विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 977, कुल 1001 में से
संदर्भ में पढ़ेंतथा धत्तूरकस्य च ॥ २१८ ॥ कृष्णकुब्जकं नार्कं नैव देयं जनार्दने ॥ सर्वासां पुष्पजातीनां जातिः श्रेष्ठा तथा स्मृता ॥ २१९ ॥ जातीनामपि सर्वासां शुक्लाजातिः प्रशस्यते ॥ केचिद्धर्षणगुणा देयाः केचिद्गन्धगुणास्तथा ॥ २२० ॥ अनुक्तान्यपि नामानि तथा देयानि कानिचित् ॥ देशे देशे यथा काले यानि पुष्पाण्यनेकंशः ॥ २२१ ॥ गन्धवर्णोपपन्नानि तथा देयानि नित्यशः ॥ सुगन्धिपुष्पैः कुर्यात्पूजां मधुरैर्नागरैः ॥ २२२ ॥ तस्य प्रसीदमाद्यति देवश्चक्रगदाधरः ॥ अन्याश्चोत्पिण्डमंजर्यो दयितास्तस्य नित्यशः ॥ २२३ ॥ पुरन्धिपुष्पं यो दद्यादेकमभ्यर्च्य पण्डितः ॥ तिलप्रस्थप्रदानस्य फलं प्राप्नोत्यसंशयम् ॥ २२४ ॥ पुरन्ध्रिमञ्जरीपुष्पसहस्रेणार्चयेद्धरिम् ॥ अभिष्टामथवाप्नोति कुलमुद्धरते तथा ॥ २२५ ॥ कर्पूरपटवासेन पुरन्ध्रमथ वासिताम् ॥ महाराजतरंगेन तथा सूत्रे निवेशिताम् ॥ २२६ ॥ माल्यपुष्पसहस्रेण यः प्रयच्छति भक्तितः ॥ अश्वमेधफलं तस्य नात्र कार्या विचारणा ॥ १२७ ॥ शतेन वाजपेयस्य फलमाप्नोत्यसंशयम् ॥ लक्षपूजां तथा कृत्वा सर्वान्कामानवाप्नुयात् ॥ २२८ ॥ नन्दनादिषु मुख्येषु देवोद्यानेषु चाप्यथ ॥ क्रीडते देवरामाभिर्देवदुन्दुभिनिस्स्वनैः ॥ २२९ ॥ दत्त्वा नीलोत्पलयुतं कुङ्कुमस्य च ॥ तुल्यं फलमवाप्नोति बंधुजीवस्य च द्विजाः ॥ २३० ॥ सुवर्णचम्पकदानस्य फलं प्राप्नोति मानवः ॥ दत्त्वा नीलोत्पलं विष्णोर्नात्र कार्या विचारणा ॥ २३१ ॥ नीलोत्पलशतं दत्त्वा वह्निष्टोमफलं लभेत् ॥ नीलोत्पलसहस्रेण पुण्डरीकमवाप्नुयात् ॥ २३२ ॥ लक्षपूजां तथा कृत्वा राजसूयफलं लभेत् ॥ रूप्यमाषप्रदानेन फलं कुंकुमदो लभेत् ॥ २३३ ॥ कुमुदानां शतं दत्त्वा चंद्रलोके महीयते ॥ सहस्रं च तथा दत्त्वा यथेष्टां गतिमाप्नुयात् ॥ २३४ ॥ अश्वमेधमवाप्नोति लक्षपूजाविधायकः ॥ स्वयं चैनं तथा लक्ष्मीर्भजते नात्र संशयः ॥ २३५ ॥ रक्तपद्मप्रदानेन रूप्यमाषप्रदो भवेत् ॥ लतां दत्त्वा च धर्मात्मा वह्निष्टोमफलं लभेत् ॥ २३६ ॥ सहस्रं च तथा दत्त्वा सूर्यलोके महीयते ॥ विष्णुलोकमवाप्नोति लक्षपूजाविधायकः ॥ २३७ ॥ स्वयमेनं तथा लक्ष्मीर्भजते नात्र संशयः ॥ रक्तपद्मप्रदो विष्णोस्तस्य स्याद्विगुणं फलम् ॥ २३८ ॥ नीलोत्पलसमं दानं चम्पकस्य प्रकीर्तितम् ॥ मल्लिकापुष्पजातीनां यूथिकायास्तथैव च ॥ २३९ ॥ तथा कुप्यकजातीनां फलस्यार्धं प्रकीर्तितम् ॥ जातीपुष्पप्रदानेन गन्धर्वैः सह मोदते ॥ २४० ॥ जातीपुष्पार्कं दत्त्वा वह्निष्टोमफलं लभेत् ॥ जातीपुष्पसहस्रेण यथेष्टाङ्गतिमाप्नुयात् ॥ २४१ ॥ श्वेतद्वीपमवाप्नोति लक्षपूजाविधायकः ॥ जातीपुष्पयुतां मालां कर्पूरपटवासिताम् ॥ २४२ ॥ निवेद्य देवदेवाय यत्फलं प्राप्नुयान्नरः ॥ श्वेतैः पुष्पैः समभ्यर्च्य सर्वान्कामानवाप्नुयात् ॥ २४३ ॥ आश्चर्यान्मानुषाल्लोके पीतदेवं समर्चयन् ॥ शत्रूणामभिभावेषु तथा कृष्ण समर्चयेत् ॥ २४४ ॥ सुवर्णपुष्पैरभ्यर्च्य