्न- मुपभुञ्जाना यथान्याय यथाविधि ॥ तुष्टभृत्यजना नित्यं नारी धर्मेण युज्यते ॥ १६ ॥ श्वश्रूश्वशुरयोः पादाँस्तोष्यन्ती गुणान्विता ॥ माता ७५