सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 950, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 950

वि० ध० । तृ० खं० अ० ३२८ ॥४४८॥

र्यान्साक्ष्यं विवादिनाम् ॥ १४ ॥ अन्तर्वेश्मन्यरण्ये वा शरीरस्य तथात्यये ॥ स्त्रियोऽपि सम्भवे कार्या बालेन स्थविरेण वा ॥ १५ ॥ शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ बालवृद्धातुराणां तु साक्ष्ये तु वदतां मृषा ॥१६॥ जानीयाद्दैवसञ्चित्तस्मनसं तथा ॥ गृहिणः पुत्रिणो मौलाः शूद्रा विदधत्रयोन्वयः ॥ १७॥ अयुक्ताः साक्ष्यमर्हन्ति नये कूटञ्चनापि हि ॥ आत्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ॥१८॥ बहुले परिगृह्णीयात्साक्षित्वे चेत्तनाविषम् ॥ समेषु त्वगुणोत्कृष्टं गृणिते वै द्विजोत्तमान् ॥१९॥ समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति ॥ तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ २० ॥ साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नरकं व्रजेत् ॥ पृष्टानि बद्धोऽपि वदेद्यथा दृष्टं यथाश्रुतम् ॥ २१ ॥ एको लुब्धस्त्वसाक्षी स्याद्बह्वोऽपि न वा क्वचित् ॥ स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ॥ २२॥ न जातु साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ॥ प्राड्विवाको नियुञ्जीत विविनानेन सान्त्वयन् ॥ २३ ॥ यत्तथ्यो नयोर्वोच्यं कार्येऽस्मिंश्चितेऽपि वा ॥ तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षित्वम् ॥ २४ ॥ देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजाः ॥ उङ्मुखः प्राङ्मुखो वा पूर्वाह्ने वै शुचिः शुचीन् ॥ २५ ॥ ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ॥ गोबीजकाञ्चनैर्वेश्यं शूद्रं सर्वैस्तु पातकैः ॥ २६ ॥ ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबाल घातिनः ॥ मित्रद्रुहः कृतघ्नस्य तते स्युर्ब्रवतां मृषा ॥ २७ ॥ जन्मप्रभृति यत्किञ्चित्किल्विषं त्वया कृतम् ॥ तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २८ ॥ नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ॥ अन्धः शत्रोगृहं गच्छेद्वत्सार्द्धमनृतं वदेत् ॥ २९ ॥ एतांस्तु दोषान्वीक्ष्य त्वं सर्वाननृतभाषणात् ॥ यथाश्रुतं यथादृष्टं सर्वमेवञ्जसा वद् ॥ ३० ॥ सत्यं साक्ष्यं ब्रुवन्साक्षी लोकान्प्राप्नोत्य नुत्तमान् ॥ इह चानुत्तमां कीर्तिं वाग्गेयां ब्रह्मपूजिता ॥ ३१ ॥ मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ॥ तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ३२ ॥ आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ॥ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे तंतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु साक्षिनिर्णयो नाम सप्ताविंशत्युत्तरत्रिशत तमोऽध्यायः ॥३२८॥ हंस उवाच ॥ पौरुषे निर्णयः प्रोक्तो दिव्यं वक्ष्याम्यतः परम् ॥ असाक्षिकेषु तथ्येषु मिथो विवदमानयोः ॥ १ ॥ राजद्रोहाभिशापेषु साहसेषु तथैव च ॥ विवादे तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ २ ॥ महाभियोगेषु दैवेषु कार्यार्थं शपथः कृताः ॥ वसिष्ठोऽदत्त शपथं समये जबने नृपे ॥ ३ ॥ न मृषा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ॥ वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ॥ ४ ॥

॥४४८॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 950, कुल 1001 में से · BharatKosha