विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 968, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥४६०॥
बृ० सं० अ० ३४१
नामसंकीर्त्तनं कृत्वा श्रुतमङ्गलनादिषु ॥ ३९ ॥ वियोगं शीघ्रमाप्नोति सर्वानर्थैरसंशयम् ॥ कृत्वा नामसहस्रेण स्तुतिं तस्य महात्मनः ॥ ४० ॥ वियोगमाप्नोति नरः सर्वानर्थैरसंशयम् ॥ साम्ना ऋग्भिर्यजुर्भिर्श्व तथैवाथर्वणेन तु ॥ ४१ ॥ कृत्वाऽभिभवनं तस्य दिव्यैरपेतथा स्तवैः ॥ सर्वानर्थविनिर्मुक्तः कामानाप्नोति शाश्वतान् ॥ ४२ ॥ अभ्रघ्णलक्षणैः कृत्वा स्वयं स्वरचितैरक्षरैः ॥ स्तवं ब्राह्मणशार्दूलस्तस्मात्कामानवाप्नुयात् ॥ ४३ ॥ न वित्तदाननिचयैर्बहुभिर्मधुसूदनः ॥ तथा तोषमुपायाति यथा स्तोत्रैर्द्विजोत्तमाः ॥ ४४ ॥ स्तुतिः पवित्रा मङ्गल्या सर्वपापप्रणा शिनी ॥ सर्वानर्थप्रशमनी देवदेवस्य कीर्त्तिता ॥ ४५ ॥ तत्कथाश्रवणं कृत्वा सर्वानर्थैर्विमुच्यते ॥ तत्ततोश्रवणात्पापं जहाति सकलं तथा ॥ ४६ ॥ यत्र विष्णुकथा दिव्याः श्रुतयश्च सुसंहिताः ॥ तच्छ्रोतव्यं मनुष्येण परं पदमिच्छता ॥ ४७ ॥ विष्णोरायतने दत्त्वा तत्कथापुस्तकं नरः ॥ ब्रह्मलोकमवाप्नोति बह्वो वत्सरान्द्विजाः ॥ ४८ ॥ पुस्तकांश्च तथैवान्यान्प्रदद्याद्भरतर्षभ ॥ सारस्वतंमवाप्नोति लोकं कालं तथा बहु ॥ ४९ ॥ तत्कथां श्रावयेद्यस्तु तद्भक्तान्यानवोत्तमाः ॥ गोदानफलमाप्नोति स नरस्तेन कर्मणा॥५०॥ श्रावके तु कृतं पुण्यं स फलांशेन युज्यते ॥ सुकृतं वाचकं कृत्वा देवागारे तथा नरः ॥ ५१ ॥ विद्यादानफलं प्राप्य ब्रह्मलोकं प्रपद्यते ॥ विष्णुं शङ्खप्रदानेन निर्वाणं लोकमश्नुते ॥ ५२ ॥ माधुर्य्यमासाद्य तथा ख्याताशब्दश्च जायते ॥ घण्टाप्रदानेन तथा महद्यश उपाश्नुते॥ ५३ ॥ सौभाग्यमय वाप्रोति किङ्किणीः प्रददन्नरैः ॥ कूटो गारं तथा दत्त्वा नगराधिपतिर्भवेत् ॥ ५४॥ कीर्त्या युक्तस्तथा लोके धार्मिकश्चापि जायते ॥ बह्वन्व्दसहस्राणि नाकलोके स मोदते ॥ ५५ ॥ पताकां ये प्रयच्छन्ति कूटागारे मनोहराम् ॥ सन्त्यज्य सकलं पापं वायुलोके व्रजन्ति ते ॥ ५६ ॥ पताकां च शुभां दत्त्वा तथा केशववेश्मनि ॥ वायुलोकमवाप्नोति बह्वन्व्दगणानि तु ॥ ५७ ॥ ईक्ष्यते यथा सा च वायुना केशवालये ॥ तथातथा हि सकलं देहात्तापं विधूयते ॥ ५८ ॥ यथायथा च सा शोभां करोति त्रिदशालये ॥ तथातथा स यशसा महता भुवि राजते ॥ ५९ ॥ वितानकमप्रदानेन सर्वपापैः प्रमुच्यते ॥ परां निर्वृतिमाप्नोति यत्रयत्राभिजायते ॥ ६० ॥ दत्त्वा तु देवकर्मार्थं नवां वेदीं दृढां शुभाम् ॥ पार्थिवत्वमवाप्नोति वेदिहिं पृथिवी यतः॥६१॥ यः कूर्म देवकर्मार्थं नरो दद्यात्र संशय ॥ स लोकमाप्रोति नरो वारुणं गतकल्मषः ॥ ६२ ॥ चतुरः कलशान्दद्याद्यस्तु देवगृहे नरः ॥ चतुरस्र मुद्भवत्यं स च भुंक्ते वसुन्धराम् ॥ ६३ ॥ दत्वैकमपि विप्रन्द्राः कलशं सुसमाहितः ॥ राजा भवति धर्मात्मा भूतले नात्र संशयः ॥ ६४ ॥ वारिधानीं तथा दत्त्वा वारुणं लोकमश्नुते ॥ कमण्डलुप्रदानेन गोदानफलमाप्नुयात् ॥६५॥ उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ॥ दत्त्वा गोपा
॥४६१॥